वैशम्पाय़न उवाच:
कृत्वा विवाहं तु कुरुप्रवीरा; स्तदाभिमन्योर्मुदितस्वपक्षाः |
१ क
वैशम्पाय़न उवाच:
विश्रम्य चत्वार्युषसः प्रतीताः; सभां विराटस्य ततोऽभिजग्मुः ||
१ ख
वैशम्पाय़न उवाच:
सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकोत्तमरत्नचित्रा |
२ क
वैशम्पाय़न उवाच:
न्यस्तासना माल्यवती सुगन्धा; तामभ्ययुस्ते नरराजवर्याः ||
२ ख
वैशम्पाय़न उवाच:
अथासनान्याविशतां पुरस्ता; दुभौ विराटद्रुपदौ नरेन्द्रौ |
३ क
वैशम्पाय़न उवाच:
वृद्धश्च मान्यः पृथिवीपतीनां; पितामहो रामजनार्दनाभ्याम् ||
३ ख
वैशम्पाय़न उवाच:
पाञ्चालराजस्य समीपतस्तु; शिनिप्रवीरः सहरौहिणेय़ः |
४ क
वैशम्पाय़न उवाच:
मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ; जनार्दनश्चैव युधिष्ठिरश्च ||
४ ख
वैशम्पाय़न उवाच:
सुताश्च सर्वे द्रुपदस्य राज्ञो; भीमार्जुनौ माद्रवतीसुतौ च |
५ क
वैशम्पाय़न उवाच:
प्रद्युम्नसाम्वौ च युधि प्रवीरौ; विराटपुत्रश्च सहाभिमन्युः ||
५ ख
वैशम्पाय़न उवाच:
सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण वलेन चैव |
६ क
वैशम्पाय़न उवाच:
उपाविशन्द्रौपदेय़ाः कुमाराः; सुवर्णचित्रेषु वरासनेषु ||
६ ख
वैशम्पाय़न उवाच:
तथोपविष्टेषु महारथेषु; विभ्राजमानाम्वरभूषणेषु |
७ क
वैशम्पाय़न उवाच:
रराज सा राजवती समृद्धा; ग्रहैरिव द्यौर्विमलैरुपेता ||
७ ख
वैशम्पाय़न उवाच:
ततः कथास्ते समवाय़युक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः |
८ क
वैशम्पाय़न उवाच:
तस्थुर्मुहूर्तं परिचिन्तय़न्तः; कृष्णं नृपास्ते समुदीक्षमाणाः ||
८ ख
वैशम्पाय़न उवाच:
कथान्तमासाद्य च माधवेन; सङ्घट्टिताः पाण्डवकार्यहेतोः |
९ क
वैशम्पाय़न उवाच:
ते राजसिंहाः सहिता ह्यशृण्व; न्वाक्यं महार्थं च महोदय़ं च ||
९ ख
कृष्ण उवाच:
सर्वैर्भवद्भिर्विदितं यथाय़ं; युधिष्ठिरः सौवलेनाक्षवत्याम् |
१० क
कृष्ण उवाच:
जितो निकृत्यापहृतं च राज्यं; पुनः प्रवासे समय़ः कृतश्च ||
१० ख
कृष्ण उवाच:
शक्तैर्विजेतुं तरसा महीं च; सत्ये स्थितैस्तच्चरितं यथावत् |
११ क
कृष्ण उवाच:
पाण्डोः सुतैस्तद्व्रतमुग्ररूपं; वर्षाणि षट्सप्त च भारताग्र्यैः ||
११ ख
कृष्ण उवाच:
त्रय़ोदशश्चैव सुदुस्तरोऽय़; मज्ञाय़मानैर्भवतां समीपे |
१२ क
कृष्ण उवाच:
क्लेशानसह्यांश्च तितिक्षमाणै; र्यथोषितं तद्विदितं च सर्वम् ||
१२ ख
कृष्ण उवाच:
एवं गते धर्मसुतस्य राज्ञो; दुर्योधनस्यापि च यद्धितं स्यात् |
१३ क
कृष्ण उवाच:
तच्चिन्तय़ध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशस्करं च ||
१३ ख
कृष्ण उवाच:
अधर्मय़ुक्तं च न कामय़ेत; राज्यं सुराणामपि धर्मराजः |
१४ क
कृष्ण उवाच:
धर्मार्थय़ुक्तं च महीपतित्वं; ग्रामेऽपि कस्मिंश्चिदय़ं वुभूषेत् ||
१४ ख
कृष्ण उवाच:
पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्रपुत्रैः |
१५ क
कृष्ण उवाच:
मिथ्योपचारेण तथाप्यनेन; कृच्छ्रं महत्प्राप्तमसह्यरूपम् ||
१५ ख
कृष्ण उवाच:
न चापि पार्थो विजितो रणे तैः; स्वतेजसा धृतराष्ट्रस्य पुत्रैः |
१६ क
कृष्ण उवाच:
तथापि राजा सहितः सुहृद्भि; रभीप्सतेऽनामय़मेव तेषाम् ||
१६ ख
कृष्ण उवाच:
यत्तत्स्वय़ं पाण्डुसुतैर्विजित्य; समाहृतं भूमिपतीन्निपीड्य |
१७ क
कृष्ण उवाच:
तत्प्रार्थय़न्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च ||
१७ ख
कृष्ण उवाच:
वालास्त्विमे तैर्विविधैरुपाय़ैः; सम्प्रार्थिता हन्तुममित्रसाहाः |
१८ क
कृष्ण उवाच:
राज्यं जिहीर्षद्भिरसद्भिरुग्रैः; सर्वं च तद्वो विदितं यथावत् ||
१८ ख
कृष्ण उवाच:
तेषां च लोभं प्रसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य |
१९ क
कृष्ण उवाच:
सम्वन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक्च ||
१९ ख
कृष्ण उवाच:
इमे च सत्येऽभिरताः सदैव; तं पारय़ित्वा समय़ं यथावत् |
२० क
कृष्ण उवाच:
अतोऽन्यथा तैरुपचर्यमाणा; हन्युः समेतान्धृतराष्ट्रपुत्रान् ||
२० ख
कृष्ण उवाच:
तैर्विप्रकारं च निशम्य राज्ञः; सुहृज्जनास्तान्परिवारय़ेय़ुः |
२१ क
कृष्ण उवाच:
युद्धेन वाधेय़ुरिमांस्तथैव; तैर्वध्यमाना युधि तांश्च हन्युः ||
२१ ख
कृष्ण उवाच:
तथापि नेमेऽल्पतय़ा समर्था; स्तेषां जय़ाय़ेति भवेन्मतं वः |
२२ क
कृष्ण उवाच:
समेत्य सर्वे सहिताः सुहृद्भि; स्तेषां विनाशाय़ यतेय़ुरेव ||
२२ ख
कृष्ण उवाच:
दुर्योधनस्यापि मतं यथाव; न्न ज्ञाय़ते किं नु करिष्यतीति |
२३ क
कृष्ण उवाच:
अज्ञाय़माने च मते परस्य; किं स्यात्समारभ्यतमं मतं वः ||
२३ ख
कृष्ण उवाच:
तस्मादितो गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषोऽप्रमत्तः |
२४ क
कृष्ण उवाच:
दूतः समर्थः प्रशमाय़ तेषां; राज्यार्धदानाय़ युधिष्ठिरस्य ||
२४ ख
कृष्ण उवाच:
निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थय़ुक्तं मधुरं समं च |
२५ क
कृष्ण उवाच:
समाददे वाक्यमथाग्रजोऽस्य; सम्पूज्य वाक्यं तदतीव राजन् ||
२५ ख