सञ्जय़ उवाच:
भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान् |
৪৯ ক
सञ्जय़ उवाच:
अपश्याम हतान्नागान्निष्टनन्तस्तथापरे ||
৪৯ খ
सञ्जय़ उवाच:
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः |
৫০ ক
सञ्जय़ उवाच:
विह्वलन्तो गता भूमिं शैला इव धरातले ||
৫০ খ
सञ्जय़ उवाच:
मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः |
৫১ ক
सञ्जय़ उवाच:
व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ||
৫১ খ
सञ्जय़ उवाच:
गजानां रुधिराक्तां तां गदां विभ्रद्वृकोदरः |
৫২ ক
सञ्जय़ उवाच:
घोरः प्रतिभय़श्चासीत्पिनाकीव पिनाकधृक् ||
৫২ খ
सञ्जय़ उवाच:
निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः |
৫৩ ক
सञ्जय़ उवाच:
सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम् ||
৫৩ খ
सञ्जय़ उवाच:
तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः |
৫৪ ক
सञ्जय़ उवाच:
पर्यरक्षन्त युध्यन्तं वज्राय़ुधमिवामराः ||
৫৪ খ
सञ्जय़ उवाच:
शोणिताक्तां गदां विभ्रदुक्षितो गजशोणितैः |
৫৫ ক
सञ्जय़ उवाच:
कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत ||
৫৫ খ
सञ्जय़ उवाच:
व्याय़च्छमानं गदय़ा दिक्षु सर्वासु भारत |
৫৬ ক
सञ्जय़ उवाच:
नृत्यमानमपश्याम नृत्यन्तमिव शङ्करम् ||
৫৬ খ
सञ्जय़ उवाच:
यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम् |
৫৭ ক
सञ्जय़ उवाच:
अपश्याम महाराज रौद्रां विशसनीं गदाम् ||
৫৭ খ
सञ्जय़ उवाच:
विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च |
৫৮ ক
सञ्जय़ उवाच:
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ||
৫৮ খ
सञ्जय़ उवाच:
यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालय़ेत् |
৫৯ ক
सञ्जय़ उवाच:
तथा भीमो गजानीकं गदय़ा पर्यकालय़त् ||
৫৯ খ
सञ्जय़ उवाच:
गदय़ा वध्यमानास्ते मार्गणैश्च समन्ततः |
৬০ ক
सञ्जय़ उवाच:
स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव ||
৬০ খ
सञ्जय़ उवाच:
महावात इवाभ्राणि विधमित्वा स वारणान् |
৬১ ক
सञ्जय़ उवाच:
अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ||
৬১ খ