वैशम्पाय़न उवाच:
क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् |
१ क
वैशम्पाय़न उवाच:
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च ||
१ ख
वैशम्पाय़न उवाच:
ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् |
२ क
वैशम्पाय़न उवाच:
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमव्रुवन् ||
२ ख
वैशम्पाय़न उवाच:
पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम् |
३ क
वैशम्पाय़न उवाच:
गतः सानुचरो राजञ्शक्रलोकं महीपतिः ||
३ ख
वैशम्पाय़न उवाच:
दुर्योधनवलान्मुक्ता वय़मेव त्रय़ो रथाः |
४ क
वैशम्पाय़न उवाच:
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ ||
४ ख
वैशम्पाय़न उवाच:
इत्येवमुक्त्वा राजानं कृपः शारद्वतस्तदा |
५ क
वैशम्पाय़न उवाच:
गान्धारीं पुत्रशोकार्तामिदं वचनमव्रवीत् ||
५ ख
वैशम्पाय़न उवाच:
अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्वहून् |
६ क
वैशम्पाय़न उवाच:
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः ||
६ ख
वैशम्पाय़न उवाच:
ध्रुवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् |
७ क
वैशम्पाय़न उवाच:
भास्वरं देहमास्थाय़ विहरन्त्यमरा इव ||
७ ख
वैशम्पाय़न उवाच:
न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः |
८ क
वैशम्पाय़न उवाच:
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः ||
८ ख
वैशम्पाय़न उवाच:
एतां तां क्षत्रिय़स्याहुः पुराणां परमां गतिम् |
९ क
वैशम्पाय़न उवाच:
शस्त्रेण निधनं सङ्ख्ये तान्न शोचितुमर्हसि ||
९ ख
वैशम्पाय़न उवाच:
न चापि शत्रवस्तेषामृध्यन्ते राज्ञि पाण्डवाः |
१० क
वैशम्पाय़न उवाच:
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः ||
१० ख
वैशम्पाय़न उवाच:
अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् |
११ क
वैशम्पाय़न उवाच:
सुप्तं शिविरमाविश्य पाण्डूनां कदनं कृतम् ||
११ ख
वैशम्पाय़न उवाच:
पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः |
१२ क
वैशम्पाय़न उवाच:
द्रुपदस्यात्मजाश्चैव द्रौपदेय़ाश्च पातिताः ||
१२ ख
वैशम्पाय़न उवाच:
तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते |
१३ क
वैशम्पाय़न उवाच:
प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रय़ः ||
१३ ख
वैशम्पाय़न उवाच:
ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः |
१४ क
वैशम्पाय़न उवाच:
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः ||
१४ ख
वैशम्पाय़न उवाच:
निहतानात्मजाञ्श्रुत्वा प्रमत्तान्पुरुषर्षभाः |
१५ क
वैशम्पाय़न उवाच:
निनीषन्तः पदं शूराः क्षिप्रमेव यशस्विनि ||
१५ ख
वैशम्पाय़न उवाच:
पाण्डूनां किल्विषं कृत्वा संस्थातुं नोत्सहामहे |
१६ क
वैशम्पाय़न उवाच:
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः ||
१६ ख
वैशम्पाय़न उवाच:
राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् |
१७ क
वैशम्पाय़न उवाच:
निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम् ||
१७ ख
वैशम्पाय़न उवाच:
इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् |
१८ क
वैशम्पाय़न उवाच:
कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत ||
१८ ख
वैशम्पाय़न उवाच:
अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् |
१९ क
वैशम्पाय़न उवाच:
गङ्गामनु महात्मानस्तूर्णमश्वानचोदय़न् ||
१९ ख
वैशम्पाय़न उवाच:
अपक्रम्य तु ते राजन्सर्व एव महारथाः |
२० क
वैशम्पाय़न उवाच:
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रय़युस्ततः ||
२० ख
वैशम्पाय़न उवाच:
जगाम हास्तिनपुरं कृपः शारद्वतस्तदा |
२१ क
वैशम्पाय़न उवाच:
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं यय़ौ ||
२१ ख
वैशम्पाय़न उवाच:
एवं ते प्रय़युर्वीरा वीक्षमाणाः परस्परम् |
२२ क
वैशम्पाय़न उवाच:
भय़ार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम् ||
२२ ख
वैशम्पाय़न उवाच:
समेत्य वीरा राजानं तदा त्वनुदिते रवौ |
२३ क
वैशम्पाय़न उवाच:
विप्रजग्मुर्महाराज यथेच्छकमरिन्दमाः ||
२३ ख