जनमेजय़ उवाच:
प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः |
१ क
जनमेजय़ उवाच:
कथमासन्महाराजे धृतराष्ट्रे महात्मनि ||
१ ख
जनमेजय़ उवाच:
स हि राजा हतामात्यो हतपुत्रो निराश्रय़ः |
२ क
जनमेजय़ उवाच:
कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी ||
२ ख
जनमेजय़ उवाच:
किय़न्तं चैव कालं ते पितरो मम पूर्वकाः |
३ क
जनमेजय़ उवाच:
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ||
३ ख
वैशम्पाय़न उवाच:
प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः |
४ क
वैशम्पाय़न उवाच:
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालय़न् ||
४ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रमुपातिष्ठद्विदुरः सञ्जय़स्तथा |
५ क
वैशम्पाय़न उवाच:
युय़ुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः ||
५ ख
वैशम्पाय़न उवाच:
पाण्डवाः सर्वकार्याणि सम्पृच्छन्ति स्म तं नृपम् |
६ क
वैशम्पाय़न उवाच:
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ||
६ ख
वैशम्पाय़न उवाच:
सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् |
७ क
वैशम्पाय़न उवाच:
पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः |
७ ख
वैशम्पाय़न उवाच:
ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे ||
७ ग
वैशम्पाय़न उवाच:
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत |
८ क
वैशम्पाय़न उवाच:
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रिय़ः |
८ ख
वैशम्पाय़न उवाच:
समां वृत्तिमवर्तन्त तय़ोः श्वश्र्वोर्यथाविधि ||
८ ग
वैशम्पाय़न उवाच:
शय़नानि महार्हाणि वासांस्याभरणानि च |
९ क
वैशम्पाय़न उवाच:
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः |
९ ख
वैशम्पाय़न उवाच:
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् ||
९ ग
वैशम्पाय़न उवाच:
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत |
१० क
वैशम्पाय़न उवाच:
विदुरः सञ्जय़श्चैव युय़ुत्सुश्चैव कौरवः |
१० ख
वैशम्पाय़न उवाच:
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ||
१० ग
वैशम्पाय़न उवाच:
स्यालो द्रोणस्य यश्चैको दय़ितो व्राह्मणो महान् |
११ क
वैशम्पाय़न उवाच:
स च तस्मिन्महेष्वासः कृपः समभवत्तदा ||
११ ख
वैशम्पाय़न उवाच:
व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह |
१२ क
वैशम्पाय़न उवाच:
कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम् ||
१२ ख
वैशम्पाय़न उवाच:
धर्मय़ुक्तानि कार्याणि व्यवहारान्वितानि च |
१३ क
वैशम्पाय़न उवाच:
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारय़त् ||
१३ ख
वैशम्पाय़न उवाच:
सामन्तेभ्यः प्रिय़ाण्यस्य कार्याणि सुगुरूण्यपि |
१४ क
वैशम्पाय़न उवाच:
प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै ||
१४ ख
वैशम्पाय़न उवाच:
अकरोद्वन्धमोक्षांश्च वध्यानां मोक्षणं तथा |
१५ क
वैशम्पाय़न उवाच:
न च धर्मात्मजो राजा कदाचित्किञ्चिदव्रवीत् ||
१५ ख
वैशम्पाय़न उवाच:
विहारय़ात्रासु पुनः कुरुराजो युधिष्ठिरः |
१६ क
वैशम्पाय़न उवाच:
सर्वान्कामान्महातेजाः प्रददावम्विकासुते ||
१६ ख
वैशम्पाय़न उवाच:
आरालिकाः सूपकारा रागखाण्डविकास्तथा |
१७ क
वैशम्पाय़न उवाच:
उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा ||
१७ ख
वैशम्पाय़न उवाच:
वासांसि च महार्हाणि माल्यानि विविधानि च |
१८ क
वैशम्पाय़न उवाच:
उपाजह्रुर्यथान्याय़ं धृतराष्ट्रस्य पाण्डवाः ||
१८ ख
वैशम्पाय़न उवाच:
मैरेय़ं मधु मांसानि पानकानि लघूनि च |
१९ क
वैशम्पाय़न उवाच:
चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा ||
१९ ख
वैशम्पाय़न उवाच:
ये चापि पृथिवीपालाः समाजग्मुः समन्ततः |
२० क
वैशम्पाय़न उवाच:
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा ||
२० ख
वैशम्पाय़न उवाच:
कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी |
२१ क
वैशम्पाय़न उवाच:
उलूपी नागकन्या च देवी चित्राङ्गदा तथा ||
२१ ख
वैशम्पाय़न उवाच:
धृष्टकेतोश्च भगिनी जरासन्धस्य चात्मजा |
२२ क
वैशम्पाय़न उवाच:
किङ्कराः स्मोपतिष्ठन्ति सर्वाः सुवलजां तथा ||
२२ ख
वैशम्पाय़न उवाच:
यथा पुत्रविय़ुक्तोऽय़ं न किञ्चिद्दुःखमाप्नुय़ात् |
२३ क
वैशम्पाय़न उवाच:
इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः ||
२३ ख
वैशम्पाय़न उवाच:
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् |
२४ क
वैशम्पाय़न उवाच:
सविशेषमवर्तन्त भीममेकं विना तदा ||
२४ ख
वैशम्पाय़न उवाच:
न हि तत्तस्य वीरस्य हृदय़ादपसर्पति |
२५ क
वैशम्पाय़न उवाच:
धृतराष्ट्रस्य दुर्वुद्धेर्यद्वृत्तं द्यूतकारितम् ||
२५ ख