chevron_left सौप्तिक पर्व अध्याय १०
वैशम्पाय़न उवाच:
तस्यां रात्र्यां व्यतीताय़ां धृष्टद्युम्नस्य सारथिः |
१ क
वैशम्पाय़न उवाच:
शशंस धर्मराजाय़ सौप्तिके कदनं कृतम् ||
१ ख
वैशम्पाय़न उवाच:
द्रौपदेय़ा महाराज द्रुपदस्यात्मजैः सह |
२ क
वैशम्पाय़न उवाच:
प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिविरे स्वके ||
२ ख
वैशम्पाय़न उवाच:
कृतवर्मणा नृशंसेन गौतमेन कृपेण च |
३ क
वैशम्पाय़न उवाच:
अश्वत्थाम्ना च पापेन हतं वः शिविरं निशि ||
३ ख
वैशम्पाय़न उवाच:
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः |
४ क
वैशम्पाय़न उवाच:
सहस्राणि निकृन्तद्भिर्निःशेषं ते वलं कृतम् ||
४ ख
वैशम्पाय़न उवाच:
छिद्यमानस्य महतो वनस्येव परश्वधैः |
५ क
वैशम्पाय़न उवाच:
शुश्रुवे सुमहाञ्शव्दो वलस्य तव भारत ||
५ ख
वैशम्पाय़न उवाच:
अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महीपते |
६ क
वैशम्पाय़न उवाच:
मुक्तः कथञ्चिद्धर्मात्मन्व्यग्रस्य कृतवर्मणः ||
६ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः |
७ क
वैशम्पाय़न उवाच:
पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः ||
७ ख
वैशम्पाय़न उवाच:
तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः |
८ क
वैशम्पाय़न उवाच:
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ||
८ ख
वैशम्पाय़न उवाच:
लव्धचेतास्तु कौन्तेय़ः शोकविह्वलय़ा गिरा |
९ क
वैशम्पाय़न उवाच:
जित्वा शत्रूञ्जितः पश्चात्पर्यदेवय़दातुरः ||
९ ख
वैशम्पाय़न उवाच:
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः |
१० क
वैशम्पाय़न उवाच:
जीय़माना जय़न्त्यन्ये जय़माना वय़ं जिताः ||
१० ख
वैशम्पाय़न उवाच:
हत्वा भ्रातॄन्वय़स्यांश्च पितॄन्पुत्रान्सुहृद्गणान् |
११ क
वैशम्पाय़न उवाच:
वन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वय़म् ||
११ ख
वैशम्पाय़न उवाच:
अनर्थो ह्यर्थसङ्काशस्तथार्थोऽनर्थदर्शनः |
१२ क
वैशम्पाय़न उवाच:
जय़ोऽय़मजय़ाकारो जय़स्तस्मात्पराजय़ः ||
१२ ख
वैशम्पाय़न उवाच:
यं जित्वा तप्यते पश्चादापन्न इव दुर्मतिः |
१३ क
वैशम्पाय़न उवाच:
कथं मन्येत विजय़ं ततो जिततरः परैः ||
१३ ख
वैशम्पाय़न उवाच:
येषामर्थाय़ पापस्य धिग्जय़स्य सुहृद्वधे |
१४ क
वैशम्पाय़न उवाच:
निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः ||
१४ ख
वैशम्पाय़न उवाच:
कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संय़ुगे |
१५ क
वैशम्पाय़न उवाच:
चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः ||
१५ ख
वैशम्पाय़न उवाच:
क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलाय़िनः |
१६ क
वैशम्पाय़न उवाच:
ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः ||
१६ ख
वैशम्पाय़न उवाच:
रथह्रदं शरवर्षोर्मिमन्तं; रत्नाचितं वाहनराजिय़ुक्तम् |
१७ क
वैशम्पाय़न उवाच:
शक्त्यृष्टिमीनध्वजनागनक्रं; शरासनावर्तमहेषुफेनम् ||
१७ ख
वैशम्पाय़न उवाच:
सङ्ग्रामचन्द्रोदय़वेगवेलं; द्रोणार्णवं ज्यातलनेमिघोषम् |
१८ क
वैशम्पाय़न उवाच:
ये तेरुरुच्चावचशस्त्रनौभि; स्ते राजपुत्रा निहताः प्रमादात् ||
१८ ख
वैशम्पाय़न उवाच:
न हि प्रमादात्परमोऽस्ति कश्चि; द्वधो नराणामिह जीवलोके |
१९ क
वैशम्पाय़न उवाच:
प्रमत्तमर्था हि नरं समन्ता; त्त्यजन्त्यनर्थाश्च समाविशन्ति ||
१९ ख
वैशम्पाय़न उवाच:
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं; शरार्चिषं कोपमहासमीरम् |
२० क
वैशम्पाय़न उवाच:
महाधनुर्ज्यातलनेमिघोषं; तनुत्रनानाविधशस्त्रहोमम् ||
२० ख
वैशम्पाय़न उवाच:
महाचमूकक्षवराभिपन्नं; महाहवे भीष्ममहादवाग्निम् |
२१ क
वैशम्पाय़न उवाच:
ये सेहुरात्ताय़तशस्त्रवेगं; ते राजपुत्रा निहताः प्रमादात् ||
२१ ख
वैशम्पाय़न उवाच:
न हि प्रमत्तेन नरेण लभ्या; विद्या तपः श्रीर्विपुलं यशो वा |
२२ क
वैशम्पाय़न उवाच:
पश्याप्रमादेन निहत्य शत्रू; न्सर्वान्महेन्द्रं सुखमेधमानम् ||
२२ ख
वैशम्पाय़न उवाच:
इन्द्रोपमान्पार्थिवपुत्रपौत्रा; न्पश्याविशेषेण हतान्प्रमादात् |
२३ क
वैशम्पाय़न उवाच:
तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कुनद्यामिव हेलमानाः |
२३ ख
वैशम्पाय़न उवाच:
अमर्षितैर्ये निहताः शय़ाना; निःसंशय़ं ते त्रिदिवं प्रपन्नाः ||
२३ ग
वैशम्पाय़न उवाच:
कृष्णां नु शोचामि कथं न साध्वीं; शोकार्णवे साद्य विनङ्क्ष्यतीति |
२४ क
वैशम्पाय़न उवाच:
भ्रातॄंश्च पुत्रांश्च हतान्निशम्य; पाञ्चालराजं पितरं च वृद्धम् |
२४ ख
वैशम्पाय़न उवाच:
ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां; सा शेष्यते शोककृशाङ्गय़ष्टिः ||
२४ ग
वैशम्पाय़न उवाच:
तच्छोकजं दुःखमपारय़न्ती; कथं भविष्यत्युचिता सुखानाम् |
२५ क
वैशम्पाय़न उवाच:
पुत्रक्षय़भ्रातृवधप्रणुन्ना; प्रदह्यमानेव हुताशनेन ||
२५ ख
वैशम्पाय़न उवाच:
इत्येवमार्तः परिदेवय़न्स; राजा कुरूणां नकुलं वभाषे |
२६ क
वैशम्पाय़न उवाच:
गच्छानय़ैनामिह मन्दभाग्यां; समातृपक्षामिति राजपुत्रीम् ||
२६ ख
वैशम्पाय़न उवाच:
माद्रीसुतस्तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः |
२७ क
वैशम्पाय़न उवाच:
यय़ौ रथेनालय़माशु देव्याः; पाञ्चालराजस्य च यत्र दाराः ||
२७ ख
वैशम्पाय़न उवाच:
प्रस्थाप्य माद्रीसुतमाजमीढः; शोकार्दितस्तैः सहितः सुहृद्भिः |
२८ क
वैशम्पाय़न उवाच:
रोरूय़माणः प्रय़यौ सुताना; माय़ोधनं भूतगणानुकीर्णम् ||
२८ ख
वैशम्पाय़न उवाच:
स तत्प्रविश्याशिवमुग्ररूपं; ददर्श पुत्रान्सुहृदः सखींश्च |
२९ क
वैशम्पाय़न उवाच:
भूमौ शय़ानान्रुधिरार्द्रगात्रा; न्विभिन्नभग्नापहृतोत्तमाङ्गान् ||
२९ ख
वैशम्पाय़न उवाच:
स तांस्तु दृष्ट्वा भृशमार्तरूपो; युधिष्ठिरो धर्मभृतां वरिष्ठः |
३० क
वैशम्पाय़न उवाच:
उच्चैः प्रचुक्रोश च कौरवाग्र्यः; पपात चोर्व्यां सगणो विसञ्ज्ञः ||
३० ख