chevron_left सौप्तिक पर्व अध्याय १
सञ्जय़ उवाच:
ततस्ते सहिता वीराः प्रय़ाता दक्षिणामुखाः |
१ क
सञ्जय़ उवाच:
उपास्तमय़वेलाय़ां शिविराभ्याशमागताः ||
१ ख
सञ्जय़ उवाच:
विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा |
२ क
सञ्जय़ उवाच:
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ||
२ ख
सञ्जय़ उवाच:
सेनानिवेशमभितो नातिदूरमवस्थिताः |
३ क
सञ्जय़ उवाच:
निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ||
३ ख
सञ्जय़ उवाच:
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तय़न् |
४ क
सञ्जय़ उवाच:
श्रुत्वा च निनदं घोरं पाण्डवानां जय़ैषिणाम् ||
४ ख
सञ्जय़ उवाच:
अनुसारभय़ाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः |
५ क
सञ्जय़ उवाच:
ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः ||
५ ख
सञ्जय़ उवाच:
नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः |
६ क
सञ्जय़ उवाच:
राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः ||
६ ख
धृतराष्ट्र उवाच:
अश्रद्धेय़मिदं कर्म कृतं भीमेन सञ्जय़ |
७ क
धृतराष्ट्र उवाच:
यत्स नागाय़ुतप्राणः पुत्रो मम निपातितः ||
७ ख
धृतराष्ट्र उवाच:
अवध्यः सर्वभूतानां वज्रसंहननो युवा |
८ क
धृतराष्ट्र उवाच:
पाण्डवैः समरे पुत्रो निहतो मम सञ्जय़ ||
८ ख
धृतराष्ट्र उवाच:
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः |
९ क
धृतराष्ट्र उवाच:
यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ||
९ ख
धृतराष्ट्र उवाच:
अद्रिसारमय़ं नूनं हृदय़ं मम सञ्जय़ |
१० क
धृतराष्ट्र उवाच:
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ||
१० ख
धृतराष्ट्र उवाच:
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति |
११ क
धृतराष्ट्र उवाच:
न ह्यहं पाण्डवेय़स्य विषय़े वस्तुमुत्सहे ||
११ ख
धृतराष्ट्र उवाच:
कथं राज्ञः पिता भूत्वा स्वय़ं राजा च सञ्जय़ |
१२ क
धृतराष्ट्र उवाच:
प्रेष्यभूतः प्रवर्तेय़ं पाण्डवेय़स्य शासनात् ||
१२ ख
धृतराष्ट्र उवाच:
आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च सञ्जय़ |
१३ क
धृतराष्ट्र उवाच:
कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् ||
१३ ख
धृतराष्ट्र उवाच:
कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि सञ्जय़ |
१४ क
धृतराष्ट्र उवाच:
येन पुत्रशतं पूर्णमेकेन निहतं मम ||
१४ ख
धृतराष्ट्र उवाच:
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः |
१५ क
धृतराष्ट्र उवाच:
अकुर्वता वचस्तेन मम पुत्रेण सञ्जय़ ||
१५ ख
धृतराष्ट्र उवाच:
अधर्मेण हते तात पुत्रे दुर्योधने मम |
१६ क
धृतराष्ट्र उवाच:
कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय़ ||
१६ ख
सञ्जय़ उवाच:
गत्वा तु तावका राजन्नातिदूरमवस्थिताः |
१७ क
सञ्जय़ उवाच:
अपश्यन्त वनं घोरं नानाद्रुमलताकुलम् ||
१७ ख
सञ्जय़ उवाच:
ते मुहूर्तं तु विश्रम्य लव्धतोय़ैर्हय़ोत्तमैः |
१८ क
सञ्जय़ उवाच:
सूर्यास्तमय़वेलाय़ामासेदुः सुमहद्वनम् ||
१८ ख
सञ्जय़ उवाच:
नानामृगगणैर्जुष्टं नानापक्षिसमाकुलम् |
१९ क
सञ्जय़ उवाच:
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ||
१९ ख
सञ्जय़ उवाच:
नानातोय़समाकीर्णं तडागैरुपशोभितम् |
२० क
सञ्जय़ उवाच:
पद्मिनीशतसञ्छन्नं नीलोत्पलसमाय़ुतम् ||
२० ख
सञ्जय़ उवाच:
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः |
२१ क
सञ्जय़ उवाच:
शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः ||
२१ ख
सञ्जय़ उवाच:
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः |
२२ क
सञ्जय़ उवाच:
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ||
२२ ख
सञ्जय़ उवाच:
तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः |
२३ क
सञ्जय़ उवाच:
उपस्पृश्य यथान्याय़ं सन्ध्यामन्वासत प्रभो ||
२३ ख
सञ्जय़ उवाच:
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे |
२४ क
सञ्जय़ उवाच:
सर्वस्य जगतो धात्री शर्वरी समपद्यत ||
२४ ख
सञ्जय़ उवाच:
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम् |
२५ क
सञ्जय़ उवाच:
नभोंऽशुकमिवाभाति प्रेक्षणीय़ं समन्ततः ||
२५ ख
सञ्जय़ उवाच:
ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः |
२६ क
सञ्जय़ उवाच:
दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः ||
२६ ख
सञ्जय़ उवाच:
रात्रिञ्चराणां सत्त्वानां निनादोऽभूत्सुदारुणः |
२७ क
सञ्जय़ उवाच:
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ||
२७ ख
सञ्जय़ उवाच:
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः |
२८ क
सञ्जय़ उवाच:
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ||
२८ ख
सञ्जय़ उवाच:
तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः |
२९ क
सञ्जय़ उवाच:
तमेवार्थमतिक्रान्तं कुरुपाण्डवय़ोः क्षय़म् ||
२९ ख
सञ्जय़ उवाच:
निद्रय़ा च परीताङ्गा निषेदुर्धरणीतले |
३० क
सञ्जय़ उवाच:
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ||
३० ख
सञ्जय़ उवाच:
ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ |
३१ क
सञ्जय़ उवाच:
सुखोचितावदुःखार्हौ निषण्णौ धरणीतले |
३१ ख
सञ्जय़ उवाच:
तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ ||
३१ ग
सञ्जय़ उवाच:
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत |
३२ क
सञ्जय़ उवाच:
नैव स्म स जगामाथ निद्रां सर्प इव श्वसन् ||
३२ ख
सञ्जय़ उवाच:
न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना |
३३ क
सञ्जय़ उवाच:
वीक्षां चक्रे महावाहुस्तद्वनं घोरदर्शनम् ||
३३ ख
सञ्जय़ उवाच:
वीक्षमाणो वनोद्देशं नानासत्त्वैर्निषेवितम् |
३४ क
सञ्जय़ उवाच:
अपश्यत महावाहुर्न्यग्रोधं वाय़साय़ुतम् ||
३४ ख
सञ्जय़ उवाच:
तत्र काकसहस्राणि तां निशां पर्यणामय़न् |
३५ क
सञ्जय़ उवाच:
सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रय़ाः ||
३५ ख
सञ्जय़ उवाच:
सुप्तेषु तेषु काकेषु विस्रव्धेषु समन्ततः |
३६ क
सञ्जय़ उवाच:
सोऽपश्यत्सहसाय़ान्तमुलूकं घोरदर्शनम् ||
३६ ख
सञ्जय़ उवाच:
महास्वनं महाकाय़ं हर्यक्षं वभ्रुपिङ्गलम् |
३७ क
सञ्जय़ उवाच:
सुदीर्घघोणानखरं सुपर्णमिव वेगिनम् ||
३७ ख
सञ्जय़ उवाच:
सोऽथ शव्दं मृदुं कृत्वा लीय़मान इवाण्डजः |
३८ क
सञ्जय़ उवाच:
न्यग्रोधस्य ततः शाखां प्रार्थय़ामास भारत ||
३८ ख
सञ्जय़ उवाच:
संनिपत्य तु शाखाय़ां न्यग्रोधस्य विहङ्गमः |
३९ क
सञ्जय़ उवाच:
सुप्ताञ्जघान सुवहून्वाय़सान्वाय़सान्तकः ||
३९ ख
सञ्जय़ उवाच:
केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह |
४० क
सञ्जय़ उवाच:
चरणांश्चैव केषाञ्चिद्वभञ्ज चरणाय़ुधः ||
४० ख
सञ्जय़ उवाच:
क्षणेनाहन्स वलवान्येऽस्य दृष्टिपथे स्थिताः |
४१ क
सञ्जय़ उवाच:
तेषां शरीरावय़वैः शरीरैश्च विशां पते |
४१ ख
सञ्जय़ उवाच:
न्यग्रोधमण्डलं सर्वं सञ्छन्नं सर्वतोऽभवत् ||
४१ ग
सञ्जय़ उवाच:
तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् |
४२ क
सञ्जय़ उवाच:
प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ||
४२ ख
सञ्जय़ उवाच:
तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि |
४३ क
सञ्जय़ उवाच:
तद्भावकृतसङ्कल्पो द्रौणिरेको व्यचिन्तय़त् ||
४३ ख
सञ्जय़ उवाच:
उपदेशः कृतोऽनेन पक्षिणा मम संय़ुगे |
४४ क
सञ्जय़ उवाच:
शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः ||
४४ ख
सञ्जय़ उवाच:
नाद्य शक्या मय़ा हन्तुं पाण्डवा जितकाशिनः |
४५ क
सञ्जय़ उवाच:
वलवन्तः कृतोत्साहा लव्धलक्षाः प्रहारिणः |
४५ ख
सञ्जय़ उवाच:
राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मय़ा ||
४५ ग
सञ्जय़ उवाच:
पतङ्गाग्निसमां वृत्तिमास्थाय़ात्मविनाशिनीम् |
४६ क
सञ्जय़ उवाच:
न्याय़तो युध्यमानस्य प्राणत्यागो न संशय़ः |
४६ ख
सञ्जय़ उवाच:
छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षय़ो महान् ||
४६ ग
सञ्जय़ उवाच:
तत्र संशय़ितादर्थाद्योऽर्थो निःसंशय़ो भवेत् |
४७ क
सञ्जय़ उवाच:
तं जना वहु मन्यन्ते येऽर्थशास्त्रविशारदाः ||
४७ ख
सञ्जय़ उवाच:
यच्चाप्यत्र भवेद्वाच्यं गर्हितं लोकनिन्दितम् |
४८ क
सञ्जय़ उवाच:
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ||
४८ ख