chevron_left विराट पर्व अध्याय १०
वैशम्पाय़न उवाच:
अथापरोऽदृश्यत रूपसम्पदा; स्त्रीणामलङ्कारधरो वृहत्पुमान् |
१ क
वैशम्पाय़न उवाच:
प्राकारवप्रे प्रतिमुच्य कुण्डले; दीर्घे च कम्वू परिहाटके शुभे ||
१ ख
वैशम्पाय़न उवाच:
वहूंश्च दीर्घांश्च विकीर्य मूर्धजा; न्महाभुजो वारणमत्तविक्रमः |
२ क
वैशम्पाय़न उवाच:
गतेन भूमिमभिकम्पय़ंस्तदा; विराटमासाद्य सभासमीपतः ||
२ ख
वैशम्पाय़न उवाच:
तं प्रेक्ष्य राजोपगतं सभातले; सत्रप्रतिच्छन्नमरिप्रमाथिनम् |
३ क
वैशम्पाय़न उवाच:
विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम् ||
३ ख
वैशम्पाय़न उवाच:
सर्वानपृच्छच्च समीपचारिणः; कुतोऽय़माय़ाति न मे पुरा श्रुतः |
४ क
वैशम्पाय़न उवाच:
न चैनमूचुर्विदितं तदा नराः; सविस्मितं वाक्यमिदं नृपोऽव्रवीत् ||
४ ख
वैशम्पाय़न उवाच:
सर्वोपपन्नः पुरुषो मनोरमः; श्यामो युवा वारणय़ूथपोपमः |
५ क
वैशम्पाय़न उवाच:
विमुच्य कम्वू परिहाटके शुभे; विमुच्य वेणीमपिनह्य कुण्डले ||
५ ख
वैशम्पाय़न उवाच:
शिखी सुकेशः परिधाय़ चान्यथा; भवस्व धन्वी कवची शरी तथा |
६ क
वैशम्पाय़न उवाच:
आरुह्य यानं परिधावतां भवा; न्सुतैः समो मे भव वा मय़ा समः ||
६ ख
वैशम्पाय़न उवाच:
वृद्धो ह्यहं वै परिहारकामः; सर्वान्मत्स्यांस्तरसा पालय़स्व |
७ क
वैशम्पाय़न उवाच:
नैवंविधाः क्लीवरूपा भवन्ति; कथञ्चनेति प्रतिभाति मे मनः ||
७ ख
अर्जुन उवाच:
गाय़ामि नृत्याम्यथ वादय़ामि; भद्रोऽस्मि नृत्ते कुशलोऽस्मि गीते |
८ क
अर्जुन उवाच:
त्वमुत्तराय़ाः परिदत्स्व मां स्वय़ं; भवामि देव्या नरदेव नर्तकः ||
८ ख
अर्जुन उवाच:
इदं तु रूपं मम येन किं नु त; त्प्रकीर्तय़ित्वा भृशशोकवर्धनम् |
९ क
अर्जुन उवाच:
वृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम् ||
९ ख
विराट उवाच:
ददामि ते हन्त वरं वृहन्नडे; सुतां च मे नर्तय़ याश्च तादृशीः |
१० क
विराट उवाच:
इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं त्वमर्हसि ||
१० ख
वैशम्पाय़न उवाच:
वृहन्नडां तामभिवीक्ष्य मत्स्यरा; ट्कलासु नृत्ते च तथैव वादिते |
११ क
वैशम्पाय़न उवाच:
अपुंस्त्वमप्यस्य निशम्य च स्थिरं; ततः कुमारीपुरमुत्ससर्ज तम् ||
११ ख
वैशम्पाय़न उवाच:
स शिक्षय़ामास च गीतवादितं; सुतां विराटस्य धनञ्जय़ः प्रभुः |
१२ क
वैशम्पाय़न उवाच:
सखीश्च तस्याः परिचारिकास्तथा; प्रिय़श्च तासां स वभूव पाण्डवः ||
१२ ख
वैशम्पाय़न उवाच:
तथा स सत्रेण धनञ्जय़ोऽवस; त्प्रिय़ाणि कुर्वन्सह ताभिरात्मवान् |
१३ क
वैशम्पाय़न उवाच:
तथागतं तत्र न जज्ञिरे जना; वहिश्चरा वाप्यथवान्तरेचराः ||
१३ ख