उवाच चैनम् | 
९२   क
वत्सोत्तङ्क किं ते प्रिय़ं करवाणीति | 
९२   ख
धर्मतो हि शुश्रूषितोऽस्मि भवता | 
९२   ग
तेन प्रीतिः परस्परेण नौ संवृद्धा | 
९२   घ
तदनुजाने भवन्तम् | 
९२   5
सर्वामेव सिद्धिं प्राप्स्यसि | 
९२   6
गम्यतामिति || 
९२   7