सञ्जय़ उवाच:
आह्वय़ामास कौन्तेय़ः सङ्क्रुद्धमलकाधिपम् ||
४८ ख
सञ्जय़ उवाच:
यय़ा माय़ाविनो दृप्तान्सुवहून्धनदालय़े |
४९ क
सञ्जय़ उवाच:
जघान गुह्यकान्क्रुद्धो मन्दारार्थे महावलः |
४९ ख
सञ्जय़ उवाच:
निवार्यमाणो वहुभिर्द्रौपद्याः प्रिय़मास्थितः ||
४९ ग
सञ्जय़ उवाच:
तां वज्रमणिरत्नौघामष्टाश्रिं वज्रगौरवाम् |
५० क
सञ्जय़ उवाच:
समुद्यम्य महावाहुः शल्यमभ्यद्रवद्रणे ||
५० ख
सञ्जय़ उवाच:
गदय़ा युद्धकुशलस्तय़ा दारुणनादय़ा |
५१ क
सञ्जय़ उवाच:
पोथय़ामास शल्यस्य चतुरोऽश्वान्महाजवान् ||
५१ ख
सञ्जय़ उवाच:
ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् |
५२ क
सञ्जय़ उवाच:
निचखान नदन्वीरो वर्म भित्त्वा च सोऽभ्यगात् ||
५२ ख
सञ्जय़ उवाच:
वृकोदरस्त्वसम्भ्रातस्तमेवोद्धृत्य तोमरम् |
५३ क
सञ्जय़ उवाच:
यन्तारं मद्रराजस्य निर्विभेद ततो हृदि ||
५३ ख
सञ्जय़ उवाच:
स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः |
५४ क
सञ्जय़ उवाच:
पपाताभिमुखो दीनो मद्रराजस्त्वपाक्रमत् ||
५४ ख
सञ्जय़ उवाच:
कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः |
५५ क
सञ्जय़ उवाच:
गदामाश्रित्य धीरात्मा प्रत्यमित्रमवैक्षत ||
५५ ख
सञ्जय़ उवाच:
ततः सुमनसः पार्था भीमसेनमपूजय़न् |
५६ क
सञ्जय़ उवाच:
तद्दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः ||
५६ ख