स एवमुक्तः प्रत्युवाच | 
१५   क
भो जनमेजय़ पुत्रोऽय़ं मम सर्प्यां जातः | 
१५   ख
महातपस्वी स्वाध्याय़सम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः | 
१५   ग
समर्थोऽय़ं भवतः सर्वाः पापकृत्याः शमय़ितुमन्तरेण महादेवकृत्याम् | 
१५   घ
अस्य त्वेकमुपांशुव्रतम् | 
१५   5
यदेनं कश्चिद्व्राह्मणः कञ्चिदर्थमभिय़ाचेत्तं तस्मै दद्यादय़म् | 
१५   6
यद्येतदुत्सहसे ततो नय़स्वैनमिति || 
१५   7