सञ्जय़ उवाच:
निन्दितानि च सर्वाणि कुत्सितानि पदे पदे |
४९ क
सञ्जय़ उवाच:
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ||
४९ ख
सञ्जय़ उवाच:
अस्मिन्नर्थे पुरा गीतौ श्रूय़ेते धर्मचिन्तकैः |
५० क
सञ्जय़ उवाच:
श्लोकौ न्याय़मवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः ||
५० ख
सञ्जय़ उवाच:
परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः |
५१ क
सञ्जय़ उवाच:
प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर्वलम् ||
५१ ख
सञ्जय़ उवाच:
निद्रार्तमर्धरात्रे च तथा नष्टप्रणाय़कम् |
५२ क
सञ्जय़ उवाच:
भिन्नय़ोधं वलं यच्च द्विधा युक्तं च यद्भवेत् ||
५२ ख
सञ्जय़ उवाच:
इत्येवं निश्चय़ं चक्रे सुप्तानां युधि मारणे |
५३ क
सञ्जय़ उवाच:
पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ||
५३ ख
सञ्जय़ उवाच:
स क्रूरां मतिमास्थाय़ विनिश्चित्य मुहुर्मुहुः |
५४ क
सञ्जय़ उवाच:
सुप्तौ प्रावोधय़त्तौ तु मातुलं भोजमेव च ||
५४ ख
सञ्जय़ उवाच:
नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिय़ा वृतः |
५५ क
सञ्जय़ उवाच:
स मुहूर्तमिव ध्यात्वा वाष्पविह्वलमव्रवीत् ||
५५ ख
सञ्जय़ उवाच:
हतो दुर्योधनो राजा एकवीरो महावलः |
५६ क
सञ्जय़ उवाच:
यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ||
५६ ख
सञ्जय़ उवाच:
एकाकी वहुभिः क्षुद्रैराहवे शुद्धविक्रमः |
५७ क
सञ्जय़ उवाच:
पातितो भीमसेनेन एकादशचमूपतिः ||
५७ ख
सञ्जय़ उवाच:
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् |
५८ क
सञ्जय़ उवाच:
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता ||
५८ ख
सञ्जय़ उवाच:
विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च |
५९ क
सञ्जय़ उवाच:
धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ||
५९ ख
सञ्जय़ उवाच:
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः |
६० क
सञ्जय़ उवाच:
अनिलेनेरितो घोरो दिशः पूरय़तीव हि ||
६० ख
सञ्जय़ उवाच:
अश्वानां हेषमाणानां गजानां चैव वृंहताम् |
६१ क
सञ्जय़ उवाच:
सिंहनादश्च शूराणां श्रूय़ते सुमहानय़म् ||
६१ ख
सञ्जय़ उवाच:
दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम् |
६२ क
सञ्जय़ उवाच:
रथनेमिस्वनाश्चैव श्रूय़न्ते लोमहर्षणाः ||
६२ ख
सञ्जय़ उवाच:
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् |
६३ क
सञ्जय़ उवाच:
वय़मेव त्रय़ः शिष्टास्तस्मिन्महति वैशसे ||
६३ ख
सञ्जय़ उवाच:
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः |
६४ क
सञ्जय़ उवाच:
निहताः पाण्डवेय़ैः स्म मन्ये कालस्य पर्ययम् ||
६४ ख
सञ्जय़ उवाच:
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः |
६५ क
सञ्जय़ उवाच:
यथा ह्यस्येदृशी निष्ठा कृते कार्येऽपि दुष्करे ||
६५ ख
सञ्जय़ उवाच:
भवतोस्तु यदि प्रज्ञा न मोहादपचीय़ते |
६६ क
सञ्जय़ उवाच:
व्यापन्नेऽस्मिन्महत्यर्थे यन्नः श्रेय़स्तदुच्यताम् ||
६६ ख