भीम उवाच:
श्रोत्रिय़स्येव ते राजन्मन्दकस्याविपश्चितः |
१ क
भीम उवाच:
अनुवाकहतावुद्धिर्नैषा तत्त्वार्थदर्शिनी ||
१ ख
भीम उवाच:
आलस्ये कृतचित्तस्य राजधर्मानसूय़तः |
२ क
भीम उवाच:
विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ ||
२ ख
भीम उवाच:
क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते |
३ क
भीम उवाच:
क्षात्रमाचरतो मार्गमपि वन्धोस्त्वदन्तरे ||
३ ख
भीम उवाच:
यदीमां भवतो वुद्धिं विद्याम वय़मीदृशीम् |
४ क
भीम उवाच:
शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कञ्चन ||
४ ख
भीम उवाच:
भैक्ष्यमेवाचरिष्याम शरीरस्या विमोक्षणात् |
५ क
भीम उवाच:
न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम् ||
५ ख
भीम उवाच:
प्राणस्यान्नमिदं सर्वमिति वै कवय़ो विदुः |
६ क
भीम उवाच:
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ||
६ ख
भीम उवाच:
आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः |
७ क
भीम उवाच:
हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः ||
७ ख
भीम उवाच:
ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः |
८ क
भीम उवाच:
तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम् ||
८ ख
भीम उवाच:
यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम् |
९ क
भीम उवाच:
पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम् ||
९ ख
भीम उवाच:
यथारुह्य महावृक्षमपहृत्य ततो मधु |
१० क
भीम उवाच:
अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् ||
१० ख
भीम उवाच:
यथा महान्तमध्वानमाशय़ा पुरुषः पतन् |
११ क
भीम उवाच:
स निराशो निवर्तेत कर्मेदं नस्तथोपमम् ||
११ ख
भीम उवाच:
यथा शत्रून्घातय़ित्वा पुरुषः कुरुसत्तम |
१२ क
भीम उवाच:
आत्मानं घातय़ेत्पश्चात्कर्मेदं नस्तथाविधम् ||
१२ ख
भीम उवाच:
यथान्नं क्षुधितो लव्ध्वा न भुञ्जीत यदृच्छय़ा |
१३ क
भीम उवाच:
कामी च कामिनीं लव्ध्वा कर्मेदं नस्तथाविधम् ||
१३ ख
भीम उवाच:
वय़मेवात्र गर्ह्या हि ये वय़ं मन्दचेतसः |
१४ क
भीम उवाच:
त्वां राजन्ननुगच्छामो ज्येष्ठोऽय़मिति भारत ||
१४ ख
भीम उवाच:
वय़ं हि वाहुवलिनः कृतविद्या मनस्विनः |
१५ क
भीम उवाच:
क्लीवस्य वाक्ये तिष्ठामो यथैवाशक्तय़स्तथा ||
१५ ख
भीम उवाच:
अगतीन्कागतीनस्मान्नष्टार्थानर्थसिद्धय़े |
१६ क
भीम उवाच:
कथं वै नानुपश्येय़ुर्जनाः पश्यन्ति यादृशम् ||
१६ ख
भीम उवाच:
आपत्काले हि संन्यासः कर्तव्य इति शिष्यते |
१७ क
भीम उवाच:
जरय़ाभिपरीतेन शत्रुभिर्व्यंसितेन च ||
१७ ख
भीम उवाच:
तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते |
१८ क
भीम उवाच:
धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः ||
१८ ख
भीम उवाच:
कथं तस्मात्समुत्पन्नस्तन्निष्ठस्तदुपाश्रय़ः |
१९ क
भीम उवाच:
तदेव निन्दन्नासीत श्रद्धा वान्यत्र गृह्यते ||
१९ ख
भीम उवाच:
श्रिय़ा विहीनैरधनैर्नास्तिकैः सम्प्रवर्तितम् |
२० क
भीम उवाच:
वेदवादस्य विज्ञानं सत्याभासमिवानृतम् ||
२० ख
भीम उवाच:
शक्यं तु मौण्ड्यमास्थाय़ विभ्रतात्मानमात्मना |
२१ क
भीम उवाच:
धर्मच्छद्म समास्थाय़ आसितुं न तु जीवितुम् ||
२१ ख
भीम उवाच:
शक्यं पुनररण्येषु सुखमेकेन जीवितुम् |
२२ क
भीम उवाच:
अविभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् ||
२२ ख
भीम उवाच:
नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः |
२३ क
भीम उवाच:
अथैतेन प्रकारेण पुण्यमाहुर्न ताञ्जनाः ||
२३ ख
भीम उवाच:
यदि संन्यासतः सिद्धिं राजन्कश्चिदवाप्नुय़ात् |
२४ क
भीम उवाच:
पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुय़ुः ||
२४ ख
भीम उवाच:
एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः |
२५ क
भीम उवाच:
अपरिग्रहवन्तश्च सततं चात्मचारिणः ||
२५ ख
भीम उवाच:
अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते |
२६ क
भीम उवाच:
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ||
२६ ख
भीम उवाच:
औदकाः सृष्टय़श्चैव जन्तवः सिद्धिमाप्नुय़ुः |
२७ क
भीम उवाच:
येषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते ||
२७ ख
भीम उवाच:
अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत् |
२८ क
भीम उवाच:
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ||
२८ ख