शस्त्राणि पत्रं कवचान्रथांश्च; नागान्ध्वजांश्च प्रतिपादय़ित्वा | 
३६   क
योधाश्च सर्वे कृतनिश्रमास्ते; भवन्तु हस्त्यश्वरथेषु यत्ताः | 
३६   ख
साङ्ग्रामिकं ते यदुपार्जनीय़ं; सर्वं समग्रं कुरु तन्नरेन्द्र || 
३६   ग