chevron_left सभा पर्व अध्याय १०
नारद उवाच:
सभा वैश्रवणी राजञ्शतय़ोजनमाय़ता |
१ क
नारद उवाच:
विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा ||
१ ख
नारद उवाच:
तपसा निर्मिता राजन्स्वय़ं वैश्रवणेन सा |
२ क
नारद उवाच:
शशिप्रभा खेचरीणां कैलासशिखरोपमा ||
२ ख
नारद उवाच:
गुह्यकैरुह्यमाना सा खे विषक्तेव दृश्यते |
३ क
नारद उवाच:
दिव्या हेममय़ैरुच्चैः पादपैरुपशोभिता ||
३ ख
नारद उवाच:
रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा |
४ क
नारद उवाच:
सिताभ्रशिखराकारा प्लवमानेव दृश्यते ||
४ ख
नारद उवाच:
तस्यां वैश्रवणो राजा विचित्राभरणाम्वरः |
५ क
नारद उवाच:
स्त्रीसहस्रावृतः श्रीमानास्ते ज्वलितकुण्डलः ||
५ ख
नारद उवाच:
दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते |
६ क
नारद उवाच:
दिव्यपादोपधाने च निषण्णः परमासने ||
६ ख
नारद उवाच:
मन्दाराणामुदाराणां वनानि सुरभीणि च |
७ क
नारद उवाच:
सौगन्धिकानां चादाय़ गन्धान्गन्धवहः शुचिः ||
७ ख
नारद उवाच:
नलिन्याश्चालकाख्याय़ाश्चन्दनानां वनस्य च |
८ क
नारद उवाच:
मनोहृदय़संह्लादी वाय़ुस्तमुपसेवते ||
८ ख
नारद उवाच:
तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः |
९ क
नारद उवाच:
दिव्यतानेन गीतानि गान्ति दिव्यानि भारत ||
९ ख
नारद उवाच:
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता |
१० क
नारद उवाच:
चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला ||
१० ख
नारद उवाच:
विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा |
११ क
नारद उवाच:
वर्गा च सौरभेय़ी च समीची वुद्वुदा लता ||
११ ख
नारद उवाच:
एताः सहस्रशश्चान्या नृत्तगीतविशारदाः |
१२ क
नारद उवाच:
उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः ||
१२ ख
नारद उवाच:
अनिशं दिव्यवादित्रैर्नृत्तैर्गीतैश्च सा सभा |
१३ क
नारद उवाच:
अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः ||
१३ ख
नारद उवाच:
किंनरा नाम गन्धर्वा नरा नाम तथापरे |
१४ क
नारद उवाच:
मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः ||
१४ ख
नारद उवाच:
कशेरको गण्डकण्डुः प्रद्योतश्च महावलः |
१५ क
नारद उवाच:
कुस्तुम्वुरुः पिशाचश्च गजकर्णो विशालकः ||
१५ ख
नारद उवाच:
वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः |
१६ क
नारद उवाच:
अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः ||
१६ ख
नारद उवाच:
पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः |
१७ क
नारद उवाच:
वृक्षवास्यनिकेतश्च चीरवासाश्च भारत ||
१७ ख
नारद उवाच:
एते चान्ये च वहवो यक्षाः शतसहस्रशः |
१८ क
नारद उवाच:
सदा भगवती च श्रीस्तथैव नलकूवरः ||
१८ ख
नारद उवाच:
अहं च वहुशस्तस्यां भवन्त्यन्ये च मद्विधाः |
१९ क
नारद उवाच:
आचार्याश्चाभवंस्तत्र तथा देवर्षय़ोऽपरे ||
१९ ख
नारद उवाच:
भगवान्भूतसङ्घैश्च वृतः शतसहस्रशः |
२० क
नारद उवाच:
उमापतिः पशुपतिः शूलधृग्भगनेत्रहा ||
२० ख
नारद उवाच:
त्र्यम्वको राजशार्दूल देवी च विगतक्लमा |
२१ क
नारद उवाच:
वामनैर्विकटैः कुव्जैः क्षतजाक्षैर्मनोजवैः ||
२१ ख
नारद उवाच:
मांसमेदोवसाहारैरुग्रश्रवणदर्शनैः |
२२ क
नारद उवाच:
नानाप्रहरणैर्घोरैर्वातैरिव महाजवैः |
२२ ख
नारद उवाच:
वृतः सखाय़मन्वास्ते सदैव धनदं नृप ||
२२ ग
नारद उवाच:
सा सभा तादृशी राजन्मय़ा दृष्टान्तरिक्षगा |
२३ क
नारद उवाच:
पितामहसभां राजन्कथय़िष्ये गतक्लमाम् ||
२३ ख