chevron_left भीष्म पर्व अध्याय १०
धृतराष्ट्र उवाच:
यदिदं भारतं वर्षं यत्रेदं मूर्छितं वलम् |
१ क
धृतराष्ट्र उवाच:
यत्रातिमात्रं लुव्धोऽय़ं पुत्रो दुर्योधनो मम ||
१ ख
धृतराष्ट्र उवाच:
यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः |
२ क
धृतराष्ट्र उवाच:
एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि सञ्जय़ ||
२ ख
सञ्जय़ उवाच:
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम |
३ क
सञ्जय़ उवाच:
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौवलः ||
३ ख
सञ्जय़ उवाच:
अपरे क्षत्रिय़ाश्चापि नानाजनपदेश्वराः |
४ क
सञ्जय़ उवाच:
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ||
४ ख
सञ्जय़ उवाच:
अत्र ते वर्णय़िष्यामि वर्षं भारत भारतम् |
५ क
सञ्जय़ उवाच:
प्रिय़मिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ||
५ ख
सञ्जय़ उवाच:
पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः |
६ क
सञ्जय़ उवाच:
यय़ातेरम्वरीषस्य मान्धातुर्नहुषस्य च ||
६ ख
सञ्जय़ उवाच:
तथैव मुचुकुन्दस्य शिवेरौशीनरस्य च |
७ क
सञ्जय़ उवाच:
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ||
७ ख
सञ्जय़ उवाच:
अन्येषां च महाराज क्षत्रिय़ाणां वलीय़साम् |
८ क
सञ्जय़ उवाच:
सर्वेषामेव राजेन्द्र प्रिय़ं भारत भारतम् ||
८ ख
सञ्जय़ उवाच:
तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिन्दम |
९ क
सञ्जय़ उवाच:
शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ||
९ ख
सञ्जय़ उवाच:
महेन्द्रो मलय़ः सह्यः शुक्तिमानृक्षवानपि |
१० क
सञ्जय़ उवाच:
विन्ध्यश्च पारिय़ात्रश्च सप्तैते कुलपर्वताः ||
१० ख
सञ्जय़ उवाच:
तेषां सहस्रशो राजन्पर्वतास्तु समीपतः |
११ क
सञ्जय़ उवाच:
अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ||
११ ख
सञ्जय़ उवाच:
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः |
१२ क
सञ्जय़ उवाच:
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ||
१२ ख
सञ्जय़ उवाच:
नदीः पिवन्ति वहुला गङ्गां सिन्धुं सरस्वतीम् |
१३ क
सञ्जय़ उवाच:
गोदावरीं नर्मदां च वाहुदां च महानदीम् ||
१३ ख
सञ्जय़ उवाच:
शतद्रुं चन्द्रभागां च यमुनां च महानदीम् |
१४ क
सञ्जय़ उवाच:
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ||
१४ ख
सञ्जय़ उवाच:
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम् |
१५ क
सञ्जय़ उवाच:
इरावतीं वितस्तां च पय़ोष्णीं देविकामपि ||
१५ ख
सञ्जय़ उवाच:
वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम् |
१६ क
सञ्जय़ उवाच:
करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् ||
१६ ख
सञ्जय़ उवाच:
गोमतीं धूतपापां च वन्दनां च महानदीम् |
१७ क
सञ्जय़ उवाच:
कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् ||
१७ ख
सञ्जय़ उवाच:
रथस्थां शतकुम्भां च सरय़ूं च नरेश्वर |
१८ क
सञ्जय़ उवाच:
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ||
१८ ख
सञ्जय़ उवाच:
शतावरीं पय़ोष्णीं च परां भैमरथीं तथा |
१९ क
सञ्जय़ उवाच:
कावेरीं चुलुकां चापि वापीं शतवलामपि ||
१९ ख
सञ्जय़ उवाच:
निचीरां महितां चापि सुप्रय़ोगां नराधिप |
२० क
सञ्जय़ उवाच:
पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् ||
२० ख
सञ्जय़ उवाच:
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा |
२१ क
सञ्जय़ उवाच:
पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम् ||
२१ ख
सञ्जय़ उवाच:
पारिषेणामसिक्नीं च सरलां भारमर्दिनीम् |
२२ क
सञ्जय़ उवाच:
पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा ||
२२ ख
सञ्जय़ उवाच:
धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव |
२३ क
सञ्जय़ उवाच:
सदानीरामधृष्यां च कुशधारां महानदीम् ||
२३ ख
सञ्जय़ उवाच:
शशिकान्तां शिवां चैव तथा वीरवतीमपि |
२४ क
सञ्जय़ उवाच:
वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् ||
२४ ख
सञ्जय़ उवाच:
हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम् |
२५ क
सञ्जय़ उवाच:
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ||
२५ ख
सञ्जय़ उवाच:
उपेन्द्रां वहुलां चैव कुचरामम्वुवाहिनीम् |
२६ क
सञ्जय़ उवाच:
वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् ||
२६ ख
सञ्जय़ उवाच:
विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि |
२७ क
सञ्जय़ उवाच:
शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् ||
२७ ख
सञ्जय़ उवाच:
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् |
२८ क
सञ्जय़ उवाच:
कौशिकीं निम्नगां शोणां वाहुदामथ चन्दनाम् ||
२८ ख
सञ्जय़ उवाच:
दुर्गामन्तःशिलां चैव व्रह्ममेध्यां वृहद्वतीम् |
२९ क
सञ्जय़ उवाच:
चरक्षां महिरोहीं च तथा जम्वुनदीमपि ||
२९ ख
सञ्जय़ उवाच:
सुनसां तमसां दासीं त्रसामन्यां वराणसीम् |
३० क
सञ्जय़ उवाच:
लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् ||
३० ख
सञ्जय़ उवाच:
मानवीं वृषभां चैव महानद्यो जनाधिप |
३१ क
सञ्जय़ उवाच:
सदानिरामय़ां वृत्यां मन्दगां मन्दवाहिनीम् ||
३१ ख
सञ्जय़ उवाच:
व्रह्माणीं च महागौरीं दुर्गामपि च भारत |
३२ क
सञ्जय़ उवाच:
चित्रोपलां चित्रवर्हां मञ्जुं मकरवाहिनीम् ||
३२ ख
सञ्जय़ उवाच:
मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् |
३३ क
सञ्जय़ उवाच:
शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् ||
३३ ख
सञ्जय़ उवाच:
लोहित्यां करतोय़ां च तथैव वृषभङ्गिनीम् |
३४ क
सञ्जय़ उवाच:
कुमारीमृषिकुल्यां च व्रह्मकुल्यां च भारत ||
३४ ख
सञ्जय़ उवाच:
सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष |
३५ क
सञ्जय़ उवाच:
विश्वस्य मातरः सर्वाः सर्वाश्चैव महावलाः ||
३५ ख
सञ्जय़ उवाच:
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः |
३६ क
सञ्जय़ उवाच:
इत्येताः सरितो राजन्समाख्याता यथास्मृति ||
३६ ख
सञ्जय़ उवाच:
अत ऊर्ध्वं जनपदान्निवोध गदतो मम |
३७ क
सञ्जय़ उवाच:
तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेय़जाङ्गलाः ||
३७ ख
सञ्जय़ उवाच:
शूरसेनाः कलिङ्गाश्च वोधा मौकास्तथैव च |
३८ क
सञ्जय़ उवाच:
मत्स्याः सुकुट्यः सौवल्याः कुन्तलाः काशिकोशलाः ||
३८ ख
सञ्जय़ उवाच:
चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः |
३९ क
सञ्जय़ उवाच:
उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह ||
३९ ख
सञ्जय़ उवाच:
पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगन्धराः |
४० क
सञ्जय़ उवाच:
सौधा मद्रा भुजिङ्गाश्च काशय़ोऽपरकाशय़ः ||
४० ख
सञ्जय़ उवाच:
जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत |
४१ क
सञ्जय़ उवाच:
कुन्तय़ोऽवन्तय़श्चैव तथैवापरकुन्तय़ः ||
४१ ख
सञ्जय़ उवाच:
गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः |
४२ क
सञ्जय़ उवाच:
अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः ||
४२ ख
सञ्जय़ उवाच:
आदिराष्ट्राः सुकुट्टाश्च वलिराष्ट्रं च केवलम् |
४३ क
सञ्जय़ उवाच:
वानरास्याः प्रवाहाश्च वक्रा वक्रभय़ाः शकाः ||
४३ ख
सञ्जय़ उवाच:
विदेहका मागधाश्च सुह्माश्च विजय़ास्तथा |
४४ क
सञ्जय़ उवाच:
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च ||
४४ ख
सञ्जय़ उवाच:
मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः |
४५ क
सञ्जय़ उवाच:
वाहीका वाटधानाश्च आभीराः कालतोय़काः ||
४५ ख
सञ्जय़ उवाच:
अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः |
४६ क
सञ्जय़ उवाच:
अटवीशवराश्चैव मरुभौमाश्च मारिष ||
४६ ख
सञ्जय़ उवाच:
उपावृश्चानुपावृश्चसुराष्ट्राः केकय़ास्तथा |
४७ क
सञ्जय़ उवाच:
कुट्टापरान्ता द्वैधेय़ाः काक्षाः सामुद्रनिष्कुटाः ||
४७ ख
सञ्जय़ उवाच:
अन्ध्राश्च वहवो राजन्नन्तर्गिर्यास्तथैव च |
४८ क
सञ्जय़ उवाच:
वहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः ||
४८ ख
सञ्जय़ उवाच:
मह्युत्तराः प्रावृषेय़ा भार्गवाश्च जनाधिप |
४९ क
सञ्जय़ उवाच:
पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा ||
४९ ख
सञ्जय़ उवाच:
शका निषादा निषधास्तथैवानर्तनैरृताः |
५० क
सञ्जय़ उवाच:
दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा ||
५० ख