chevron_left सभा पर्व अध्याय १
वैशम्पाय़न उवाच:
ततोऽव्रवीन्मय़ः पार्थं वासुदेवस्य संनिधौ |
१ क
वैशम्पाय़न उवाच:
प्राञ्जलिः श्लक्ष्णय़ा वाचा पूजय़ित्वा पुनः पुनः ||
१ ख
वैशम्पाय़न उवाच:
अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः |
२ क
वैशम्पाय़न उवाच:
त्वय़ा त्रातोऽस्मि कौन्तेय़ व्रूहि किं करवाणि ते ||
२ ख
अर्जुन उवाच:
कृतमेव त्वय़ा सर्वं स्वस्ति गच्छ महासुर |
३ क
अर्जुन उवाच:
प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वय़ं च ते ||
३ ख
मय़ उवाच:
युक्तमेतत्त्वय़ि विभो यथात्थ पुरुषर्षभ |
४ क
मय़ उवाच:
प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि भारत ||
४ ख
मय़ उवाच:
अहं हि विश्वकर्मा वै दानवानां महाकविः |
५ क
मय़ उवाच:
सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव ||
५ ख
अर्जुन उवाच:
प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मय़ा |
६ क
अर्जुन उवाच:
एवं गते न शक्ष्यामि किञ्चित्कारय़ितुं त्वय़ा ||
६ ख
अर्जुन उवाच:
न चापि तव सङ्कल्पं मोघमिच्छामि दानव |
७ क
अर्जुन उवाच:
कृष्णस्य क्रिय़तां किञ्चित्तथा प्रतिकृतं मय़ि ||
७ ख
वैशम्पाय़न उवाच:
चोदितो वासुदेवस्तु मय़ेन भरतर्षभ |
८ क
वैशम्पाय़न उवाच:
मुहूर्तमिव सन्दध्यौ किमय़ं चोद्यतामिति ||
८ ख
वैशम्पाय़न उवाच:
चोदय़ामास तं कृष्णः सभा वै क्रिय़तामिति |
९ क
वैशम्पाय़न उवाच:
धर्मराजस्य दैतेय़ यादृशीमिह मन्यसे ||
९ ख
वैशम्पाय़न उवाच:
यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः |
१० क
वैशम्पाय़न उवाच:
मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् ||
१० ख
वैशम्पाय़न उवाच:
यत्र दिव्यानभिप्राय़ान्पश्येम विहितांस्त्वय़ा |
११ क
वैशम्पाय़न उवाच:
आसुरान्मानुषांश्चैव तां सभां कुरु वै मय़ ||
११ ख
वैशम्पाय़न उवाच:
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मय़स्तदा |
१२ क
वैशम्पाय़न उवाच:
विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा ||
१२ ख
वैशम्पाय़न उवाच:
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे |
१३ क
वैशम्पाय़न उवाच:
सर्वमेतद्यथावेद्य दर्शय़ामासतुर्मय़म् ||
१३ ख
वैशम्पाय़न उवाच:
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा |
१४ क
वैशम्पाय़न उवाच:
स तु तां प्रतिजग्राह मय़ः सत्कृत्य सत्कृतः ||
१४ ख
वैशम्पाय़न उवाच:
स पूर्वदेवचरितं तत्र तत्र विशां पते |
१५ क
वैशम्पाय़न उवाच:
कथय़ामास दैतेय़ः पाण्डुपुत्रेषु भारत ||
१५ ख
वैशम्पाय़न उवाच:
स कालं कञ्चिदाश्वस्य विश्वकर्मा प्रचिन्त्य च |
१६ क
वैशम्पाय़न उवाच:
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् ||
१६ ख
वैशम्पाय़न उवाच:
अभिप्राय़ेण पार्थानां कृष्णस्य च महात्मनः |
१७ क
वैशम्पाय़न उवाच:
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ||
१७ ख
वैशम्पाय़न उवाच:
तर्पय़ित्वा द्विजश्रेष्ठान्पाय़सेन सहस्रशः |
१८ क
वैशम्पाय़न उवाच:
धनं वहुविधं दत्त्वा तेभ्य एव च वीर्यवान् ||
१८ ख
वैशम्पाय़न उवाच:
सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम् |
१९ क
वैशम्पाय़न उवाच:
दशकिष्कुसहस्रां तां मापय़ामास सर्वतः ||
१९ ख