chevron_left मौसल पर्व अध्याय १
वैशम्पाय़न उवाच:
षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः |
१ क
वैशम्पाय़न उवाच:
ददर्श विपरीतानि निमित्तानि युधिष्ठिरः ||
१ ख
वैशम्पाय़न उवाच:
ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः |
२ क
वैशम्पाय़न उवाच:
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे ||
२ ख
वैशम्पाय़न उवाच:
प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः |
३ क
वैशम्पाय़न उवाच:
उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि ||
३ ख
वैशम्पाय़न उवाच:
आदित्यो रजसा राजन्समवच्छन्नमण्डलः |
४ क
वैशम्पाय़न उवाच:
विरश्मिरुदय़े नित्यं कवन्धैः समदृश्यत ||
४ ख
वैशम्पाय़न उवाच:
परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः |
५ क
वैशम्पाय़न उवाच:
त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः ||
५ ख
वैशम्पाय़न उवाच:
एते चान्ये च वहव उत्पाता भय़शंसिनः |
६ क
वैशम्पाय़न उवाच:
दृश्यन्तेऽहरहो राजन्हृदय़ोद्वेगकारकाः ||
६ ख
वैशम्पाय़न उवाच:
कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरः |
७ क
वैशम्पाय़न उवाच:
शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम् ||
७ ख
वैशम्पाय़न उवाच:
विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः |
८ क
वैशम्पाय़न उवाच:
समानीय़ाव्रवीद्भ्रातॄन्किं करिष्याम इत्युत ||
८ ख
वैशम्पाय़न उवाच:
परस्परं समासाद्य व्रह्मदण्डवलात्कृतान् |
९ क
वैशम्पाय़न उवाच:
वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन् ||
९ ख
वैशम्पाय़न उवाच:
निधनं वासुदेवस्य समुद्रस्येव शोषणम् |
१० क
वैशम्पाय़न उवाच:
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः ||
१० ख
वैशम्पाय़न उवाच:
मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः |
११ क
वैशम्पाय़न उवाच:
विषण्णा हतसङ्कल्पाः पाण्डवाः समुपाविशन् ||
११ ख