हित्वा सुखं मनसश्च प्रिय़ाणि; तेन शक्रः कर्मणा श्रैष्ठ्यमाप | 
१२   क
सत्यं धर्मं पालय़न्नप्रमत्तो; दमं तितिक्षां समतां प्रिय़ं च | 
१२   ख
एतानि सर्वाण्युपसेवमानो; देवराज्यं मघवान्प्राप मुख्यम् || 
१२   ग