chevron_left उद्योग पर्व अध्याय १०
इन्द्र उवाच:
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम् |
१ क
इन्द्र उवाच:
न ह्यस्य सदृशं किञ्चित्प्रतिघाताय़ यद्भवेत् ||
१ ख
इन्द्र उवाच:
समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि साम्प्रतम् |
२ क
इन्द्र उवाच:
कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः ||
२ ख
इन्द्र उवाच:
तेजस्वी च महात्मा च युद्धे चामितविक्रमः |
३ क
इन्द्र उवाच:
ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम् ||
३ ख
इन्द्र उवाच:
तस्माद्विनिश्चय़मिमं शृणुध्वं मे दिवौकसः |
४ क
इन्द्र उवाच:
विष्णोः क्षय़मुपागम्य समेत्य च महात्मना |
४ ख
इन्द्र उवाच:
तेन संमन्त्र्य वेत्स्यामो वधोपाय़ं दुरात्मनः ||
४ ग
शल्य उवाच:
एवमुक्ते मघवता देवाः सर्षिगणास्तदा |
५ क
शल्य उवाच:
शरण्यं शरणं देवं जग्मुर्विष्णुं महावलम् ||
५ ख
शल्य उवाच:
ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभय़ार्दिताः |
६ क
शल्य उवाच:
त्वय़ा लोकास्त्रय़ः क्रान्तास्त्रिभिर्विक्रमणैः प्रभो ||
६ ख
शल्य उवाच:
अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे |
७ क
शल्य उवाच:
वलिं वद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः ||
७ ख
शल्य उवाच:
त्वं प्रभुः सर्वलोकानां त्वय़ा सर्वमिदं ततम् |
८ क
शल्य उवाच:
त्वं हि देव महादेवः सर्वलोकनमस्कृतः ||
८ ख
शल्य उवाच:
गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम |
९ क
शल्य उवाच:
जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन ||
९ ख
विष्णुरु उवाच:
अवश्यं करणीय़ं मे भवतां हितमुत्तमम् |
१० क
विष्णुरु उवाच:
तस्मादुपाय़ं वक्ष्यामि यथासौ न भविष्यति ||
१० ख
विष्णुरु उवाच:
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक् |
११ क
विष्णुरु उवाच:
साम तस्य प्रय़ुञ्जध्वं तत एनं विजेष्यथ ||
११ ख
विष्णुरु उवाच:
भविष्यति गतिर्देवाः शक्रस्य मम तेजसा |
१२ क
विष्णुरु उवाच:
अदृश्यश्च प्रवेक्ष्यामि वज्रमस्याय़ुधोत्तमम् ||
१२ ख
विष्णुरु उवाच:
गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः |
१३ क
विष्णुरु उवाच:
वृत्रस्य सह शक्रेण सन्धिं कुरुत माचिरम् ||
१३ ख
शल्य उवाच:
एवमुक्तास्तु देवेन ऋषय़स्त्रिदशास्तथा |
१४ क
शल्य उवाच:
यय़ुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् ||
१४ ख
शल्य उवाच:
समीपमेत्य च तदा सर्व एव महौजसः |
१५ क
शल्य उवाच:
तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश ||
१५ ख
शल्य उवाच:
ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा |
१६ क
शल्य उवाच:
ददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः ||
१६ ख
शल्य उवाच:
ऋषय़ोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रिय़ं वचः |
१७ क
शल्य उवाच:
व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय़ ||
१७ ख
शल्य उवाच:
न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम् |
१८ क
शल्य उवाच:
युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह ||
१८ ख
शल्य उवाच:
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः |
१९ क
शल्य उवाच:
सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा |
१९ ख
शल्य उवाच:
अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान् ||
१९ ग
शल्य उवाच:
ऋषिवाक्यं निशम्याथ स वृत्रः सुमहावलः |
२० क
शल्य उवाच:
उवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः ||
२० ख
शल्य उवाच:
सर्वे यूय़ं महाभागा गन्धर्वाश्चैव सर्वशः |
२१ क
शल्य उवाच:
यद्व्रूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः ||
२१ ख
शल्य उवाच:
सन्धिः कथं वै भविता मम शक्रस्य चोभय़ोः |
२२ क
शल्य उवाच:
तेजसोर्हि द्वय़ोर्देवाः सख्यं वै भविता कथम् ||
२२ ख
ऋषय़ ऊचुः:
सकृत्सतां सङ्गतं लिप्सितव्यं; ततः परं भविता भव्यमेव |
२३ क
ऋषय़ ऊचुः:
नातिक्रमेत्सत्पुरुषेण सङ्गतं; तस्मात्सतां सङ्गतं लिप्सितव्यम् ||
२३ ख
ऋषय़ ऊचुः:
दृढं सतां सङ्गतं चापि नित्यं; व्रूय़ाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः |
२४ क
ऋषय़ ऊचुः:
महार्थवत्सत्पुरुषेण सङ्गतं; तस्मात्सन्तं न जिघांसेत धीरः ||
२४ ख
ऋषय़ ऊचुः:
इन्द्रः सतां संमतश्च निवासश्च महात्मनाम् |
२५ क
ऋषय़ ऊचुः:
सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः ||
२५ ख
ऋषय़ ऊचुः:
तेन ते सह शक्रेण सन्धिर्भवतु शाश्वतः |
२६ क
ऋषय़ ऊचुः:
एवं विश्वासमागच्छ मा ते भूद्वुद्धिरन्यथा ||
२६ ख
शल्य उवाच:
महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः |
२७ क
शल्य उवाच:
अवश्यं भगवन्तो मे माननीय़ास्तपस्विनः ||
२७ ख
शल्य उवाच:
व्रवीमि यदहं देवास्तत्सर्वं क्रिय़तामिह |
२८ क
शल्य उवाच:
ततः सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः ||
२८ ख
शल्य उवाच:
न शुष्केण न चार्द्रेण नाश्मना न च दारुणा |
२९ क
शल्य उवाच:
न शस्त्रेण न वज्रेण न दिवा न तथा निशि ||
२९ ख
शल्य उवाच:
वध्यो भवेय़ं विप्रेन्द्राः शक्रस्य सह दैवतैः |
३० क
शल्य उवाच:
एवं मे रोचते सन्धिः शक्रेण सह नित्यदा ||
३० ख
शल्य उवाच:
वाढमित्येव ऋषय़स्तमूचुर्भरतर्षभ |
३१ क
शल्य उवाच:
एवं कृते तु सन्धाने वृत्रः प्रमुदितोऽभवत् ||
३१ ख
शल्य उवाच:
यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितः |
३२ क
शल्य उवाच:
वृत्रस्य वधसंय़ुक्तानुपाय़ाननुचिन्तय़न् |
३२ ख
शल्य उवाच:
रन्ध्रान्वेषी समुद्विग्नः सदाभूद्वलवृत्रहा ||
३२ ग
शल्य उवाच:
स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् |
३३ क
शल्य उवाच:
सन्ध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे ||
३३ ख
शल्य उवाच:
ततः सञ्चिन्त्य भगवान्वरदानं महात्मनः |
३४ क
शल्य उवाच:
सन्ध्येय़ं वर्तते रौद्रा न रात्रिर्दिवसं न च |
३४ ख
शल्य उवाच:
वृत्रश्चावश्यवध्योऽय़ं मम सर्वहरो रिपुः ||
३४ ग
शल्य उवाच:
यदि वृत्रं न हन्म्यद्य वञ्चय़ित्वा महासुरम् |
३५ क
शल्य उवाच:
महावलं महाकाय़ं न मे श्रेय़ो भविष्यति ||
३५ ख
शल्य उवाच:
एवं सञ्चिन्तय़न्नेव शक्रो विष्णुमनुस्मरन् |
३६ क
शल्य उवाच:
अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम् ||
३६ ख
शल्य उवाच:
नाय़ं शुष्को न चार्द्रोऽय़ं न च शस्त्रमिदं तथा |
३७ क
शल्य उवाच:
एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति ||
३७ ख
शल्य उवाच:
सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् |
३८ क
शल्य उवाच:
प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशय़त् ||
३८ ख
शल्य उवाच:
निहते तु ततो वृत्रे दिशो वितिमिराभवन् |
३९ क
शल्य उवाच:
प्रववौ च शिवो वाय़ुः प्रजाश्च जहृषुस्तदा ||
३९ ख
शल्य उवाच:
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः |
४० क
शल्य उवाच:
ऋषय़श्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः ||
४० ख
शल्य उवाच:
नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वय़न् |
४१ क
शल्य उवाच:
हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः |
४१ ख
शल्य उवाच:
विष्णुं त्रिभुवनश्रेष्ठं पूजय़ामास धर्मवित् ||
४१ ग
शल्य उवाच:
ततो हते महावीर्ये वृत्रे देवभय़ङ्करे |
४२ क
शल्य उवाच:
अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः |
४२ ख
शल्य उवाच:
त्रैशीर्षय़ाभिभूतश्च स पूर्वं व्रह्महत्यया ||
४२ ग
शल्य उवाच:
सोऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः |
४३ क
शल्य उवाच:
न प्राज्ञाय़त देवेन्द्रस्त्वभिभूतः स्वकल्मषैः |
४३ ख
शल्य उवाच:
प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः ||
४३ ग
शल्य उवाच:
ततः प्रनष्टे देवेन्द्रे व्रह्महत्याभय़ार्दिते |
४४ क
शल्य उवाच:
भूमिः प्रध्वस्तसङ्काशा निर्वृक्षा शुष्ककानना |
४४ ख
शल्य उवाच:
विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च ||
४४ ग
शल्य उवाच:
सङ्क्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत् |
४५ क
शल्य उवाच:
देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षय़ः ||
४५ ख
शल्य उवाच:
अराजकं जगत्सर्वमभिभूतमुपद्रवैः |
४६ क
शल्य उवाच:
ततो भीताभवन्देवाः को नो राजा भवेदिति ||
४६ ख