सञ्जय़ उवाच:
श्रुतकर्मा महाराज चित्रसेनं महीपतिम् |
१ क
सञ्जय़ उवाच:
आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः ||
१ ख
सञ्जय़ उवाच:
अभिसारस्तु तं राजा नवभिर्निशितैः शरैः |
२ क
सञ्जय़ उवाच:
श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः ||
२ ख
सञ्जय़ उवाच:
श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे |
३ क
सञ्जय़ उवाच:
नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दय़त् ||
३ ख
सञ्जय़ उवाच:
एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महाय़शाः |
४ क
सञ्जय़ उवाच:
नवत्या जगतीपालं छादय़ामास पत्रिभिः ||
४ ख
सञ्जय़ उवाच:
प्रतिलव्य ततः सञ्ज्ञां चित्रसेनो महारथः |
५ क
सञ्जय़ उवाच:
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ||
५ ख
सञ्जय़ उवाच:
सोऽन्यत्कार्मुकमादाय़ वेगघ्नं रुक्मभूषणम् |
६ क
सञ्जय़ उवाच:
चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः ||
६ ख
सञ्जय़ उवाच:
स शरैश्चित्रितो राजंश्चित्रमाल्यधरो युवा |
७ क
सञ्जय़ उवाच:
युवेव समशोभत्स गोष्ठीमध्ये स्वलङ्कृतः ||
७ ख
सञ्जय़ उवाच:
श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे |
८ क
सञ्जय़ उवाच:
विभेद समरे क्रुद्धस्तिष्ठ तिष्ठेति चाव्रवीत् ||
८ ख
सञ्जय़ उवाच:
श्रुतकर्मापि समरे नाराचेन समर्दितः |
९ क
सञ्जय़ उवाच:
सुस्राव रुधिरं भूरि गैरिकाम्भ इवाचलः ||
९ ख
सञ्जय़ उवाच:
ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः |
१० क
सञ्जय़ उवाच:
रराज समरे राजन्सपुष्प इव किंशुकः ||
१० ख
सञ्जय़ उवाच:
श्रुतकर्मा ततो राजञ्शत्रूणां समभिद्रुतः |
११ क
सञ्जय़ उवाच:
शत्रुसंवरणं कृत्वा द्विधा चिच्छेद कार्मुकम् ||
११ ख
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं नाराचानां त्रिभिः शतैः |
१२ क
सञ्जय़ उवाच:
विव्याध भरतश्रेष्ठ श्रुतकर्मा महाय़शाः ||
१२ ख
सञ्जय़ उवाच:
ततोऽपरेण भल्लेन भृशं तीक्ष्णेन सत्वरः |
१३ क
सञ्जय़ उवाच:
जहार सशिरस्त्राणं शिरस्तस्य महात्मनः ||
१३ ख
सञ्जय़ उवाच:
तच्छिरो न्यपतद्भूमौ सुमहच्चित्रवर्मणः |
१४ क
सञ्जय़ उवाच:
यदृच्छय़ा यथा चन्द्रश्च्युतः स्वर्गान्महीतले ||
१४ ख
सञ्जय़ उवाच:
राजानं निहतं दृष्ट्वा अभिसारं च मारिष |
१५ क
सञ्जय़ उवाच:
अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः ||
१५ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः |
१६ क
सञ्जय़ उवाच:
अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् |
१६ ख
सञ्जय़ उवाच:
द्रावय़न्निषुभिस्तूर्णं श्रुतकर्मा व्यरोचत ||
१६ ग
सञ्जय़ उवाच:
प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः |
१७ क
सञ्जय़ उवाच:
सारथिं त्रिभिरानर्च्छद्ध्वजमेकेषुणा ततः ||
१७ ख
सञ्जय़ उवाच:
तं चित्रो नवभिर्भल्लैर्वाह्वोरुरसि चार्दय़त् |
१८ क
सञ्जय़ उवाच:
स्वर्णपुङ्खैः शिलाधौतैः कङ्कवर्हिणवाजितैः ||
१८ ख
सञ्जय़ उवाच:
प्रतिविन्ध्यो धनुस्तस्य छित्त्वा भारत साय़कैः |
१९ क
सञ्जय़ उवाच:
पञ्चभिर्निशितैर्वाणैरथैनं सम्प्रजघ्निवान् ||
१९ ख
सञ्जय़ उवाच:
ततः शक्तिं महाराज हेमदण्डां दुरासदाम् |
२० क
सञ्जय़ उवाच:
प्राहिणोत्तव पुत्राय़ घोरामग्निशिखामिव ||
२० ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा शक्तिमुल्कामिवाम्वरात् |
२१ क
सञ्जय़ उवाच:
द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव ||
२१ ख
सञ्जय़ उवाच:
सा पपात तदा छिन्ना प्रतिविन्ध्यशरैः शितैः |
२२ क
सञ्जय़ उवाच:
युगान्ते सर्वभूतानि त्रासय़न्ती यथाशनिः ||
२२ ख
सञ्जय़ उवाच:
शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् |
२३ क
सञ्जय़ उवाच:
प्रतिविन्ध्याय़ चिक्षेप रुक्मजालविभूषिताम् ||
२३ ख
सञ्जय़ उवाच:
सा जघान हय़ांस्तस्य सारथिं च महारणे |
२४ क
सञ्जय़ उवाच:
रथं प्रमृद्य वेगेन धरणीमन्वपद्यत ||
२४ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु रथादाप्लुत्य भारत |
२५ क
सञ्जय़ उवाच:
शक्तिं चिक्षेप चित्राय़ स्वर्णघण्टामलङ्कृताम् ||
२५ ख
सञ्जय़ उवाच:
तामापतन्तीं जग्राह चित्रो राजन्महामनाः |
२६ क
सञ्जय़ उवाच:
ततस्तामेव चिक्षेप प्रतिविन्ध्याय़ भारत ||
२६ ख
सञ्जय़ उवाच:
समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा |
२७ क
सञ्जय़ उवाच:
निर्भिद्य दक्षिणं वाहुं निपपात महीतले |
२७ ख
सञ्जय़ उवाच:
पतिताभासय़च्चैव तं देशमशनिर्यथा ||
२७ ग
सञ्जय़ उवाच:
प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम् |
२८ क
सञ्जय़ उवाच:
प्रेषय़ामास सङ्क्रुद्धश्चित्रस्य वधकाम्यया ||
२८ ख
सञ्जय़ उवाच:
स तस्य देवावरणं भित्त्वा हृदय़मेव च |
२९ क
सञ्जय़ उवाच:
जगाम धरणीं तूर्णं महोरग इवाशय़म् ||
२९ ख
सञ्जय़ उवाच:
स पपात तदा राजंस्तोमरेण समाहतः |
३० क
सञ्जय़ उवाच:
प्रसार्य विपुलौ वाहू पीनौ परिघसंनिभौ ||
३० ख
सञ्जय़ उवाच:
चित्रं सम्प्रेक्ष्य निहतं तावका रणशोभिनः |
३१ क
सञ्जय़ उवाच:
अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः ||
३१ ख
सञ्जय़ उवाच:
सृजन्तो विविधान्वाणाञ्शतघ्नीश्च सकिङ्किणीः |
३२ क
सञ्जय़ उवाच:
त एनं छादय़ामासुः सूर्यमभ्रगणा इव ||
३२ ख
सञ्जय़ उवाच:
तानपास्य महावाहुः शरजालेन संय़ुगे |
३३ क
सञ्जय़ उवाच:
व्यद्रावय़त्तव चमूं वज्रहस्त इवासुरीम् ||
३३ ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप |
३४ क
सञ्जय़ उवाच:
विप्रकीर्यन्त सहसा वातनुन्ना घना इव ||
३४ ख
सञ्जय़ उवाच:
विप्रद्रुते वले तस्मिन्वध्यमाने समन्ततः |
३५ क
सञ्जय़ उवाच:
द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महावलम् ||
३५ ख
सञ्जय़ उवाच:
ततः समागमो घोरो वभूव सहसा तय़ोः |
३६ क
सञ्जय़ उवाच:
यथा देवासुरे युद्धे वृत्रवासवय़ोरभूत् ||
३६ ख