कस्याद्य काय़ं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः | 
१४   क
मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनरेष्यतीति | 
१४   ख
निहत्य सर्वान्द्विषतः समग्रा; न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या || 
१४   ग