इन्द्र उवाच:
एवमेतद्व्रह्मवलं गरीय़ो; न व्रह्मतः किञ्चिदन्यद्गरीय़ः |
१ क
इन्द्र उवाच:
आविक्षितस्य तु वलं न मृष्ये; वज्रमस्मै प्रहरिष्यामि घोरम् ||
१ ख
इन्द्र उवाच:
धृतराष्ट्र प्रहितो गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व |
२ क
इन्द्र उवाच:
वृहस्पतिं त्वमुपशिक्षस्व राज; न्वज्रं वा ते प्रहरिष्यामि घोरम् ||
२ ख
व्यास उवाच:
ततो गत्वा धृतराष्ट्रो नरेन्द्रं; प्रोवाचेदं वचनं वासवस्य |
३ क
व्यास उवाच:
गन्धर्वं मां धृतराष्ट्रं निवोध; त्वामागतं वक्तुकामं नरेन्द्र ||
३ ख
व्यास उवाच:
ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत्प्राह लोकाधिपतिर्महात्मा |
४ क
व्यास उवाच:
वृहस्पतिं याजकं त्वं वृणीष्व; वज्रं वा ते प्रहरिष्यामि घोरम् |
४ ख
व्यास उवाच:
वचश्चेदेतन्न करिष्यसे मे; प्राहैतदेतावदचिन्त्यकर्मा ||
४ ग
मरुत्त उवाच:
त्वं चैवैतद्वेत्थ पुरन्दरश्च; विश्वेदेवा वसवश्चाश्विनौ च |
५ क
मरुत्त उवाच:
मित्रद्रोहे निष्कृतिर्वै यथैव; नास्तीति लोकेषु सदैव वादः ||
५ ख
मरुत्त उवाच:
वृहस्पतिर्याजय़िता महेन्द्रं; देवश्रेष्ठं वज्रभृतां वरिष्ठम् |
६ क
मरुत्त उवाच:
संवर्तो मां याजय़िताद्य राज; न्न ते वाक्यं तस्य वा रोचय़ामि ||
६ ख
गन्धर्व उवाच:
घोरो नादः श्रूय़ते वासवस्य; नभस्तले गर्जतो राजसिंह |
७ क
गन्धर्व उवाच:
व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः; क्षेमं राजंश्चिन्त्यतामेष कालः ||
७ ख
व्यास उवाच:
इत्येवमुक्तो धृतराष्ट्रेण राजा; श्रुत्वा नादं नदतो वासवस्य |
८ क
व्यास उवाच:
तपोनित्यं धर्मविदां वरिष्ठं; संवर्तं तं ज्ञापय़ामास कार्यम् ||
८ ख
मरुत्त उवाच:
इममश्मानं प्लवमानमारा; दध्वा दूरं तेन न दृश्यतेऽद्य |
९ क
मरुत्त उवाच:
प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः; प्रय़च्छ तस्मादभय़ं विप्रमुख्य ||
९ ख
मरुत्त उवाच:
अय़माय़ाति वै वज्री दिशो विद्योतय़न्दश |
१० क
मरुत्त उवाच:
अमानुषेण घोरेण सदस्यास्त्रासिता हि नः ||
१० ख
संवर्त उवाच:
भय़ं शक्राद्व्येतु ते राजसिंह; प्रणोत्स्येऽहं भय़मेतत्सुघोरम् |
११ क
संवर्त उवाच:
संस्तम्भिन्या विद्यया क्षिप्रमेव; मा भैस्त्वमस्माद्भव चापि प्रतीतः ||
११ ख
संवर्त उवाच:
अहं संस्तम्भय़िष्यामि मा भैस्त्वं शक्रतो नृप |
१२ क
संवर्त उवाच:
सर्वेषामेव देवानां क्षपितान्याय़ुधानि मे ||
१२ ख
संवर्त उवाच:
दिशो वज्रं व्रजतां वाय़ुरेतु; वर्षं भूत्वा निपततु काननेषु |
१३ क
संवर्त उवाच:
आपः प्लवन्त्वन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा विभस्त्वम् ||
१३ ख
संवर्त उवाच:
अथो वह्निस्त्रातु वा सर्वतस्ते; कामं वर्षं वर्षतु वासवो वा |
१४ क
संवर्त उवाच:
वज्रं तथा स्थापय़तां च वाय़ु; र्महाघोरं प्लवमानं जलौघैः ||
१४ ख
मरुत्त उवाच:
घोरः शव्दः श्रूय़ते वै महास्वनो; वज्रस्यैष सहितो मारुतेन |
१५ क
मरुत्त उवाच:
आत्मा हि मे प्रव्यथते मुहुर्मुहु; र्न मे स्वास्थ्यं जाय़ते चाद्य विप्र ||
१५ ख
संवर्त उवाच:
वज्रादुग्राद्व्येतु भय़ं तवाद्य; वातो भूत्वा हन्मि नरेन्द्र वज्रम् |
१६ क
संवर्त उवाच:
भय़ं त्यक्त्वा वरमन्यं वृणीष्व; कं ते कामं तपसा साधय़ामि ||
१६ ख
मरुत्त उवाच:
इन्द्रः साक्षात्सहसाभ्येतु विप्र; हविर्यज्ञे प्रतिगृह्णातु चैव |
१७ क
मरुत्त उवाच:
स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सोमं प्रतिगृह्णन्तु चैव ||
१७ ख
संवर्त उवाच:
अय़मिन्द्रो हरिभिराय़ाति राज; न्देवैः सर्वैः सहितः सोमपीथी |
१८ क
संवर्त उवाच:
मन्त्राहूतो यज्ञमिमं मय़ाद्य; पश्यस्वैनं मन्त्रविस्रस्तकाय़म् ||
१८ ख
व्यास उवाच:
ततो देवैः सहितो देवराजो; रथे युक्त्वा तान्हरीन्वाजिमुख्यान् |
१९ क
व्यास उवाच:
आय़ाद्यज्ञमधि राज्ञः पिपासु; राविक्षितस्याप्रमेय़स्य सोमम् ||
१९ ख
व्यास उवाच:
तमाय़ान्तं सहितं देवसङ्घैः; प्रत्युद्ययौ सपुरोधा मरुत्तः |
२० क
व्यास उवाच:
चक्रे पूजां देवराजाय़ चाग्र्यां; यथाशास्त्रं विधिवत्प्रीय़माणः ||
२० ख
संवर्त उवाच:
स्वागतं ते पुरुहूतेह विद्व; न्यज्ञोऽद्याय़ं संनिहिते त्वय़ीन्द्र |
२१ क
संवर्त उवाच:
शोशुभ्यते वलवृत्रघ्न भूय़ः; पिवस्व सोमं सुतमुद्यतं मय़ा ||
२१ ख
मरुत्त उवाच:
शिवेन मां पश्य नमश्च तेऽस्तु; प्राप्तो यज्ञः सफलं जीवितं मे |
२२ क
मरुत्त उवाच:
अय़ं यज्ञं कुरुते मे सुरेन्द्र; वृहस्पतेरवरो जन्मना यः ||
२२ ख
इन्द्र उवाच:
जानामि ते गुरुमेनं तपोधनं; वृहस्पतेरनुजं तिग्मतेजसम् |
२३ क
इन्द्र उवाच:
यस्याह्वानादागतोऽहं नरेन्द्र; प्रीतिर्मेऽद्य त्वय़ि मनुः प्रनष्टः ||
२३ ख
संवर्त उवाच:
यदि प्रीतस्त्वमसि वै देवराज; तस्मात्स्वय़ं शाधि यज्ञे विधानम् |
२४ क
संवर्त उवाच:
स्वय़ं सर्वान्कुरु मार्गान्सुरेन्द्र; जानात्वय़ं सर्वलोकश्च देव ||
२४ ख
व्यास उवाच:
एवमुक्तस्त्वाङ्गिरसेन शक्रः; समादिदेश स्वय़मेव देवान् |
२५ क
व्यास उवाच:
सभाः क्रिय़न्तामावसथाश्च मुख्याः; सहस्रशश्चित्रभौमाः समृद्धाः ||
२५ ख
व्यास उवाच:
कॢप्तस्थूणाः कुरुतारोहणानि; गन्धर्वाणामप्सरसां च शीघ्रम् |
२६ क
व्यास उवाच:
येषु नृत्येरन्नप्सरसः सहस्रशः; स्वर्गोद्देशः क्रिय़तां यज्ञवाटः ||
२६ ख
व्यास उवाच:
इत्युक्तास्ते चक्रुराशु प्रतीता; दिवौकसः शक्रवाक्यान्नरेन्द्र |
२७ क
व्यास उवाच:
ततो वाक्यं प्राह राजानमिन्द्रः; प्रीतो राजन्पूजय़ानो मरुत्तम् ||
२७ ख
व्यास उवाच:
एष त्वय़ाहमिह राजन्समेत्य; ये चाप्यन्ये तव पूर्वे नरेन्द्राः |
२८ क
व्यास उवाच:
सर्वाश्चान्या देवताः प्रीय़माणा; हविस्तुभ्यं प्रतिगृह्णन्तु राजन् ||
२८ ख
व्यास उवाच:
आग्नेय़ं वै लोहितमालभन्तां; वैश्वदेवं वहुरूपं विराजन् |
२९ क
व्यास उवाच:
नीलं चोक्षाणं मेध्यमभ्यालभन्तां; चलच्छिश्नं मत्प्रदिष्टं द्विजेन्द्राः ||
२९ ख
व्यास उवाच:
ततो यज्ञो ववृधे तस्य राज्ञो; यत्र देवाः स्वय़मन्नानि जह्रुः |
३० क
व्यास उवाच:
यस्मिञ्शक्रो व्राह्मणैः पूज्यमानः; सदस्योऽभूद्धरिमान्देवराजः ||
३० ख
व्यास उवाच:
ततः संवर्तश्चित्यगतो महात्मा; यथा वह्निः प्रज्वलितो द्वितीय़ः |
३१ क
व्यास उवाच:
हवींष्युच्चैराह्वय़न्देवसङ्घा; ञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः ||
३१ ख
व्यास उवाच:
ततः पीत्वा वलभित्सोममग्र्यं; ये चाप्यन्ये सोमपा वै दिवौकसः |
३२ क
व्यास उवाच:
सर्वेऽनुज्ञाताः प्रय़युः पार्थिवेन; यथाजोषं तर्पिताः प्रीतिमन्तः ||
३२ ख
व्यास उवाच:
ततो राजा जातरूपस्य राशी; न्पदे पदे कारय़ामास हृष्टः |
३३ क
व्यास उवाच:
द्विजातिभ्यो विसृजन्भूरि वित्तं; रराज वित्तेश इवारिहन्ता ||
३३ ख
व्यास उवाच:
ततो वित्तं विविधं संनिधाय़; यथोत्साहं कारय़ित्वा च कोशम् |
३४ क
व्यास उवाच:
अनुज्ञातो गुरुणा संनिवृत्य; शशास गामखिलां सागरान्ताम् ||
३४ ख
व्यास उवाच:
एवङ्गुणः सम्वभूवेह राजा; यस्य क्रतौ तत्सुवर्णं प्रभूतम् |
३५ क
व्यास उवाच:
तत्त्वं समादाय़ नरेन्द्र वित्तं; यजस्व देवांस्तर्पय़ानो विधानैः ||
३५ ख
वैशम्पाय़न उवाच:
ततो राजा पाण्डवो हृष्टरूपः; श्रुत्वा वाक्यं सत्यवत्याः सुतस्य |
३६ क
वैशम्पाय़न उवाच:
मनश्चक्रे तेन वित्तेन यष्टुं; ततोऽमात्यैर्मन्त्रय़ामास भूय़ः ||
३६ ख