युधिष्ठिर उवाच:
गार्हस्थ्यं धर्ममखिलं प्रव्रूहि भरतर्षभ |
१ क
युधिष्ठिर उवाच:
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ||
१ ख
भीष्म उवाच:
अत्र ते वर्तय़िष्यामि पुरावृत्तं जनाधिप |
२ क
भीष्म उवाच:
वासुदेवस्य संवादं पृथिव्याश्चैव भारत ||
२ ख
भीष्म उवाच:
संस्तूय़ पृथिवीं देवीं वासुदेवः प्रतापवान् |
३ क
भीष्म उवाच:
पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम् ||
३ ख
वासुदेव उवाच:
गार्हस्थ्यं धर्ममाश्रित्य मय़ा वा मद्विधेन वा |
४ क
वासुदेव उवाच:
किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् ||
४ ख
पृथिव्यु उवाच:
ऋषय़ः पितरो देवा मनुष्याश्चैव माधव |
५ क
पृथिव्यु उवाच:
इज्याश्चैवार्चनीय़ाश्च यथा चैवं निवोध मे ||
५ ख
पृथिव्यु उवाच:
सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् |
६ क
पृथिव्यु उवाच:
छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः |
६ ख
पृथिव्यु उवाच:
तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन ||
६ ग
पृथिव्यु उवाच:
नित्यमग्निं परिचरेदभुक्त्वा वलिकर्म च |
७ क
पृथिव्यु उवाच:
कुर्यात्तथैव देवा वै प्रीय़न्ते मधुसूदन ||
७ ख
पृथिव्यु उवाच:
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा |
८ क
पृथिव्यु उवाच:
पय़ोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् ||
८ ख
पृथिव्यु उवाच:
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि |
९ क
पृथिव्यु उवाच:
अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ||
९ ख
पृथिव्यु उवाच:
प्रजानां पतय़े चैव पृथग्घोमो विधीय़ते |
१० क
पृथिव्यु उवाच:
तथैव चानुपूर्व्येण वलिकर्म प्रय़ोजय़ेत् ||
१० ख
पृथिव्यु उवाच:
दक्षिणाय़ां यमाय़ेह प्रतीच्यां वरुणाय़ च |
११ क
पृथिव्यु उवाच:
सोमाय़ चाप्युदीच्यां वै वास्तुमध्ये द्विजातय़े ||
११ ख
पृथिव्यु उवाच:
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय़ माधव |
१२ क
पृथिव्यु उवाच:
मनोर्वै इति च प्राहुर्वलिं द्वारे गृहस्य वै |
१२ ख
पृथिव्यु उवाच:
मरुद्भ्यो देवताभ्यश्च वलिमन्तर्गृहे हरेत् ||
१२ ग
पृथिव्यु उवाच:
तथैव विश्वेदेवेभ्यो वलिमाकाशतो हरेत् |
१३ क
पृथिव्यु उवाच:
निशाचरेभ्यो भूतेभ्यो वलिं नक्तं तथा हरेत् ||
१३ ख
पृथिव्यु उवाच:
एवं कृत्वा वलिं सम्यग्दद्याद्भिक्षां द्विजातय़े |
१४ क
पृथिव्यु उवाच:
अलाभे व्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत् ||
१४ ख
पृथिव्यु उवाच:
यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः |
१५ क
पृथिव्यु उवाच:
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ||
१५ ख
पृथिव्यु उवाच:
पितॄन्सन्तर्पय़ित्वा तु वलिं कुर्याद्विधानतः |
१६ क
पृथिव्यु उवाच:
वैश्वदेवं ततः कुर्यात्पश्चाद्व्राह्मणवाचनम् ||
१६ ख
पृथिव्यु उवाच:
ततोऽन्नेनावशेषेण भोजय़ेदतिथीनपि |
१७ क
पृथिव्यु उवाच:
अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् ||
१७ ख
पृथिव्यु उवाच:
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते |
१९ क
पृथिव्यु उवाच:
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः |
१९ ख
पृथिव्यु उवाच:
इदमस्ति गृहे मह्यमिति नित्यं निवेदय़ेत् ||
१९ ग
पृथिव्यु उवाच:
ते यद्वदेय़ुस्तत्कुर्यादिति धर्मो विधीय़ते |
२० क
पृथिव्यु उवाच:
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ||
२० ख
पृथिव्यु उवाच:
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च |
२१ क
पृथिव्यु उवाच:
अर्चय़ेन्मधुपर्केण परिसंवत्सरोषितान् ||
२१ ख
पृथिव्यु उवाच:
श्वभ्यश्च श्वपचेभ्यश्च वय़ोभ्यश्चावपेद्भुवि |
२२ क
पृथिव्यु उवाच:
वैश्वदेवं हि नामैतत्साय़म्प्रातर्विधीय़ते ||
२२ ख
पृथिव्यु उवाच:
एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूय़कः |
२३ क
पृथिव्यु उवाच:
स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीय़ते ||
२३ ख
भीष्म उवाच:
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् |
२४ क
भीष्म उवाच:
तथा चकार सततं त्वमप्येवं समाचर ||
२४ ख
भीष्म उवाच:
एवं गृहस्थधर्मं त्वं चेतय़ानो नराधिप |
२५ क
भीष्म उवाच:
इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ||
२५ ख