chevron_left भीष्म पर्व अध्याय १
जनमेजय़ उवाच:
कथं युय़ुधिरे वीराः कुरुपाण्डवसोमकाः |
१ क
जनमेजय़ उवाच:
पार्थिवाश्च महाभागा नानादेशसमागताः ||
१ ख
वैशम्पाय़न उवाच:
यथा युय़ुधिरे वीराः कुरुपाण्डवसोमकाः |
२ क
वैशम्पाय़न उवाच:
कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते ||
२ ख
वैशम्पाय़न उवाच:
अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः |
३ क
वैशम्पाय़न उवाच:
कौरवानभ्यवर्तन्त जिगीषन्तो महावलाः ||
३ ख
वैशम्पाय़न उवाच:
वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः |
४ क
वैशम्पाय़न उवाच:
आशंसन्तो जय़ं युद्धे वधं वाभिमुखा रणे ||
४ ख
वैशम्पाय़न उवाच:
अभिय़ाय़ च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् |
५ क
वैशम्पाय़न उवाच:
प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः ||
५ ख
वैशम्पाय़न उवाच:
समन्तपञ्चकाद्वाह्यं शिविराणि सहस्रशः |
६ क
वैशम्पाय़न उवाच:
कारय़ामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ||
६ ख
वैशम्पाय़न उवाच:
शून्येव पृथिवी सर्वा वालवृद्धावशेषिता |
७ क
वैशम्पाय़न उवाच:
निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता ||
७ ख
वैशम्पाय़न उवाच:
यावत्तपति सूर्यो हि जम्वूद्वीपस्य मण्डलम् |
८ क
वैशम्पाय़न उवाच:
तावदेव समावृत्तं वलं पार्थिवसत्तम ||
८ ख
वैशम्पाय़न उवाच:
एकस्थाः सर्ववर्णास्ते मण्डलं वहुय़ोजनम् |
९ क
वैशम्पाय़न उवाच:
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ||
९ ख
वैशम्पाय़न उवाच:
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ |
१० क
वैशम्पाय़न उवाच:
आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ||
१० ख
वैशम्पाय़न उवाच:
सञ्ज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः |
११ क
वैशम्पाय़न उवाच:
एवंवादी वेदितव्यः पाण्डवेय़ोऽय़मित्युत ||
११ ख
वैशम्पाय़न उवाच:
अभिज्ञानानि सर्वेषां सञ्ज्ञाश्चाभरणानि च |
१२ क
वैशम्पाय़न उवाच:
योजय़ामास कौरव्यो युद्धकाल उपस्थिते ||
१२ ख
वैशम्पाय़न उवाच:
दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः |
१३ क
वैशम्पाय़न उवाच:
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् ||
१३ ख
वैशम्पाय़न उवाच:
पाण्डुरेणातपत्रेण ध्रिय़माणेन मूर्धनि |
१४ क
वैशम्पाय़न उवाच:
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् ||
१४ ख
वैशम्पाय़न उवाच:
दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः |
१५ क
वैशम्पाय़न उवाच:
दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ||
१५ ख
वैशम्पाय़न उवाच:
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः |
१६ क
वैशम्पाय़न उवाच:
वभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ||
१६ ख
वैशम्पाय़न उवाच:
ततो योधान्हर्षय़न्तौ वासुदेवधनञ्जय़ौ |
१७ क
वैशम्पाय़न उवाच:
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ||
१७ ख
वैशम्पाय़न उवाच:
पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभय़ोः |
१८ क
वैशम्पाय़न उवाच:
श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः ||
१८ ख
वैशम्पाय़न उवाच:
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः |
१९ क
वैशम्पाय़न उवाच:
त्रसेय़ुस्तद्वदेवासीद्धार्तराष्ट्रवलं तदा ||
१९ ख
वैशम्पाय़न उवाच:
उदतिष्ठद्रजो भौमं न प्राज्ञाय़त किञ्चन |
२० क
वैशम्पाय़न उवाच:
अन्तर्धीय़त चादित्यः सैन्येन रजसावृतः ||
२० ख
वैशम्पाय़न उवाच:
ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् |
२१ क
वैशम्पाय़न उवाच:
व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् ||
२१ ख
वैशम्पाय़न उवाच:
वाय़ुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः |
२२ क
वैशम्पाय़न उवाच:
विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः ||
२२ ख
वैशम्पाय़न उवाच:
उभे सेने तदा राजन्युद्धाय़ मुदिते भृशम् |
२३ क
वैशम्पाय़न उवाच:
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ||
२३ ख
वैशम्पाय़न उवाच:
तय़ोस्तु सेनय़ोरासीदद्भुतः स समागमः |
२४ क
वैशम्पाय़न उवाच:
युगान्ते समनुप्राप्ते द्वय़ोः सागरय़ोरिव ||
२४ ख
वैशम्पाय़न उवाच:
शून्यासीत्पृथिवी सर्वा वालवृद्धावशेषिता |
२५ क
वैशम्पाय़न उवाच:
तेन सेनासमूहेन समानीतेन कौरवैः ||
२५ ख
वैशम्पाय़न उवाच:
ततस्ते समय़ं चक्रुः कुरुपाण्डवसोमकाः |
२६ क
वैशम्पाय़न उवाच:
धर्मांश्च स्थापय़ामासुर्युद्धानां भरतर्षभ ||
२६ ख
वैशम्पाय़न उवाच:
निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् |
२७ क
वैशम्पाय़न उवाच:
यथापुरं यथाय़ोगं न च स्याच्छलनं पुनः ||
२७ ख
वैशम्पाय़न उवाच:
वाचा युद्धे प्रवृत्ते नो वाचैव प्रतिय़ोधनम् |
२८ क
वैशम्पाय़न उवाच:
निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथञ्चन ||
२८ ख
वैशम्पाय़न उवाच:
रथी च रथिना योध्यो गजेन गजधूर्गतः |
२९ क
वैशम्पाय़न उवाच:
अश्वेनाश्वी पदातिश्च पदातेनैव भारत ||
२९ ख
वैशम्पाय़न उवाच:
यथाय़ोगं यथावीर्यं यथोत्साहं यथावय़ः |
३० क
वैशम्पाय़न उवाच:
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ||
३० ख
वैशम्पाय़न उवाच:
परेण सह संय़ुक्तः प्रमत्तो विमुखस्तथा |
३१ क
वैशम्पाय़न उवाच:
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथञ्चन ||
३१ ख
वैशम्पाय़न उवाच:
न सूतेषु न धुर्येषु न च शस्त्रोपनाय़िषु |
३२ क
वैशम्पाय़न उवाच:
न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन ||
३२ ख
वैशम्पाय़न उवाच:
एवं ते समय़ं कृत्वा कुरुपाण्डवसोमकाः |
३३ क
वैशम्पाय़न उवाच:
विस्मय़ं परमं जग्मुः प्रेक्षमाणाः परस्परम् ||
३३ ख
वैशम्पाय़न उवाच:
निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः |
३४ क
वैशम्पाय़न उवाच:
हृष्टरूपाः सुमनसो वभूवुः सहसैनिकाः ||
३४ ख