लोका हि सर्वे तपसा ध्रिय़न्ते; तस्मात्त्वरध्वं तपसः क्षय़ाय़ | 
२०   क
ये सन्ति केचिद्धि वसुन्धराय़ां; तपस्विनो धर्मविदश्च तज्ज्ञाः | 
२०   ख
तेषां वधः क्रिय़तां क्षिप्रमेव; तेषु प्रनष्टेषु जगत्प्रनष्टम् || 
२०   ग