chevron_left स्त्री पर्व अध्याय १
जनमेजय़ उवाच:
हते दुर्योधने चैव हते सैन्ये च सर्वशः |
१ क
जनमेजय़ उवाच:
धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने ||
१ ख
जनमेजय़ उवाच:
तथैव कौरवो राजा धर्मपुत्रो महामनाः |
२ क
जनमेजय़ उवाच:
कृपप्रभृतय़श्चैव किमकुर्वत ते त्रय़ः ||
२ ख
जनमेजय़ उवाच:
अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः |
३ क
जनमेजय़ उवाच:
वृत्तान्तमुत्तरं व्रूहि यदभाषत सञ्जय़ः ||
३ ख
वैशम्पाय़न उवाच:
हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् |
४ क
वैशम्पाय़न उवाच:
पुत्रशोकाभिसन्तप्तं धृतराष्ट्रं महीपतिम् ||
४ ख
वैशम्पाय़न उवाच:
ध्यानमूकत्वमापन्नं चिन्तय़ा समभिप्लुतम् |
५ क
वैशम्पाय़न उवाच:
अभिगम्य महाप्राज्ञः सञ्जय़ो वाक्यमव्रवीत् ||
५ ख
वैशम्पाय़न उवाच:
किं शोचसि महाराज नास्ति शोके सहाय़ता |
६ क
वैशम्पाय़न उवाच:
अक्षौहिण्यो हताश्चाष्टौ दश चैव विशां पते |
६ ख
वैशम्पाय़न उवाच:
निर्जनेय़ं वसुमती शून्या सम्प्रति केवला ||
६ ग
वैशम्पाय़न उवाच:
नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः |
७ क
वैशम्पाय़न उवाच:
सहितास्तव पुत्रेण सर्वे वै निधनं गताः ||
७ ख
वैशम्पाय़न उवाच:
पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा |
८ क
वैशम्पाय़न उवाच:
गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय़ ||
८ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः |
९ क
वैशम्पाय़न उवाच:
पपात भुवि दुर्धर्षो वाताहत इव द्रुमः ||
९ ख
धृतराष्ट्र उवाच:
हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः |
१० क
धृतराष्ट्र उवाच:
दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम् ||
१० ख
धृतराष्ट्र उवाच:
किं नु वन्धुविहीनस्य जीवितेन ममाद्य वै |
११ क
धृतराष्ट्र उवाच:
लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः ||
११ ख
धृतराष्ट्र उवाच:
हृतराज्यो हतसुहृद्धतचक्षुश्च वै तथा |
१२ क
धृतराष्ट्र उवाच:
न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान् ||
१२ ख
धृतराष्ट्र उवाच:
न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः |
१३ क
धृतराष्ट्र उवाच:
नारदस्य च देवर्षेः कृष्णद्वैपाय़नस्य च ||
१३ ख
धृतराष्ट्र उवाच:
सभामध्ये तु कृष्णेन यच्छ्रेय़ोऽभिहितं मम |
१४ क
धृतराष्ट्र उवाच:
अलं वैरेण ते राजन्पुत्रः सङ्गृह्यतामिति ||
१४ ख
धृतराष्ट्र उवाच:
तच्च वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः |
१५ क
धृतराष्ट्र उवाच:
न हि श्रोतास्मि भीष्मस्य धर्मय़ुक्तं प्रभाषितम् ||
१५ ख
धृतराष्ट्र उवाच:
दुर्योधनस्य च तथा वृषभस्येव नर्दतः |
१६ क
धृतराष्ट्र उवाच:
दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् |
१६ ख
धृतराष्ट्र उवाच:
द्रोणसूर्योपरागं च हृदय़ं मे विदीर्यते ||
१६ ग
धृतराष्ट्र उवाच:
न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय़ दुष्कृतम् |
१७ क
धृतराष्ट्र उवाच:
यस्येदं फलमद्येह मय़ा मूढेन भुज्यते ||
१७ ख
धृतराष्ट्र उवाच:
नूनं ह्यपकृतं किञ्चिन्मय़ा पूर्वेषु जन्मसु |
१८ क
धृतराष्ट्र उवाच:
येन मां दुःखभागेषु धाता कर्मसु युक्तवान् ||
१८ ख
धृतराष्ट्र उवाच:
परिणामश्च वय़सः सर्ववन्धुक्षय़श्च मे |
१९ क
धृतराष्ट्र उवाच:
सुहृन्मित्रविनाशश्च दैवय़ोगादुपागतः |
१९ ख
धृतराष्ट्र उवाच:
कोऽन्योऽस्ति दुःखिततरो मय़ा लोके पुमानिह ||
१९ ग
धृतराष्ट्र उवाच:
तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रतम् |
२० क
धृतराष्ट्र उवाच:
विवृतं व्रह्मलोकस्य दीर्घमध्वानमास्थितम् ||
२० ख
वैशम्पाय़न उवाच:
तस्य लालप्यमानस्य वहुशोकं विचिन्वतः |
२१ क
वैशम्पाय़न उवाच:
शोकापहं नरेन्द्रस्य सञ्जय़ो वाक्यमव्रवीत् ||
२१ ख
वैशम्पाय़न उवाच:
शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चय़ाः |
२२ क
वैशम्पाय़न उवाच:
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम |
२२ ख
वैशम्पाय़न उवाच:
सृञ्जय़े पुत्रशोकार्ते यदूचुर्मुनय़ः पुरा ||
२२ ग
वैशम्पाय़न उवाच:
तथा यौवनजं दर्पमास्थिते ते सुते नृप |
२३ क
वैशम्पाय़न उवाच:
न त्वय़ा सुहृदां वाक्यं व्रुवतामवधारितम् |
२३ ख
वैशम्पाय़न उवाच:
स्वार्थश्च न कृतः कश्चिल्लुव्धेन फलगृद्धिना ||
२३ ग
वैशम्पाय़न उवाच:
तव दुःशासनो मन्त्री राधेय़श्च दुरात्मवान् |
२४ क
वैशम्पाय़न उवाच:
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः |
२४ ख
वैशम्पाय़न उवाच:
शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत् ||
२४ ग
वैशम्पाय़न उवाच:
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च |
२५ क
वैशम्पाय़न उवाच:
न कृतं वचनं तेन तव पुत्रेण भारत ||
२५ ख
वैशम्पाय़न उवाच:
न धर्मः सत्कृतः कश्चिन्नित्यं युद्धमिति व्रुवन् |
२६ क
वैशम्पाय़न उवाच:
क्षपिताः क्षत्रिय़ाः सर्वे शत्रूणां वर्धितं यशः ||
२६ ख
वैशम्पाय़न उवाच:
मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान् |
२७ क
वैशम्पाय़न उवाच:
धूर्धरेण त्वय़ा भारस्तुलय़ा न समं धृतः ||
२७ ख
वैशम्पाय़न उवाच:
आदावेव मनुष्येण वर्तितव्यं यथा क्षमम् |
२८ क
वैशम्पाय़न उवाच:
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ||
२८ ख
वैशम्पाय़न उवाच:
पुत्रगृद्ध्या त्वय़ा राजन्प्रिय़ं तस्य चिकीर्षता |
२९ क
वैशम्पाय़न उवाच:
पश्चात्तापमिदं प्राप्तं न त्वं शोचितुमर्हसि ||
२९ ख
वैशम्पाय़न उवाच:
मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति |
३० क
वैशम्पाय़न उवाच:
स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान् ||
३० ख
वैशम्पाय़न उवाच:
अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम् |
३१ क
वैशम्पाय़न उवाच:
न शोचञ्श्रिय़माप्नोति न शोचन्विन्दते परम् ||
३१ ख
वैशम्पाय़न उवाच:
स्वय़मुत्पादय़ित्वाग्निं वस्त्रेण परिवेष्टय़ेत् |
३२ क
वैशम्पाय़न उवाच:
दह्यमानो मनस्तापं भजते न स पण्डितः ||
३२ ख
वैशम्पाय़न उवाच:
त्वय़ैव ससुतेनाय़ं वाक्यवाय़ुसमीरितः |
३३ क
वैशम्पाय़न उवाच:
लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः ||
३३ ख
वैशम्पाय़न उवाच:
तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः |
३४ क
वैशम्पाय़न उवाच:
तान्केशवार्चिर्निर्दग्धान्न त्वं शोचितुमर्हसि ||
३४ ख
वैशम्पाय़न उवाच:
यच्चाश्रुपातकलिलं वदनं वहसे नृप |
३५ क
वैशम्पाय़न उवाच:
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः ||
३५ ख
वैशम्पाय़न उवाच:
विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान् |
३६ क
वैशम्पाय़न उवाच:
जहीहि मन्युं वुद्ध्या वै धारय़ात्मानमात्मना ||
३६ ख
वैशम्पाय़न उवाच:
एवमाश्वासितस्तेन सञ्जय़ेन महात्मना |
३७ क
वैशम्पाय़न उवाच:
विदुरो भूय़ एवाह वुद्धिपूर्वं परन्तप ||
३७ ख