जनमेजय़ उवाच:
तमप्रतिमसत्त्वौजोवलवीर्यपराक्रमम् |
१ क
जनमेजय़ उवाच:
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ||
१ ख
जनमेजय़ उवाच:
धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः |
२ क
जनमेजय़ उवाच:
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ||
२ ख
जनमेजय़ उवाच:
तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः |
३ क
जनमेजय़ उवाच:
पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति ||
३ ख
जनमेजय़ उवाच:
तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् |
४ क
जनमेजय़ उवाच:
यदचेष्टत कौरव्यस्तन्मे व्रूहि द्विजोत्तम ||
४ ख
वैशम्पाय़न उवाच:
निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः |
५ क
वैशम्पाय़न उवाच:
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपराय़णः ||
५ ख
वैशम्पाय़न उवाच:
तस्य चिन्तय़तो दुःखमनिशं पार्थिवस्य तत् |
६ क
वैशम्पाय़न उवाच:
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ||
६ ख
वैशम्पाय़न उवाच:
शिविरात्सञ्जय़ं प्राप्तं निशि नागाह्वय़ं पुरम् |
७ क
वैशम्पाय़न उवाच:
आम्विकेय़ो महाराज धृतराष्ट्रोऽन्वपृच्छत ||
७ ख
वैशम्पाय़न उवाच:
श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् |
८ क
वैशम्पाय़न उवाच:
पुत्राणां जय़माकाङ्क्षन्विललापातुरो यथा ||
८ ख
धृतराष्ट्र उवाच:
संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् |
९ क
धृतराष्ट्र उवाच:
किमकार्षुः परं तात कुरवः कालचोदिताः ||
९ ख
धृतराष्ट्र उवाच:
तस्मिन्विनिहते शूरे दुराधर्षे महौजसि |
१० क
धृतराष्ट्र उवाच:
किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे ||
१० ख
धृतराष्ट्र उवाच:
तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि सञ्जय़ |
११ क
धृतराष्ट्र उवाच:
भय़मुत्पादय़ेत्तीव्रं पाण्डवानां महात्मनाम् ||
११ ख
धृतराष्ट्र उवाच:
देवव्रते तु निहते कुरूणामृषभे तदा |
१२ क
धृतराष्ट्र उवाच:
यदकार्षुर्नृपतय़स्तन्ममाचक्ष्व सञ्जय़ ||
१२ ख
सञ्जय़ उवाच:
शृणु राजन्नेकमना वचनं व्रुवतो मम |
१३ क
सञ्जय़ उवाच:
यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे ||
१३ ख
सञ्जय़ उवाच:
निहते तु तदा भीष्मे राजन्सत्यपराक्रमे |
१४ क
सञ्जय़ उवाच:
तावकाः पाण्डवेय़ाश्च प्राध्याय़न्त पृथक्पृथक् ||
१४ ख
सञ्जय़ उवाच:
विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते |
१५ क
सञ्जय़ उवाच:
स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने ||
१५ ख
सञ्जय़ उवाच:
शय़नं कल्पय़ामासुर्भीष्माय़ामिततेजसे |
१६ क
सञ्जय़ उवाच:
सोपधानं नरव्याघ्र शरैः संनतपर्वभिः ||
१६ ख
सञ्जय़ उवाच:
विधाय़ रक्षां भीष्माय़ समाभाष्य परस्परम् |
१७ क
सञ्जय़ उवाच:
अनुमान्य च गाङ्गेय़ं कृत्वा चापि प्रदक्षिणम् ||
१७ ख
सञ्जय़ उवाच:
क्रोधसंरक्तनय़नाः समवेक्ष्य परस्परम् |
१८ क
सञ्जय़ उवाच:
पुनर्युद्धाय़ निर्जग्मुः क्षत्रिय़ाः कालचोदिताः ||
१८ ख
सञ्जय़ उवाच:
ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः |
१९ क
सञ्जय़ उवाच:
तावकानामनीकानि परेषां चापि निर्ययुः ||
१९ ख
सञ्जय़ उवाच:
व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते |
२० क
सञ्जय़ उवाच:
अमर्षवशमापन्नाः कालोपहतचेतसः ||
२० ख
सञ्जय़ उवाच:
अनादृत्य वचः पथ्यं गाङ्गेय़स्य महात्मनः |
२१ क
सञ्जय़ उवाच:
निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय़ सर्वशः ||
२१ ख
सञ्जय़ उवाच:
मोहात्तव सपुत्रस्य वधाच्छान्तनवस्य च |
२२ क
सञ्जय़ उवाच:
कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः ||
२२ ख
सञ्जय़ उवाच:
अजावय़ इवागोपा वने श्वापदसङ्कुले |
२३ क
सञ्जय़ उवाच:
भृशमुद्विग्नमनसो हीना देवव्रतेन ते ||
२३ ख
सञ्जय़ उवाच:
पतिते भरतश्रेष्ठे वभूव कुरुवाहिनी |
२४ क
सञ्जय़ उवाच:
द्यौरिवापेतनक्षत्रा हीनं खमिव वाय़ुना ||
२४ ख
सञ्जय़ उवाच:
विपन्नसस्येव मही वाक्चैवासंस्कृता यथा |
२५ क
सञ्जय़ उवाच:
आसुरीव यथा सेना निगृहीते पुरा वलौ ||
२५ ख
सञ्जय़ उवाच:
विधवेव वरारोहा शुष्कतोय़ेव निम्नगा |
२६ क
सञ्जय़ उवाच:
वृकैरिव वने रुद्धा पृषती हतय़ूथपा ||
२६ ख
सञ्जय़ उवाच:
स्वाधर्षा हतसिंहेव महती गिरिकन्दरा |
२७ क
सञ्जय़ उवाच:
भारती भरतश्रेष्ठ पतिते जाह्नवीसुते ||
२७ ख
सञ्जय़ उवाच:
विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे |
२८ क
सञ्जय़ उवाच:
वलिभिः पाण्डवैर्वीरैर्लव्धलक्षैर्भृशार्दिता ||
२८ ख
सञ्जय़ उवाच:
सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा |
२९ क
सञ्जय़ उवाच:
विषण्णभूय़िष्ठनरा कृपणा द्रष्टुमावभौ ||
२९ ख
सञ्जय़ उवाच:
तस्यां त्रस्ता नृपतय़ः सैनिकाश्च पृथग्विधाः |
३० क
सञ्जय़ उवाच:
पाताल इव मज्जन्तो हीना देवव्रतेन ते |
३० ख
सञ्जय़ उवाच:
कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः ||
३० ग
सञ्जय़ उवाच:
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् |
३१ क
सञ्जय़ उवाच:
वन्धुमापद्गतस्येव तमेवोपागमन्मनः ||
३१ ख
सञ्जय़ उवाच:
चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः |
३२ क
सञ्जय़ उवाच:
राधेय़ं हितमस्माकं सूतपुत्रं तनुत्यजम् ||
३२ ख
सञ्जय़ उवाच:
स हि नाय़ुध्यत तदा दशाहानि महाय़शाः |
३३ क
सञ्जय़ उवाच:
सामात्यवन्धुः कर्णो वै तमाह्वय़त माचिरम् ||
३३ ख
सञ्जय़ उवाच:
भीष्मेण हि महावाहुः सर्वक्षत्रस्य पश्यतः |
३४ क
सञ्जय़ उवाच:
रथेषु गण्यमानेषु वलविक्रमशालिषु |
३४ ख
सञ्जय़ उवाच:
सङ्ख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः ||
३४ ग
सञ्जय़ उवाच:
रथातिरथसङ्ख्याय़ां योऽग्रणीः शूरसंमतः |
३५ क
सञ्जय़ उवाच:
पितृवित्ताम्वुदेवेशानपि यो योद्धुमुत्सहेत् ||
३५ ख
सञ्जय़ उवाच:
स तु तेनैव कोपेन राजन्गाङ्गेय़मुक्तवान् |
३६ क
सञ्जय़ उवाच:
त्वय़ि जीवति कौरव्य नाहं योत्स्ये कथञ्चन ||
३६ ख
सञ्जय़ उवाच:
त्वय़ा तु पाण्डवेय़ेषु निहतेषु महामृधे |
३७ क
सञ्जय़ उवाच:
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव ||
३७ ख
सञ्जय़ उवाच:
पाण्डवैर्वा हते भीष्मे त्वय़ि स्वर्गमुपेय़ुषि |
३८ क
सञ्जय़ उवाच:
हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् ||
३८ ख
सञ्जय़ उवाच:
एवमुक्त्वा महाराज दशाहानि महाय़शाः |
३९ क
सञ्जय़ उवाच:
नाय़ुध्यत ततः कर्णः पुत्रस्य तव संमते ||
३९ ख
सञ्जय़ उवाच:
भीष्मः समरविक्रान्तः पाण्डवेय़स्य पार्थिव |
४० क
सञ्जय़ उवाच:
जघान समरे योधानसङ्ख्येय़पराक्रमः ||
४० ख
सञ्जय़ उवाच:
तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि |
४१ क
सञ्जय़ उवाच:
त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् ||
४१ ख
सञ्जय़ उवाच:
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः |
४२ क
सञ्जय़ उवाच:
हा कर्ण इति चाक्रन्दन्कालोऽय़मिति चाव्रुवन् ||
४२ ख
सञ्जय़ उवाच:
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् |
४३ क
सञ्जय़ उवाच:
अगमन्नो मनः कर्णं वन्धुमात्ययिकेष्विव ||
४३ ख
सञ्जय़ उवाच:
स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभय़ात् |
४४ क
सञ्जय़ उवाच:
त्रिदशानिव गोविन्दः सततं सुमहाभय़ात् ||
४४ ख
वैशम्पाय़न उवाच:
तथा कर्णं युधि वरं कीर्तय़न्तं पुनः पुनः |
४५ क
वैशम्पाय़न उवाच:
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽव्रवीदिदम् ||
४५ ख
वैशम्पाय़न उवाच:
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा |
४६ क
वैशम्पाय़न उवाच:
अप्यपश्यत राधेय़ं सूतपुत्रं तनुत्यजम् ||
४६ ख
वैशम्पाय़न उवाच:
अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः |
४७ क
वैशम्पाय़न उवाच:
सम्भ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् ||
४७ ख
वैशम्पाय़न उवाच:
अपि तत्पूरय़ां चक्रे धनुर्धरवरो युधि |
४८ क
वैशम्पाय़न उवाच:
यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् ||
४८ ख
वैशम्पाय़न उवाच:
तत्खण्डं पूरय़ामास परेषामादधद्भय़म् |
४९ क
वैशम्पाय़न उवाच:
कृतवान्मम पुत्राणां जय़ाशां सफलामपि ||
४९ ख