chevron_left भीष्म पर्व अध्याय १०
सञ्जय़ उवाच:
तीरग्राहास्तरतोय़ा राजिका रस्यकागणाः |
५१ क
सञ्जय़ उवाच:
तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः ||
५१ ख
सञ्जय़ उवाच:
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा |
५२ क
सञ्जय़ उवाच:
अभीसारा कुलूताश्च शैवला वाह्लिकास्तथा ||
५२ ख
सञ्जय़ उवाच:
दर्वीकाः सकचा दर्वा वातजामरथोरगाः |
५३ क
सञ्जय़ उवाच:
वहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः ||
५३ ख
सञ्जय़ उवाच:
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा |
५४ क
सञ्जय़ उवाच:
वनाय़वो दशापार्श्वा रोमाणः कुशविन्दवः ||
५४ ख
सञ्जय़ उवाच:
कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः |
५५ क
सञ्जय़ उवाच:
किराता वर्वराः सिद्धा विदेहास्ताम्रलिङ्गकाः ||
५५ ख
सञ्जय़ उवाच:
ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीय़ाश्च मारिष |
५६ क
सञ्जय़ उवाच:
अथापरे जनपदा दक्षिणा भरतर्षभ ||
५६ ख
सञ्जय़ उवाच:
द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः |
५७ क
सञ्जय़ उवाच:
उन्नत्यका माहिषका विकल्पा मूषकास्तथा ||
५७ ख
सञ्जय़ उवाच:
कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः |
५८ क
सञ्जय़ उवाच:
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः ||
५८ ख
सञ्जय़ उवाच:
समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः |
५९ क
सञ्जय़ उवाच:
ध्वजिन्युत्सवसङ्केतास्त्रिगर्ताः सर्वसेनय़ः ||
५९ ख
सञ्जय़ उवाच:
त्र्यङ्गाः केकरकाः प्रोष्ठाः परसञ्चरकास्तथा |
६० क
सञ्जय़ उवाच:
तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह ||
६० ख
सञ्जय़ उवाच:
मालका मल्लकाश्चैव तथैवापरवर्तकाः |
६१ क
सञ्जय़ उवाच:
कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा ||
६१ ख
सञ्जय़ उवाच:
मूषका स्तनवालाश्च सतिय़ः पत्तिपञ्जकाः |
६२ क
सञ्जय़ उवाच:
आदिदाय़ाः सिरालाश्च स्तूवका स्तनपास्तथा ||
६२ ख
सञ्जय़ उवाच:
हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः |
६३ क
सञ्जय़ उवाच:
उत्तराश्चापरे म्लेच्छा जना भरतसत्तम ||
६३ ख
सञ्जय़ उवाच:
यवनाश्च सकाम्वोजा दारुणा म्लेच्छजातय़ः |
६४ क
सञ्जय़ उवाच:
सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह ||
६४ ख
सञ्जय़ उवाच:
तथैव मरधाश्चीनास्तथैव दशमालिकाः |
६५ क
सञ्जय़ उवाच:
क्षत्रिय़ोपनिवेशाश्च वैश्यशूद्रकुलानि च ||
६५ ख
सञ्जय़ उवाच:
शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह |
६६ क
सञ्जय़ उवाच:
खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः ||
६६ ख
सञ्जय़ उवाच:
आत्रेय़ाः सभरद्वाजास्तथैव स्तनय़ोषिकाः |
६७ क
सञ्जय़ उवाच:
औपकाश्च कलिङ्गाश्च किरातानां च जातय़ः ||
६७ ख
सञ्जय़ उवाच:
तामरा हंसमार्गाश्च तथैव करभञ्जकाः |
६८ क
सञ्जय़ उवाच:
उद्देशमात्रेण मय़ा देशाः सङ्कीर्तिताः प्रभो ||
६८ ख
सञ्जय़ उवाच:
यथागुणवलं चापि त्रिवर्गस्य महाफलम् |
६९ क
सञ्जय़ उवाच:
दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता ||
६९ ख
सञ्जय़ उवाच:
तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः |
७० क
सञ्जय़ उवाच:
ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः ||
७० ख
सञ्जय़ उवाच:
देवमानुषकाय़ानां कामं भूमिः पराय़णम् |
७१ क
सञ्जय़ उवाच:
अन्योन्यस्यावलुम्पन्ति सारमेय़ा इवामिषम् ||
७१ ख
सञ्जय़ उवाच:
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् |
७२ क
सञ्जय़ उवाच:
न चापि तृप्तिः कामानां विद्यते चेह कस्यचित् ||
७२ ख
सञ्जय़ उवाच:
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः |
७३ क
सञ्जय़ उवाच:
साम्ना दानेन भेदेन दण्डेनैव च पार्थिव ||
७३ ख
सञ्जय़ उवाच:
पिता माता च पुत्रश्च खं द्यौश्च नरपुङ्गव |
७४ क
सञ्जय़ उवाच:
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी ||
७४ ख