जनमेजय़ उवाच:
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः |
१ क
जनमेजय़ उवाच:
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ||
१ ख
जनमेजय़ उवाच:
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम् |
२ क
जनमेजय़ उवाच:
किमकुर्वन्त कौरव्या मम पूर्वपितामहाः ||
२ ख
जनमेजय़ उवाच:
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेय़ुषः |
३ क
जनमेजय़ उवाच:
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ||
३ ख
जनमेजय़ उवाच:
के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् |
४ क
जनमेजय़ उवाच:
किमाहाराः किमाचाराः क्व च वासो महात्मनाम् ||
४ ख
जनमेजय़ उवाच:
कथं द्वादश वर्षाणि वने तेषां महात्मनाम् |
५ क
जनमेजय़ उवाच:
व्यतीय़ुर्व्राह्मणश्रेष्ठ शूराणामरिघातिनाम् ||
५ ख
जनमेजय़ उवाच:
कथं च राजपुत्री सा प्रवरा सर्वय़ोषिताम् |
६ क
जनमेजय़ उवाच:
पतिव्रता महाभागा सततं सत्यवादिनी |
६ ख
जनमेजय़ उवाच:
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत ||
६ ग
जनमेजय़ उवाच:
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन |
७ क
जनमेजय़ उवाच:
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् |
७ ख
जनमेजय़ उवाच:
कथ्यमानं त्वय़ा विप्र परं कौतूहलं हि मे ||
७ ग
वैशम्पाय़न उवाच:
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः |
८ क
वैशम्पाय़न उवाच:
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वय़ात् ||
८ ख
वैशम्पाय़न उवाच:
वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा |
९ क
वैशम्पाय़न उवाच:
उदङ्मुखाः शस्त्रभृतः प्रय़युः सह कृष्णय़ा ||
९ ख
वैशम्पाय़न उवाच:
इन्द्रसेनादय़श्चैनान्भृत्याः परिचतुर्दश |
१० क
वैशम्पाय़न उवाच:
रथैरनुय़युः शीघ्रैः स्त्रिय़ आदाय़ सर्वशः ||
१० ख
वैशम्पाय़न उवाच:
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः |
११ क
वैशम्पाय़न उवाच:
गर्हय़न्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् |
११ ख
वैशम्पाय़न उवाच:
ऊचुर्विगतसन्त्रासाः समागम्य परस्परम् ||
११ ग
वैशम्पाय़न उवाच:
नेदमस्ति कुलं सर्वं न वय़ं न च नो गृहाः |
१२ क
वैशम्पाय़न उवाच:
यत्र दुर्योधनः पापः सौवलेय़ेन पालितः |
१२ ख
वैशम्पाय़न उवाच:
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति ||
१२ ग
वैशम्पाय़न उवाच:
नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् |
१३ क
वैशम्पाय़न उवाच:
यत्र पापसहाय़ोऽय़ं पापो राज्यं वुभूषते ||
१३ ख
वैशम्पाय़न उवाच:
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः |
१४ क
वैशम्पाय़न उवाच:
अर्थलुव्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ||
१४ ख
वैशम्पाय़न उवाच:
नेय़मस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः |
१५ क
वैशम्पाय़न उवाच:
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ||
१५ ख
वैशम्पाय़न उवाच:
सानुक्रोशा महात्मानो विजितेन्द्रिय़शत्रवः |
१६ क
वैशम्पाय़न उवाच:
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपराय़णाः ||
१६ ख
वैशम्पाय़न उवाच:
एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च |
१७ क
वैशम्पाय़न उवाच:
ऊचुः प्राञ्जलय़ः सर्वे तान्कुन्तीमाद्रिनन्दनान् ||
१७ ख
वैशम्पाय़न उवाच:
क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः |
१८ क
वैशम्पाय़न उवाच:
वय़मप्यनुय़ास्यामो यत्र यूय़ं गमिष्यथ ||
१८ ख
वैशम्पाय़न उवाच:
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः |
१९ क
वैशम्पाय़न उवाच:
उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ ||
१९ ख
वैशम्पाय़न उवाच:
भक्तानुरक्ताः सुहृदः सदा प्रिय़हिते रतान् |
२० क
वैशम्पाय़न उवाच:
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः ||
२० ख
वैशम्पाय़न उवाच:
श्रूय़तां चाभिधास्यामो गुणदोषान्नरर्षभाः |
२१ क
वैशम्पाय़न उवाच:
शुभाशुभाधिवासेन संसर्गं कुरुते यथा ||
२१ ख
वैशम्पाय़न उवाच:
वस्त्रमापस्तिलान्भूमिं गन्धो वासय़ते यथा |
२२ क
वैशम्पाय़न उवाच:
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ||
२२ ख
वैशम्पाय़न उवाच:
मोहजालस्य योनिर्हि मूढैरेव समागमः |
२३ क
वैशम्पाय़न उवाच:
अहन्यहनि धर्मस्य योनिः साधुसमागमः ||
२३ ख
वैशम्पाय़न उवाच:
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः |
२४ क
वैशम्पाय़न उवाच:
सद्भिश्च सह संसर्गः कार्यः शमपराय़णैः ||
२४ ख
वैशम्पाय़न उवाच:
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च |
२५ क
वैशम्पाय़न उवाच:
तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीय़सी ||
२५ ख
वैशम्पाय़न उवाच:
निरारम्भा ह्यपि वय़ं पुण्यशीलेषु साधुषु |
२६ क
वैशम्पाय़न उवाच:
पुण्यमेवाप्नुय़ामेह पापं पापोपसेवनात् ||
२६ ख
वैशम्पाय़न उवाच:
असतां दर्शनात्स्पर्शात्सञ्जल्पनसहासनात् |
२७ क
वैशम्पाय़न उवाच:
धर्माचाराः प्रहीय़न्ते न च सिध्यन्ति मानवाः ||
२७ ख
वैशम्पाय़न उवाच:
वुद्धिश्च हीय़ते पुंसां नीचैः सह समागमात् |
२८ क
वैशम्पाय़न उवाच:
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ||
२८ ख
वैशम्पाय़न उवाच:
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः |
२९ क
वैशम्पाय़न उवाच:
लोकाचारात्मसम्भूता वेदोक्ताः शिष्टसंमताः ||
२९ ख
वैशम्पाय़न उवाच:
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः |
३० क
वैशम्पाय़न उवाच:
इच्छामो गुणवन्मध्ये वस्तुं श्रेय़ोऽभिकाङ्क्षिणः ||
३० ख
युधिष्ठिर उवाच:
धन्या वय़ं यदस्माकं स्नेहकारुण्ययन्त्रिताः |
३१ क
युधिष्ठिर उवाच:
असतोऽपि गुणानाहुर्व्राह्मणप्रमुखाः प्रजाः ||
३१ ख
युधिष्ठिर उवाच:
तदहं भ्रातृसहितः सर्वान्विज्ञापय़ामि वः |
३२ क
युधिष्ठिर उवाच:
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पय़ा ||
३२ ख
युधिष्ठिर उवाच:
भीष्मः पितामहो राजा विदुरो जननी च मे |
३३ क
युधिष्ठिर उवाच:
सुहृज्जनश्च प्राय़ो मे नगरे नागसाह्वय़े ||
३३ ख
युधिष्ठिर उवाच:
ते त्वस्मद्धितकामार्थं पालनीय़ाः प्रय़त्नतः |
३४ क
युधिष्ठिर उवाच:
युष्माभिः सहितैः सर्वैः शोकसन्तापविह्वलाः ||
३४ ख
युधिष्ठिर उवाच:
निवर्ततागता दूरं समागमनशापिताः |
३५ क
युधिष्ठिर उवाच:
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ||
३५ ख
युधिष्ठिर उवाच:
एतद्धि मम कार्याणां परमं हृदि संस्थितम् |
३६ क
युधिष्ठिर उवाच:
सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति ||
३६ ख
वैशम्पाय़न उवाच:
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः |
३७ क
वैशम्पाय़न उवाच:
चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ||
३७ ख
वैशम्पाय़न उवाच:
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः |
३८ क
वैशम्पाय़न उवाच:
अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ||
३८ ख
वैशम्पाय़न उवाच:
निवृत्तेषु तु पौरेषु रथानास्थाय़ पाण्डवाः |
३९ क
वैशम्पाय़न उवाच:
प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ||
३९ ख
वैशम्पाय़न उवाच:
तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः |
४० क
वैशम्पाय़न उवाच:
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि |
४० ख
वैशम्पाय़न उवाच:
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः ||
४० ग
वैशम्पाय़न उवाच:
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातय़ः |
४१ क
वैशम्पाय़न उवाच:
साग्नय़ोऽनग्नय़श्चैव सशिष्यगणवान्धवाः |
४१ ख
वैशम्पाय़न उवाच:
स तैः परिवृतो राजा शुशुभे व्रह्मवादिभिः ||
४१ ग
वैशम्पाय़न उवाच:
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे |
४२ क
वैशम्पाय़न उवाच:
व्रह्मघोषपुरस्कारः सञ्जल्पः समजाय़त ||
४२ ख
वैशम्पाय़न उवाच:
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः |
४३ क
वैशम्पाय़न उवाच:
आश्वासय़न्तो विप्राग्र्याः क्षपां सर्वां व्यनोदय़न् ||
४३ ख