chevron_left वन पर्व अध्याय १०
धृतराष्ट्र उवाच:
भगवन्नाहमप्येतद्रोचय़े द्यूतसंस्तवम् |
१ क
धृतराष्ट्र उवाच:
मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने ||
१ ख
धृतराष्ट्र उवाच:
नैतद्रोचय़ते भीष्मो न द्रोणो विदुरो न च |
२ क
धृतराष्ट्र उवाच:
गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् ||
२ ख
धृतराष्ट्र उवाच:
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् |
३ क
धृतराष्ट्र उवाच:
पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ||
३ ख
व्यास उवाच:
वैचित्रवीर्य नृपते सत्यमाह यथा भवान् |
४ क
व्यास उवाच:
दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते ||
४ ख
व्यास उवाच:
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिवोधितः |
५ क
व्यास उवाच:
अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् ||
५ ख
व्यास उवाच:
अत्र ते वर्तय़िष्यामि महदाख्यानमुत्तमम् |
६ क
व्यास उवाच:
सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते ||
६ ख
व्यास उवाच:
त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल |
७ क
व्यास उवाच:
गवां मात पुरा तात तामिन्द्रोऽन्वकृपाय़त ||
७ ख
इन्द्र उवाच:
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् |
८ क
इन्द्र उवाच:
मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति ||
८ ख
सुरभिरु उवाच:
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप |
९ क
सुरभिरु उवाच:
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ||
९ ख
सुरभिरु उवाच:
पश्यैनं कर्षकं रौद्रं दुर्वलं मम पुत्रकम् |
१० क
सुरभिरु उवाच:
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् ||
१० ख
सुरभिरु उवाच:
एतं दृष्ट्वा भृशं श्रन्तं वध्यमानं सुराधिप |
११ क
सुरभिरु उवाच:
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम ||
११ ख
सुरभिरु उवाच:
एकस्तत्र वलोपेतो धुरमुद्वहतेऽधिकाम् |
१२ क
सुरभिरु उवाच:
अपरोऽल्पवलप्राणः कृशो धमनिसन्ततः |
१२ ख
सुरभिरु उवाच:
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ||
१२ ग
सुरभिरु उवाच:
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः |
१३ क
सुरभिरु उवाच:
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ||
१३ ख
सुरभिरु उवाच:
ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता |
१४ क
सुरभिरु उवाच:
अश्रूण्यावर्तय़न्ती च नेत्राभ्यां करुणाय़ती ||
१४ ख
इन्द्र उवाच:
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने |
१५ क
इन्द्र उवाच:
किं कृपाय़ितमस्त्यत्र पुत्र एकोऽत्र पीड्यते ||
१५ ख
सुरभिरु उवाच:
यदि पुत्रसहस्रं मे सर्वत्र सममेव मे |
१६ क
सुरभिरु उवाच:
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा ||
१६ ख
व्यास उवाच:
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः |
१७ क
व्यास उवाच:
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ||
१७ ख
व्यास उवाच:
प्रववर्ष च तत्रैव सहसा तोय़मुल्वणम् |
१८ क
व्यास उवाच:
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ||
१८ ख
व्यास उवाच:
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा |
१९ क
व्यास उवाच:
सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा ||
१९ ख
व्यास उवाच:
यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक |
२० क
व्यास उवाच:
विदुरश्च महाप्राज्ञः स्नेहादेतद्व्रवीम्यहम् ||
२० ख
व्यास उवाच:
चिराय़ तव पुत्राणां शतमेकश्च पार्थिव |
२१ क
व्यास उवाच:
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः ||
२१ ख
व्यास उवाच:
कथं जीवेय़ुरत्यन्तं कथं वर्धेय़ुरित्यपि |
२२ क
व्यास उवाच:
इति दीनेषु पार्थेषु मनो मे परितप्यते ||
२२ ख
व्यास उवाच:
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि |
२३ क
व्यास उवाच:
दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ||
२३ ख