chevron_left आदि पर्व अध्याय १
महाभारत कथा:
नाराय়णं नमस्कृत्य नरं चैव नरोत्तमम् |
० क
महाभारत कथा:
देवीं सरस्वतीं चैव ततो जय়मुदीरय়ेत् ||
० ख
महाभारत कथा:
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ||
१ क
महाभारत कथा:
समासीनानभ्यगच्छद्व्रह्मर्षीन्संशितव्रतान् |
२ क
महाभारत कथा:
विनय়ावनतो भूत्वा कदाचित्सूतनन्दनः ||
२ ख
महाभारत कथा:
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः |
३ क
महाभारत कथा:
चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ||
३ ख
महाभारत कथा:
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः |
४ क
महाभारत कथा:
अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ||
४ ख
महाभारत कथा:
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु |
५ क
महाभारत कथा:
निर्दिष्टमासनं भेजे विनय়ाल्लोमहर्षणिः ||
५ ख
महाभारत कथा:
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च |
६ क
महाभारत कथा:
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावय়न्कथाः ||
६ ख
महाभारत कथा:
कुत आगम्यते सौते क्व चाय়ं विहृतस्त्वय়ा |
७ क
महाभारत कथा:
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ||
७ ख
सूत उवाच:
जनमेजय़स्य राजर्षेः सर्पसत्रे महात्मनः |
८ क
सूत उवाच:
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ||
८ ख
सूत उवाच:
कृष्णद्वैपाय़नप्रोक्ताः सुपुण्या विविधाः कथाः |
९ क
सूत उवाच:
कथिताश्चापि विधिवद्या वैशम्पाय़नेन वै ||
९ ख
सूत उवाच:
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः |
१० क
सूत उवाच:
वहूनि सम्परिक्रम्य तीर्थान्याय़तनानि च ||
१० ख
सूत उवाच:
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् |
११ क
सूत उवाच:
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा |
११ ख
सूत उवाच:
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ||
११ ग
सूत उवाच:
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह |
१२ क
सूत उवाच:
आय़ुष्मन्तः सर्व एव व्रह्मभूता हि मे मताः ||
१२ ख
सूत उवाच:
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः |
१३ क
सूत उवाच:
कृताभिषेकाः शुचय़ः कृतजप्या हुताग्नय़ः |
१३ ख
सूत उवाच:
भवन्त आसते स्वस्था व्रवीमि किमहं द्विजाः ||
१३ ग
सूत उवाच:
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः |
१४ क
सूत उवाच:
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ||
१४ ख
ऋषय़ ऊचुः:
द्वैपाय़नेन यत्प्रोक्तं पुराणं परमर्षिणा |
१५ क
ऋषय़ ऊचुः:
सुरैर्व्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ||
१५ ख
ऋषय़ ऊचुः:
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः |
१६ क
ऋषय़ ऊचुः:
सूक्ष्मार्थन्याय़युक्तस्य वेदार्थैर्भूषितस्य च ||
१६ ख
ऋषय़ ऊचुः:
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंय़ुताम् |
१७ क
ऋषय़ ऊचुः:
संस्कारोपगतां व्राह्मीं नानाशास्त्रोपवृंहिताम् ||
१७ ख
ऋषय़ ऊचुः:
जनमेजय़स्य यां राज्ञो वैशम्पाय़न उक्तवान् |
१८ क
ऋषय़ ऊचुः:
यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपाय़नाज्ञय़ा ||
१८ ख
ऋषय़ ऊचुः:
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः |
१९ क
ऋषय़ ऊचुः:
संहितां श्रोतुमिच्छामो धर्म्यां पापभय़ापहाम् ||
१९ ख
सूत उवाच:
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् |
२० क
सूत उवाच:
ऋतमेकाक्षरं व्रह्म व्यक्ताव्यक्तं सनातनम् ||
२० ख
सूत उवाच:
असच्च सच्चैव च यद्विश्वं सदसतः परम् |
२१ क
सूत उवाच:
परावराणां स्रष्टारं पुराणं परमव्ययम् ||
२१ ख
सूत उवाच:
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् |
२२ क
सूत उवाच:
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ||
२२ ख
सूत उवाच:
महर्षेः पूजितस्येह सर्वलोके महात्मनः |
२३ क
सूत उवाच:
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ||
२३ ख
सूत उवाच:
आचख्युः कवय़ः केचित्सम्प्रत्याचक्षते परे |
२४ क
सूत उवाच:
आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ||
२४ ख
सूत उवाच:
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् |
२५ क
सूत उवाच:
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ||
२५ ख
सूत उवाच:
अलङ्कृतं शुभैः शव्दैः समय़ैर्दिव्यमानुषैः |
२६ क
सूत उवाच:
छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रिय़म् ||
२६ ख
सूत उवाच:
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते |
२७ क
सूत उवाच:
वृहदण्डमभूदेकं प्रजानां वीजमक्षय़म् ||
२७ ख
सूत उवाच:
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते |
२८ क
सूत उवाच:
यस्मिंस्तच्छ्रूय़ते सत्यं ज्योतिर्व्रह्म सनातनम् ||
२८ ख
सूत उवाच:
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् |
२९ क
सूत उवाच:
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ||
२९ ख
सूत उवाच:
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः |
३० क
सूत उवाच:
व्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ||
३० ख
सूत उवाच:
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये |
३१ क
सूत उवाच:
ततः प्रजानां पतय़ः प्राभवन्नेकविंशतिः ||
३१ ख
सूत उवाच:
पुरुषश्चाप्रमेय़ात्मा यं सर्वमृषय़ो विदुः |
३२ क
सूत उवाच:
विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ||
३२ ख
सूत उवाच:
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा |
३३ क
सूत उवाच:
ततः प्रसूता विद्वांसः शिष्टा व्रह्मर्षय़ोऽमलाः ||
३३ ख
सूत उवाच:
राजर्षय़श्च वहवः सर्वैः समुदिता गुणैः |
३४ क
सूत उवाच:
आपो द्यौः पृथिवी वाय़ुरन्तरिक्षं दिशस्तथा ||
३४ ख
सूत उवाच:
संवत्सरर्तवो मासाः पक्षाहोरात्रय़ः क्रमात् |
३५ क
सूत उवाच:
यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ||
३५ ख
सूत उवाच:
यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम् |
३६ क
सूत उवाच:
पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षय़े ||
३६ ख
सूत उवाच:
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये |
३७ क
सूत उवाच:
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ||
३७ ख
सूत उवाच:
एवमेतदनाद्यन्तं भूतसंहारकारकम् |
३८ क
सूत उवाच:
अनादिनिधनं लोके चक्रं सम्परिवर्तते ||
३८ ख
सूत उवाच:
त्रय़स्त्रिंशत्सहस्राणि त्रय़स्त्रिंशच्छतानि च |
३९ क
सूत उवाच:
त्रय़स्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ||
३९ ख
सूत उवाच:
दिवस्पुत्रो वृहद्भानुश्चक्षुरात्मा विभावसुः |
४० क
सूत उवाच:
सविता च ऋचीकोऽर्को भानुराशावहो रविः ||
४० ख
सूत उवाच:
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः |
४१ क
सूत उवाच:
देवभ्राट्तनय़स्तस्य तस्मात्सुभ्राडिति स्मृतः ||
४१ ख
सूत उवाच:
सुभ्राजस्तु त्रय़ः पुत्राः प्रजावन्तो वहुश्रुताः |
४२ क
सूत उवाच:
दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ||
४२ ख
सूत उवाच:
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः |
४३ क
सूत उवाच:
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ||
४३ ख
सूत उवाच:
भूय़स्ततो दशगुणाः सहस्रज्योतिषः सुताः |
४४ क
सूत उवाच:
तेभ्योऽय़ं कुरुवंशश्च यदूनां भरतस्य च ||
४४ ख
सूत उवाच:
यय़ातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः |
४५ क
सूत उवाच:
सम्भूता वहवो वंशा भूतसर्गाः सविस्तराः ||
४५ ख
सूत उवाच:
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् |
४६ क
सूत उवाच:
वेदय़ोगं सविज्ञानं धर्मोऽर्थः काम एव च ||
४६ ख
सूत उवाच:
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च |
४७ क
सूत उवाच:
लोकय़ात्राविधानं च सम्भूतं दृष्टवानृषिः ||
४७ ख
सूत उवाच:
इतिहासाः सवैय़ाख्या विविधाः श्रुतय़ोऽपि च |
४८ क
सूत उवाच:
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ||
४८ ख
सूत उवाच:
विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमव्रवीत् |
४९ क