chevron_left अनुशासन पर्व अध्याय १
भीष्म उवाच:
अथ चैवङ्गते दोषो मय़ि त्वमपि दोषवान् ||
५० ख
सर्प उवाच:
निर्दोषं दोषवन्तं वा न त्वा मृत्यो व्रवीम्यहम् |
५१ क
सर्प उवाच:
त्वय़ाहं चोदित इति व्रवीम्येतावदेव तु ||
५१ ख
सर्प उवाच:
यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते |
५२ क
सर्प उवाच:
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वय़म् ||
५२ ख
सर्प उवाच:
निर्मोक्षस्त्वस्य दोषस्य मय़ा कार्यो यथा तथा |
५३ क
सर्प उवाच:
मृत्यो विदोषः स्यामेव यथा तन्मे प्रय़ोजनम् ||
५३ ख
भीष्म उवाच:
सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् |
५४ क
भीष्म उवाच:
नानागसं मां पाशेन सन्तापय़ितुमर्हसि ||
५४ ख
लुव्धक उवाच:
मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम |
५५ क
लुव्धक उवाच:
नैव तावद्विदोषत्वं भवति त्वय़ि पन्नग ||
५५ ख
लुव्धक उवाच:
मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने |
५६ क
लुव्धक उवाच:
उभय़ं कारणं मन्ये न कारणमकारणम् ||
५६ ख
लुव्धक उवाच:
धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् |
५७ क
लुव्धक उवाच:
त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् ||
५७ ख
मृत्युरु उवाच:
विवशौ कालवशगावावां तद्दिष्टकारिणौ |
५८ क
मृत्युरु उवाच:
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ||
५८ ख
लुव्धक उवाच:
युवामुभौ कालवशौ यदि वै मृत्युपन्नगौ |
५९ क
लुव्धक उवाच:
हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम् ||
५९ ख
मृत्युरु उवाच:
याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः |
६० क
मृत्युरु उवाच:
पूर्वमेवैतदुक्तं हि मय़ा लुव्धक कालतः ||
६० ख
मृत्युरु उवाच:
तस्मादुभौ कालवशावावां तद्दिष्टकारिणौ |
६१ क
मृत्युरु उवाच:
नावां दोषेण गन्तव्यौ त्वय़ा लुव्धक कर्हिचित् ||
६१ ख
भीष्म उवाच:
अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशय़े |
६२ क
भीष्म उवाच:
अव्रवीत्पन्नगं मृत्युं लुव्धमर्जुनकं च तम् ||
६२ ख
काल उवाच:
नैवाहं नाप्ययं मृत्युर्नाय़ं लुव्धक पन्नगः |
६३ क
काल उवाच:
किल्विषी जन्तुमरणे न वय़ं हि प्रय़ोजकाः ||
६३ ख
काल उवाच:
अकरोद्यदय़ं कर्म तन्नोऽर्जुनक चोदकम् |
६४ क
काल उवाच:
प्रणाशहेतुर्नान्योऽस्य वध्यतेऽय़ं स्वकर्मणा ||
६४ ख
काल उवाच:
यदनेन कृतं कर्म तेनाय़ं निधनं गतः |
६५ क
काल उवाच:
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वय़म् ||
६५ ख
काल उवाच:
कर्मदाय़ादवाँल्लोकः कर्मसम्वन्धलक्षणः |
६६ क
काल उवाच:
कर्माणि चोदय़न्तीह यथान्योन्यं तथा वय़म् ||
६६ ख
काल उवाच:
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति |
६७ क
काल उवाच:
एवमात्मकृतं कर्म मानवः प्रतिपद्यते ||
६७ ख
काल उवाच:
यथा छाय़ातपौ नित्यं सुसम्वद्धौ निरन्तरम् |
६८ क
काल उवाच:
तथा कर्म च कर्ता च सम्वद्धावात्मकर्मभिः ||
६८ ख
काल उवाच:
एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान् |
६९ क
काल उवाच:
न चेय़ं व्राह्मणी वृद्धा शिशुरेवात्र कारणम् ||
६९ ख
काल उवाच:
तस्मिंस्तथा व्रुवाणे तु व्राह्मणी गौतमी नृप |
७० क
काल उवाच:
स्वकर्मप्रत्ययाँल्लोकान्मत्वार्जुनकमव्रवीत् ||
७० ख
काल उवाच:
नैव कालो न भुजगो न मृत्युरिह कारणम् |
७१ क
काल उवाच:
स्वकर्मभिरय़ं वालः कालेन निधनं गतः ||
७१ ख
काल उवाच:
मय़ा च तत्कृतं कर्म येनाय़ं मे मृतः सुतः |
७२ क
काल उवाच:
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ||
७२ ख
भीष्म उवाच:
ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः |
७३ क
भीष्म उवाच:
अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी ||
७३ ख
भीष्म उवाच:
एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप |
७४ क
भीष्म उवाच:
स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि मनुजर्षभ ||
७४ ख
भीष्म उवाच:
न तु त्वय़ा कृतं पार्थ नापि दुर्योधनेन वै |
७५ क
भीष्म उवाच:
कालेन तत्कृतं विद्धि विहता येन पार्थिवाः ||
७५ ख
वैशम्पाय़न उवाच:
इत्येतद्वचनं श्रुत्वा वभूव विगतज्वरः |
७६ क
वैशम्पाय़न उवाच:
युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् ||
७६ ख