जनमेजय़ उवाच:
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् |
१ क
जनमेजय़ उवाच:
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ||
१ ख
वैशम्पाय़न उवाच:
श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् |
२ क
वैशम्पाय़न उवाच:
प्रस्थाने मतिमाधाय़ वाक्यमर्जुनमव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
कालः पचति भूतानि सर्वाण्येव महामते |
३ क
वैशम्पाय़न उवाच:
कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि ||
३ ख
वैशम्पाय़न उवाच:
इत्युक्तः स तु कौन्तेय़ः कालः काल इति व्रुवन् |
४ क
वैशम्पाय़न उवाच:
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान् ||
४ ख
वैशम्पाय़न उवाच:
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा |
५ क
वैशम्पाय़न उवाच:
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना ||
५ ख
वैशम्पाय़न उवाच:
ततो युय़ुत्सुमानाय़्य प्रव्रजन्धर्मकाम्यया |
६ क
वैशम्पाय़न उवाच:
राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः ||
६ ख
वैशम्पाय़न उवाच:
अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् |
७ क
वैशम्पाय़न उवाच:
दुःखार्तश्चाव्रवीद्राजा सुभद्रां पाण्डवाग्रजः ||
७ ख
वैशम्पाय़न उवाच:
एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति |
८ क
वैशम्पाय़न उवाच:
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह ||
८ ख
वैशम्पाय़न उवाच:
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु यादवः |
९ क
वैशम्पाय़न उवाच:
वज्रो राजा त्वय़ा रक्ष्यो मा चाधर्मे मनः कृथाः ||
९ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः |
१० क
वैशम्पाय़न उवाच:
मातुलस्य च वृद्धस्य रामादीनां तथैव च ||
१० ख
वैशम्पाय़न उवाच:
मातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः |
११ क
वैशम्पाय़न उवाच:
श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा ||
११ ख
वैशम्पाय़न उवाच:
ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि |
१२ क
वैशम्पाय़न उवाच:
स्त्रिय़श्च द्विजमुख्येभ्यो गवां शतसहस्रशः ||
१२ ख
वैशम्पाय़न उवाच:
कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम् |
१३ क
वैशम्पाय़न उवाच:
शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः ||
१३ ख
वैशम्पाय़न उवाच:
ततस्तु प्रकृतीः सर्वाः समानाय़्य युधिष्ठिरः |
१४ क
वैशम्पाय़न उवाच:
सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः ||
१४ ख
वैशम्पाय़न उवाच:
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः |
१५ क
वैशम्पाय़न उवाच:
भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः ||
१५ ख
वैशम्पाय़न उवाच:
नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम् |
१६ क
वैशम्पाय़न उवाच:
न च राजा तथाकार्षीत्कालपर्याय़धर्मवित् ||
१६ ख
वैशम्पाय़न उवाच:
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् |
१७ क
वैशम्पाय़न उवाच:
गमनाय़ मतिं चक्रे भ्रातरश्चास्य ते तदा ||
१७ ख
वैशम्पाय़न उवाच:
ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः |
१८ क
वैशम्पाय़न उवाच:
उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ||
१८ ख
वैशम्पाय़न उवाच:
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी |
१९ क
वैशम्पाय़न उवाच:
तथैव सर्वे जगृहुर्वल्कलानि जनाधिप ||
१९ ख
वैशम्पाय़न उवाच:
विधिवत्कारय़ित्वेष्टिं नैष्ठिकीं भरतर्षभ |
२० क
वैशम्पाय़न उवाच:
समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः ||
२० ख
वैशम्पाय़न उवाच:
ततः प्ररुरुदुः सर्वाः स्त्रिय़ो दृष्ट्वा नरर्षभान् |
२१ क
वैशम्पाय़न उवाच:
प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा ||
२१ ख
वैशम्पाय़न उवाच:
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति |
२२ क
वैशम्पाय़न उवाच:
युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षय़मवेक्ष्य च ||
२२ ख
वैशम्पाय़न उवाच:
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः |
२३ क
वैशम्पाय़न उवाच:
आत्मना सप्तमो राजा निर्ययौ गजसाह्वय़ात् |
२३ ख
वैशम्पाय़न उवाच:
पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ||
२३ ग
वैशम्पाय़न उवाच:
न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् |
२४ क
वैशम्पाय़न उवाच:
न्यवर्तन्त ततः सर्वे नरा नगरवासिनः ||
२४ ख
वैशम्पाय़न उवाच:
कृपप्रभृतय़श्चैव युय़ुत्सुं पर्यवारय़न् |
२५ क
वैशम्पाय़न उवाच:
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा ||
२५ ख
वैशम्पाय़न उवाच:
चित्राङ्गदा यय़ौ चापि मणिपूरपुरं प्रति |
२६ क
वैशम्पाय़न उवाच:
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारय़न् ||
२६ ख
वैशम्पाय़न उवाच:
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी |
२७ क
वैशम्पाय़न उवाच:
कृतोपवासाः कौरव्य प्रय़युः प्राङ्मुखास्ततः ||
२७ ख
वैशम्पाय़न उवाच:
योगय़ुक्ता महात्मानस्त्यागधर्ममुपेय़ुषः |
२८ क
वैशम्पाय़न उवाच:
अभिजग्मुर्वहून्देशान्सरितः पर्वतांस्तथा ||
२८ ख
वैशम्पाय़न उवाच:
युधिष्ठिरो यय़ावग्रे भीमस्तु तदनन्तरम् |
२९ क
वैशम्पाय़न उवाच:
अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम् ||
२९ ख
वैशम्पाय़न उवाच:
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा |
३० क
वैशम्पाय़न उवाच:
द्रौपदी योषितां श्रेष्ठा यय़ौ भरतसत्तम ||
३० ख
वैशम्पाय़न उवाच:
श्वा चैवानुय़यावेकः पाण्डवान्प्रस्थितान्वने |
३१ क
वैशम्पाय़न उवाच:
क्रमेण ते यय़ुर्वीरा लौहित्यं सलिलार्णवम् ||
३१ ख
वैशम्पाय़न उवाच:
गाण्डीवं च धनुर्दिव्यं न मुमोच धनञ्जय़ः |
३२ क
वैशम्पाय़न उवाच:
रत्नलोभान्महाराज तौ चाक्षय़्यौ महेषुधी ||
३२ ख
वैशम्पाय़न उवाच:
अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः |
३३ क
वैशम्पाय़न उवाच:
मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् ||
३३ ख
वैशम्पाय़न उवाच:
ततो देवः स सप्तार्चिः पाण्डवानिदमव्रवीत् |
३४ क
वैशम्पाय़न उवाच:
भो भो पाण्डुसुता वीराः पावकं मां विवोधत ||
३४ ख
वैशम्पाय़न उवाच:
युधिष्ठिर महावाहो भीमसेन परन्तप |
३५ क
वैशम्पाय़न उवाच:
अर्जुनाश्विसुतौ वीरौ निवोधत वचो मम ||
३५ ख
वैशम्पाय़न उवाच:
अहमग्निः कुरुश्रेष्ठा मय़ा दग्धं च खाण्डवम् |
३६ क
वैशम्पाय़न उवाच:
अर्जुनस्य प्रभावेण तथा नाराय़णस्य च ||
३६ ख
वैशम्पाय़न उवाच:
अय़ं वः फल्गुनो भ्राता गाण्डीवं परमाय़ुधम् |
३७ क
वैशम्पाय़न उवाच:
परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन ||
३७ ख
वैशम्पाय़न उवाच:
चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि |
३८ क
वैशम्पाय़न उवाच:
गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ||
३८ ख
वैशम्पाय़न उवाच:
वरुणादाहृतं पूर्वं मय़ैतत्पार्थकारणात् |
३९ क
वैशम्पाय़न उवाच:
गाण्डीवं कार्मुकश्रेष्ठं वरुणाय़ैव दीय़ताम् ||
३९ ख
वैशम्पाय़न उवाच:
ततस्ते भ्रातरः सर्वे धनञ्जय़मचोदय़न् |
४० क
वैशम्पाय़न उवाच:
स जले प्राक्षिपत्तत्तु तथाक्षय़्यौ महेषुधी ||
४० ख
वैशम्पाय़न उवाच:
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीय़त |
४१ क
वैशम्पाय़न उवाच:
यय़ुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ||
४१ ख
वैशम्पाय़न उवाच:
ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः |
४२ क
वैशम्पाय़न उवाच:
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम् ||
४२ ख
वैशम्पाय़न उवाच:
ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते |
४३ क
वैशम्पाय़न उवाच:
ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् ||
४३ ख
वैशम्पाय़न उवाच:
उदीचीं पुनरावृत्त्य यय़ुर्भरतसत्तमाः |
४४ क
वैशम्पाय़न उवाच:
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः ||
४४ ख