chevron_left विराट पर्व अध्याय १
जनमेजय़ उवाच:
कथं विराटनगरे मम पूर्वपितामहाः |
१ क
जनमेजय़ उवाच:
अज्ञातवासमुषिता दुर्योधनभय़ार्दिताः ||
१ ख
वैशम्पाय़न उवाच:
तथा तु स वराँल्लव्ध्वा धर्माद्धर्मभृतां वरः |
२ क
वैशम्पाय़न उवाच:
गत्वाश्रमं व्राह्मणेभ्य आचख्यौ सर्वमेव तत् ||
२ ख
वैशम्पाय़न उवाच:
कथय़ित्वा तु तत्सर्वं व्राह्मणेभ्यो युधिष्ठिरः |
३ क
वैशम्पाय़न उवाच:
अरणीसहितं तस्मै व्राह्मणाय़ न्यवेदय़त् ||
३ ख
वैशम्पाय़न उवाच:
ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः |
४ क
वैशम्पाय़न उवाच:
संनिवर्त्यानुजान्सर्वानिति होवाच भारत ||
४ ख
वैशम्पाय़न उवाच:
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वय़म् |
५ क
वैशम्पाय़न उवाच:
त्रय़ोदशोऽय़ं सम्प्राप्तः कृच्छ्रः परमदुर्वसः ||
५ ख
वैशम्पाय़न उवाच:
स साधु कौन्तेय़ इतो वासमर्जुन रोचय़ |
६ क
वैशम्पाय़न उवाच:
यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः ||
६ ख
अर्जुन उवाच:
तस्यैव वरदानेन धर्मस्य मनुजाधिप |
७ क
अर्जुन उवाच:
अज्ञाता विचरिष्यामो नराणां भरतर्षभ ||
७ ख
अर्जुन उवाच:
किं तु वासाय़ राष्ट्राणि कीर्तय़िष्यामि कानिचित् |
८ क
अर्जुन उवाच:
रमणीय़ानि गुप्तानि तेषां किञ्चित्स्म रोचय़ ||
८ ख
अर्जुन उवाच:
सन्ति रम्या जनपदा वह्वन्नाः परितः कुरून् |
९ क
अर्जुन उवाच:
पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः |
९ ख
अर्जुन उवाच:
दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगन्धराः ||
९ ग
अर्जुन उवाच:
एतेषां कतमो राजन्निवासस्तव रोचते |
१० क
अर्जुन उवाच:
वत्स्यामो यत्र राजेन्द्र संवत्सरमिमं वय़म् ||
१० ख
युधिष्ठिर उवाच:
एवमेतन्महावाहो यथा स भगवान्प्रभुः |
११ क
युधिष्ठिर उवाच:
अव्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा ||
११ ख
युधिष्ठिर उवाच:
अवश्यं त्वेव वासार्थं रमणीय़ं शिवं सुखम् |
१२ क
युधिष्ठिर उवाच:
संमन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभय़म् ||
१२ ख
युधिष्ठिर उवाच:
मत्स्यो विराटो वलवानभिरक्षेत्स पाण्डवान् |
१३ क
युधिष्ठिर उवाच:
धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः ||
१३ ख
युधिष्ठिर उवाच:
विराटनगरे तात संवत्सरमिमं वय़म् |
१४ क
युधिष्ठिर उवाच:
कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत ||
१४ ख
युधिष्ठिर उवाच:
यानि यानि च कर्माणि तस्य शक्ष्यामहे वय़म् |
१५ क
युधिष्ठिर उवाच:
कर्तुं यो यत्स तत्कर्म व्रवीतु कुरुनन्दनाः ||
१५ ख
अर्जुन उवाच:
नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि |
१६ क
अर्जुन उवाच:
विराटनृपतेः साधो रंस्यसे केन कर्मणा ||
१६ ख
अर्जुन उवाच:
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः |
१७ क
अर्जुन उवाच:
राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव ||
१७ ख
अर्जुन उवाच:
न दुःखमुचितं किञ्चिद्राजन्वेद यथा जनः |
१८ क
अर्जुन उवाच:
स इमामापदं प्राप्य कथं घोरां तरिष्यसि ||
१८ ख
युधिष्ठिर उवाच:
शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः |
१९ क
युधिष्ठिर उवाच:
विराटमनुसम्प्राप्य राजानं पुरुषर्षभम् ||
१९ ख
युधिष्ठिर उवाच:
सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः |
२० क
युधिष्ठिर उवाच:
कङ्को नाम द्विजो भूत्वा मताक्षः प्रिय़देविता ||
२० ख
युधिष्ठिर उवाच:
वैडूर्यान्काञ्चनान्दान्तान्फलैर्ज्योतीरसैः सह |
२१ क
युधिष्ठिर उवाच:
कृष्णाक्षाँल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान् ||
२१ ख
युधिष्ठिर उवाच:
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा |
२२ क
युधिष्ठिर उवाच:
इति वक्ष्यामि राजानं यदि मामनुय़ोक्ष्यते ||
२२ ख
युधिष्ठिर उवाच:
इत्येतद्वो मय़ाख्यातं विहरिष्याम्यहं यथा |
२३ क
युधिष्ठिर उवाच:
वृकोदर विराटे त्वं रंस्यसे केन कर्मणा ||
२३ ख