भद्रं वोऽस्तु निहितं यद्गुहाय़ां; विवर्धध्वं ज्वलन इवेध्यमानः | 
९   क
मा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिविराय़ैव तावत् | 
९   ख
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्राय़ाच्छीघ्रं वलदेवेन सार्धम् || 
९   ग