chevron_left शान्ति पर्व अध्याय १
वैशम्पाय़न उवाच:
कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः |
१ क
वैशम्पाय़न उवाच:
विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रिय़ः ||
१ ख
वैशम्पाय़न उवाच:
तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः |
२ क
वैशम्पाय़न उवाच:
शौचं निवर्तय़िष्यन्तो मासमेकं वहिः पुरात् ||
२ ख
वैशम्पाय़न उवाच:
कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् |
३ क
वैशम्पाय़न उवाच:
अभिजग्मुर्महात्मानः सिद्धा व्रह्मर्षिसत्तमाः ||
३ ख
वैशम्पाय़न उवाच:
द्वैपाय़नो नारदश्च देवलश्च महानृषिः |
४ क
वैशम्पाय़न उवाच:
देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ||
४ ख
वैशम्पाय़न उवाच:
अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातय़ः |
५ क
वैशम्पाय़न उवाच:
गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम् ||
५ ख
वैशम्पाय़न उवाच:
अभिगम्य महात्मानः पूजिताश्च यथाविधि |
६ क
वैशम्पाय़न उवाच:
आसनेषु महार्हेषु विविशुस्ते महर्षय़ः ||
६ ख
वैशम्पाय़न उवाच:
प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा |
७ क
वैशम्पाय़न उवाच:
पर्युपासन्यथान्याय़ं परिवार्य युधिष्ठिरम् ||
७ ख
वैशम्पाय़न उवाच:
पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् |
८ क
वैशम्पाय़न उवाच:
आश्वासय़न्तो राजानं विप्राः शतसहस्रशः ||
८ ख
वैशम्पाय़न उवाच:
नारदस्त्वव्रवीत्काले धर्मात्मानं युधिष्ठिरम् |
९ क
वैशम्पाय़न उवाच:
विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः ||
९ ख
वैशम्पाय़न उवाच:
भवतो वाहुवीर्येण प्रसादान्माधवस्य च |
१० क
वैशम्पाय़न उवाच:
जितेय़मवनिः कृत्स्ना धर्मेण च युधिष्ठिर ||
१० ख
वैशम्पाय़न उवाच:
दिष्ट्या मुक्ताः स्थ सङ्ग्रामादस्माल्लोकभय़ङ्करात् |
११ क
वैशम्पाय़न उवाच:
क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव ||
११ ख
वैशम्पाय़न उवाच:
कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप |
१२ क
वैशम्पाय़न उवाच:
कच्चिच्छ्रिय़मिमां प्राप्य न त्वां शोकः प्रवाधते ||
१२ ख
युधिष्ठिर उवाच:
विजितेय़ं मही कृत्स्ना कृष्णवाहुवलाश्रय़ात् |
१३ क
युधिष्ठिर उवाच:
व्राह्मणानां प्रसादेन भीमार्जुनवलेन च ||
१३ ख
युधिष्ठिर उवाच:
इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा |
१४ क
युधिष्ठिर उवाच:
कृत्वा ज्ञातिक्षय़मिमं महान्तं लोभकारितम् ||
१४ ख
युधिष्ठिर उवाच:
सौभद्रं द्रौपदेय़ांश्च घातय़ित्वा प्रिय़ान्सुतान् |
१५ क
युधिष्ठिर उवाच:
जय़ोऽय़मजय़ाकारो भगवन्प्रतिभाति मे ||
१५ ख
युधिष्ठिर उवाच:
किं नु वक्ष्यति वार्ष्णेय़ी वधूर्मे मधुसूदनम् |
१६ क
युधिष्ठिर उवाच:
द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् ||
१६ ख
युधिष्ठिर उवाच:
द्रौपदी हतपुत्रेय़ं कृपणा हतवान्धवा |
१७ क
युधिष्ठिर उवाच:
अस्मत्प्रिय़हिते युक्ता भूय़ः पीडय़तीव माम् ||
१७ ख
युधिष्ठिर उवाच:
इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद |
१८ क
युधिष्ठिर उवाच:
मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः ||
१८ ख
युधिष्ठिर उवाच:
योऽसौ नागाय़ुतवलो लोकेऽप्रतिरथो रणे |
१९ क
युधिष्ठिर उवाच:
सिंहखेलगतिर्धीमान्घृणी दान्तो यतव्रतः ||
१९ ख
युधिष्ठिर उवाच:
आश्रय़ो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः |
२० क
युधिष्ठिर उवाच:
अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे ||
२० ख
युधिष्ठिर उवाच:
शीघ्रास्त्रश्चित्रय़ोधी च कृती चाद्भुतविक्रमः |
२१ क
युधिष्ठिर उवाच:
गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः ||
२१ ख
युधिष्ठिर उवाच:
तोय़कर्मणि यं कुन्ती कथय़ामास सूर्यजम् |
२२ क
युधिष्ठिर उवाच:
पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा ||
२२ ख
युधिष्ठिर उवाच:
यं सूतपुत्रं लोकोऽय़ं राधेय़ं चाप्यमन्यत |
२३ क
युधिष्ठिर उवाच:
स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः ||
२३ ख
युधिष्ठिर उवाच:
अजानता मय़ा सङ्ख्ये राज्यलुव्धेन घातितः |
२४ क
युधिष्ठिर उवाच:
तन्मे दहति गात्राणि तूलराशिमिवानलः ||
२४ ख
युधिष्ठिर उवाच:
न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः |
२५ क
युधिष्ठिर उवाच:
नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः ||
२५ ख
युधिष्ठिर उवाच:
गता किल पृथा तस्य सकाशमिति नः श्रुतम् |
२६ क
युधिष्ठिर उवाच:
अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ ||
२६ ख
युधिष्ठिर उवाच:
पृथाय़ा न कृतः कामस्तेन चापि महात्मना |
२७ क
युधिष्ठिर उवाच:
अतिपश्चादिदं मातर्यवोचदिति नः श्रुतम् ||
२७ ख
युधिष्ठिर उवाच:
न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे |
२८ क
युधिष्ठिर उवाच:
अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत् ||
२८ ख
युधिष्ठिर उवाच:
युधिष्ठिरेण सन्धिं च यदि कुर्यां मते तव |
२९ क
युधिष्ठिर उवाच:
भीतो रणे श्वेतवाहादिति मां मंस्यते जनः ||
२९ ख
युधिष्ठिर उवाच:
सोऽहं निर्जित्य समरे विजय़ं सहकेशवम् |
३० क
युधिष्ठिर उवाच:
सन्धास्ये धर्मपुत्रेण पश्चादिति च सोऽव्रवीत् ||
३० ख
युधिष्ठिर उवाच:
तमवोचत्किल पृथा पुनः पृथुलवक्षसम् |
३१ क
युधिष्ठिर उवाच:
चतुर्णामभय़ं देहि कामं युध्यस्व फल्गुनम् ||
३१ ख
युधिष्ठिर उवाच:
सोऽव्रवीन्मातरं धीमान्वेपमानः कृताञ्जलिः |
३२ क
युधिष्ठिर उवाच:
प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् ||
३२ ख
युधिष्ठिर उवाच:
पञ्चैव हि सुता मातर्भविष्यन्ति हि ते ध्रुवम् |
३३ क
युधिष्ठिर उवाच:
सकर्णा वा हते पार्थे सार्जुना वा हते मय़ि ||
३३ ख
युधिष्ठिर उवाच:
तं पुत्रगृद्धिनी भूय़ो माता पुत्रमथाव्रवीत् |
३४ क
युधिष्ठिर उवाच:
भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि ||
३४ ख
युधिष्ठिर उवाच:
तमेवमुक्त्वा तु पृथा विसृज्योपय़यौ गृहान् |
३५ क
युधिष्ठिर उवाच:
सोऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः ||
३५ ख
युधिष्ठिर उवाच:
न चैव विवृतो मन्त्रः पृथाय़ास्तस्य वा मुने |
३६ क
युधिष्ठिर उवाच:
अथ शूरो महेष्वासः पार्थेनासौ निपातितः ||
३६ ख
युधिष्ठिर उवाच:
अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम |
३७ क
युधिष्ठिर उवाच:
पूर्वजं भ्रातरं कर्णं पृथाय़ा वचनात्प्रभो ||
३७ ख
युधिष्ठिर उवाच:
तेन मे दूय़तेऽतीव हृदय़ं भ्रातृघातिनः |
३८ क
युधिष्ठिर उवाच:
कर्णार्जुनसहाय़ोऽहं जय़ेय़मपि वासवम् ||
३८ ख
युधिष्ठिर उवाच:
सभाय़ां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः |
३९ क
युधिष्ठिर उवाच:
सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति ||
३९ ख
युधिष्ठिर उवाच:
यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदय़ाः |
४० क
युधिष्ठिर उवाच:
सभाय़ां गदतो द्यूते दुर्योधनहितैषिणः ||
४० ख
युधिष्ठिर उवाच:
तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह |
४१ क
युधिष्ठिर उवाच:
कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम ||
४१ ख
युधिष्ठिर उवाच:
सादृश्यहेतुमन्विच्छन्पृथाय़ास्तव चैव ह |
४२ क
युधिष्ठिर उवाच:
कारणं नाधिगच्छामि कथञ्चिदपि चिन्तय़न् ||
४२ ख
युधिष्ठिर उवाच:
कथं नु तस्य सङ्ग्रामे पृथिवी चक्रमग्रसत् |
४३ क
युधिष्ठिर उवाच:
कथं च शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि ||
४३ ख
युधिष्ठिर उवाच:
श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम् |
४४ क
युधिष्ठिर उवाच:
भवान्हि सर्वविद्विद्वाँल्लोके वेद कृताकृतम् ||
४४ ख