युधिष्ठिर उवाच:
शमो वहुविधाकारः सूक्ष्म उक्तः पितामह |
१ क
युधिष्ठिर उवाच:
न च मे हृदय़े शान्तिरस्ति कृत्वेदमीदृशम् ||
१ ख
युधिष्ठिर उवाच:
अस्मिन्नर्थे वहुविधा शान्तिरुक्ता त्वय़ानघ |
२ क
युधिष्ठिर उवाच:
स्वकृते का नु शान्तिः स्याच्छमाद्वहुविधादपि ||
२ ख
युधिष्ठिर उवाच:
शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च |
३ क
युधिष्ठिर उवाच:
शमं नोपलभे वीर दुष्कृतान्येव चिन्तय़न् ||
३ ख
युधिष्ठिर उवाच:
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् |
४ क
युधिष्ठिर उवाच:
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्वुजम् ||
४ ख
युधिष्ठिर उवाच:
अतः कष्टतरं किं नु मत्कृते यत्पितामहः |
५ क
युधिष्ठिर उवाच:
इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे |
५ ख
युधिष्ठिर उवाच:
तथैवान्ये नृपतय़ः सहपुत्राः सवान्धवाः ||
५ ग
युधिष्ठिर उवाच:
वय़ं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः |
६ क
युधिष्ठिर उवाच:
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ||
६ ख
युधिष्ठिर उवाच:
अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा |
७ क
युधिष्ठिर उवाच:
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ||
७ ख
भीष्म उवाच:
परतन्त्रं कथं हेतुमात्मानमनुपश्यसि |
८ क
भीष्म उवाच:
कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रिय़म् ||
८ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
९ क
भीष्म उवाच:
संवादं मृत्युगौतम्योः काललुव्धकपन्नगैः ||
९ ख
भीष्म उवाच:
गौतमी नाम कौन्तेय़ स्थविरा शमसंय़ुता |
१० क
भीष्म उवाच:
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् ||
१० ख
भीष्म उवाच:
अथ तं स्नाय़ुपाशेन वद्ध्वा सर्पममर्षितः |
११ क
भीष्म उवाच:
लुव्धकोऽर्जुनको नाम गौतम्याः समुपानय़त् ||
११ ख
भीष्म उवाच:
तां चाव्रवीदय़ं ते स पुत्रहा पन्नगाधमः |
१२ क
भीष्म उवाच:
व्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना ||
१२ ख
भीष्म उवाच:
अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा |
१३ क
भीष्म उवाच:
न ह्ययं वालहा पापश्चिरं जीवितुमर्हति ||
१३ ख
गौतम्यु उवाच:
विसृजैनमवुद्धिस्त्वं न वध्योऽर्जुनक त्वय़ा |
१४ क
गौतम्यु उवाच:
को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तय़न् ||
१४ ख
गौतम्यु उवाच:
प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः |
१५ क
गौतम्यु उवाच:
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ||
१५ ख
गौतम्यु उवाच:
न चामृत्युर्भविता वै हतेऽस्मि; न्को वात्ययः स्यादहतेऽस्मिञ्जनस्य |
१६ क
गौतम्यु उवाच:
अस्योत्सर्गे प्राणय़ुक्तस्य जन्तो; र्मृत्योर्लोकं को नु गच्छेदनन्तम् ||
१६ ख
लुव्धक उवाच:
जानाम्येवं नेह गुणागुणज्ञाः; सर्वे निय़ुक्ता गुरवो वै भवन्ति |
१७ क
लुव्धक उवाच:
स्वस्थस्यैते तूपदेशा भवन्ति; तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ||
१७ ख
लुव्धक उवाच:
समीप्सन्तः कालय़ोगं त्यजन्ति; सद्यः शुचं त्वर्थविदस्त्यजन्ति |
१८ क
लुव्धक उवाच:
श्रेय़ः क्षय़ः शोचतां नित्यशो हि; तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् ||
१८ ख
गौतम्यु उवाच:
न चैवार्तिर्विद्यतेऽस्मद्विधानां; धर्मारामः सततं सज्जनो हि |
१९ क
गौतम्यु उवाच:
नित्याय़स्तो वालजनो न चास्ति; धर्मो ह्येष प्रभवाम्यस्य नाहम् ||
१९ ख
गौतम्यु उवाच:
न व्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना |
२० क
गौतम्यु उवाच:
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ||
२० ख
लुव्धक उवाच:
हत्वा लाभः श्रेय़ एवाव्ययं स्या; त्सद्यो लाभो वलवद्भिः प्रशस्तः |
२१ क
लुव्धक उवाच:
कालाल्लाभो यस्तु सद्यो भवेत; हते श्रेय़ः कुत्सिते त्वीदृशे स्यात् ||
२१ ख
गौतम्यु उवाच:
कार्थप्राप्तिर्गृह्य शत्रुं निहत्य; का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा |
२२ क
गौतम्यु उवाच:
कस्मात्सौम्य भुजगे न क्षमेय़ं; मोक्षं वा किं कारणं नास्य कुर्याम् ||
२२ ख
लुव्धक उवाच:
अस्मादेकस्माद्वहवो रक्षितव्या; नैको वहुभ्यो गौतमि रक्षितव्यः |
२३ क
लुव्धक उवाच:
कृतागसं धर्मविदस्त्यजन्ति; सरीसृपं पापमिमं जहि त्वम् ||
२३ ख
गौतम्यु उवाच:
नास्मिन्हते पन्नगे पुत्रको मे; सम्प्राप्स्यते लुव्धक जीवितं वै |
२४ क
गौतम्यु उवाच:
गुणं चान्यं नास्य वधे प्रपश्ये; तस्मात्सर्पं लुव्धक मुञ्च जीवम् ||
२४ ख
लुव्धक उवाच:
वृत्रं हत्वा देवराट्श्रेष्ठभाग्वै; यज्ञं हत्वा भागमवाप चैव |
२५ क
लुव्धक उवाच:
शूली देवो देववृत्तं कुरु त्वं; क्षिप्रं सर्पं जहि मा भूद्विशङ्का ||
२५ ख
भीष्म उवाच:
असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति |
२६ क
भीष्म उवाच:
लुव्धकेन महाभागा पापे नैवाकरोन्मतिम् ||
२६ ख
भीष्म उवाच:
ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः |
२७ क
भीष्म उवाच:
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ||
२७ ख
भीष्म उवाच:
को न्वर्जुनक दोषोऽत्र विद्यते मम वालिश |
२८ क
भीष्म उवाच:
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् ||
२८ ख
भीष्म उवाच:
तस्याय़ं वचनाद्दष्टो न कोपेन न काम्यया |
२९ क
भीष्म उवाच:
तस्य तत्किल्विषं लुव्ध विद्यते यदि किल्विषम् ||
२९ ख
लुव्धक उवाच:
यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् |
३० क
लुव्धक उवाच:
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्विषी ||
३० ख
लुव्धक उवाच:
मृत्पात्रस्य क्रिय़ाय़ां हि दण्डचक्रादय़ो यथा |
३१ क
लुव्धक उवाच:
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ||
३१ ख
लुव्धक उवाच:
किल्विषी चापि मे वध्यः किल्विषी चासि पन्नग |
३२ क
लुव्धक उवाच:
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम ||
३२ ख
सर्प उवाच:
सर्व एते ह्यस्ववशा दण्डचक्रादय़ो यथा |
३३ क
सर्प उवाच:
तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव ||
३३ ख
सर्प उवाच:
अथ वा मतमेतत्ते तेऽप्यन्योन्यप्रय़ोजकाः |
३४ क
सर्प उवाच:
कार्यकारणसन्देहो भवत्यन्योन्यचोदनात् ||
३४ ख
सर्प उवाच:
एवं सति न दोषो मे नास्मि वध्यो न किल्विषी |
३५ क
सर्प उवाच:
किल्विषं समवाय़े स्यान्मन्यसे यदि किल्विषम् ||
३५ ख
लुव्धक उवाच:
कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत |
३६ क
लुव्धक उवाच:
विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः ||
३६ ख
लुव्धक उवाच:
असत्यपि कृते कार्ये नेह पन्नग लिप्यते |
३७ क
लुव्धक उवाच:
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं वहु भाषसे ||
३७ ख
सर्प उवाच:
कार्याभावे क्रिय़ा न स्यात्सत्यसत्यपि कारणे |
३८ क
सर्प उवाच:
तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ||
३८ ख
सर्प उवाच:
यद्यहं कारणत्वेन मतो लुव्धक तत्त्वतः |
३९ क
सर्प उवाच:
अन्यः प्रय़ोगे स्यादत्र किल्विषी जन्तुनाशने ||
३९ ख
लुव्धक उवाच:
वध्यस्त्वं मम दुर्वुद्धे वालघाती नृशंसकृत् |
४० क
लुव्धक उवाच:
भाषसे किं वहु पुनर्वध्यः सन्पन्नगाधम ||
४० ख
सर्प उवाच:
यथा हवींषि जुह्वाना मखे वै लुव्धकर्त्विजः |
४१ क
सर्प उवाच:
न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम् ||
४१ ख
भीष्म उवाच:
तथा व्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते |
४२ क
भीष्म उवाच:
आजगाम ततो मृत्युः पन्नगं चाव्रवीदिदम् ||
४२ ख
भीष्म उवाच:
कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम् |
४३ क
भीष्म उवाच:
विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः ||
४३ ख
भीष्म उवाच:
यथा वाय़ुर्जलधरान्विकर्षति ततस्ततः |
४४ क
भीष्म उवाच:
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ||
४४ ख
भीष्म उवाच:
सात्त्विका राजसाश्चैव तामसा ये च केचन |
४५ क
भीष्म उवाच:
भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ||
४५ ख
भीष्म उवाच:
जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि |
४६ क
भीष्म उवाच:
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ||
४६ ख
भीष्म उवाच:
प्रवृत्तय़श्च या लोके तथैव च निवृत्तय़ः |
४७ क
भीष्म उवाच:
तासां विकृतय़ो याश्च सर्वं कालात्मकं स्मृतम् ||
४७ ख
भीष्म उवाच:
आदित्यश्चन्द्रमा विष्णुरापो वाय़ुः शतक्रतुः |
४८ क
भीष्म उवाच:
अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ||
४८ ख
भीष्म उवाच:
सरितः सागराश्चैव भावाभावौ च पन्नग |
४९ क
भीष्म उवाच:
सर्वे कालेन सृज्यन्ते ह्रिय़न्ते च तथा पुनः ||
४९ ख
भीष्म उवाच:
एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे |
५० क