सञ्जय़ उवाच:
अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान् |
१ क
सञ्जय़ उवाच:
अनय़त्प्रेतराजस्य भवनं साय़कैः शितैः ||
१ ख
सञ्जय़ उवाच:
सुशर्मापि ततो वाणैः पार्थं विव्याध संय़ुगे |
२ क
सञ्जय़ उवाच:
वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ||
२ ख
सञ्जय़ उवाच:
तान्निवार्य शरौघेण शक्रसूनुर्महारथः |
३ क
सञ्जय़ उवाच:
सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ||
३ ख
सञ्जय़ उवाच:
ते वध्यमानाः पार्थेन कालेनेव युगक्षय़े |
४ क
सञ्जय़ उवाच:
व्यद्रवन्त रणे राजन्भय़े जाते महारथाः ||
४ ख
सञ्जय़ उवाच:
उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष |
५ क
सञ्जय़ उवाच:
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ||
५ ख
सञ्जय़ उवाच:
अपरे तुद्यमानास्तु वाजिनागरथा रणात् |
६ क
सञ्जय़ उवाच:
त्वरय़ा परय़ा युक्ताः प्राद्रवन्त विशां पते ||
६ ख
सञ्जय़ उवाच:
पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे |
७ क
सञ्जय़ उवाच:
निरपेक्षा व्यधावन्त तेन तेन स्म भारत ||
७ ख
सञ्जय़ उवाच:
वार्यमाणाः स्म वहुशस्त्रैगर्तेन सुशर्मणा |
८ क
सञ्जय़ उवाच:
तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संय़ुगे ||
८ ख
सञ्जय़ उवाच:
तद्वलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव |
९ क
सञ्जय़ उवाच:
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् ||
९ ख
सञ्जय़ उवाच:
सर्वोद्योगेन महता धनञ्जय़मुपाद्रवत् |
१० क
सञ्जय़ उवाच:
त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते ||
१० ख
सञ्जय़ उवाच:
स एकः समरे तस्थौ किरन्वहुविधाञ्शरान् |
११ क
सञ्जय़ उवाच:
भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः ||
११ ख
सञ्जय़ उवाच:
तथैव पण्डवा राजन्सर्वोद्योगेन दंशिताः |
१२ क
सञ्जय़ उवाच:
प्रय़युः फल्गुनार्थाय़ यत्र भीष्मो व्यवस्थितः ||
१२ ख
सञ्जय़ उवाच:
जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः |
१३ क
सञ्जय़ उवाच:
हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ||
१३ ख
सञ्जय़ उवाच:
ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम् |
१४ क
सञ्जय़ उवाच:
छादय़ामास समरे शरैः संनतपर्वभिः ||
१४ ख
सञ्जय़ उवाच:
एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह |
१५ क
सञ्जय़ उवाच:
अय़ुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ||
१५ ख
सञ्जय़ उवाच:
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिराय़सैः |
१६ क
सञ्जय़ उवाच:
अतिष्ठदाहवे शूरः किरन्वाणान्सहस्रशः ||
१६ ख
सञ्जय़ उवाच:
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः |
१७ क
सञ्जय़ उवाच:
पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः ||
१७ ख
सञ्जय़ उवाच:
भीमसेनस्तु राजानं वाह्लिकं प्रपितामहम् |
१८ क
सञ्जय़ उवाच:
विद्ध्वानदन्महानादं शार्दूल इव कानने ||
१८ ख
सञ्जय़ उवाच:
आर्जुनिश्चित्रसेनेन विद्धो वहुभिराशुगैः |
१९ क
सञ्जय़ उवाच:
चित्रसेनं त्रिभिर्वाणैर्विव्याध हृदय़े भृशम् ||
१९ ख
सञ्जय़ उवाच:
समागतौ तौ तु रणे महामात्रौ व्यरोचताम् |
२० क
सञ्जय़ उवाच:
यथा दिवि महाघोरौ राजन्वुधशनैश्चरौ ||
२० ख
सञ्जय़ उवाच:
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः |
२१ क
सञ्जय़ उवाच:
ननाद वलवन्नादं सौभद्रः परवीरहा ||
२१ ख
सञ्जय़ उवाच:
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः |
२२ क
सञ्जय़ उवाच:
आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते ||
२२ ख
सञ्जय़ उवाच:
द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः |
२३ क
सञ्जय़ उवाच:
सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ||
२३ ख
सञ्जय़ उवाच:
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे |
२४ क
सञ्जय़ उवाच:
अपाय़ाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ||
२४ ख
सञ्जय़ उवाच:
भीमसेनस्तु राजानं मुहूर्तादिव वाह्लिकम् |
२५ क
सञ्जय़ उवाच:
व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ||
२५ ख
सञ्जय़ उवाच:
ससम्भ्रमो महाराज संशय़ं परमं गतः |
२६ क
सञ्जय़ उवाच:
अवप्लुत्य ततो वाहाद्वाह्लिकः पुरुषोत्तमः |
२६ ख
सञ्जय़ उवाच:
आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः ||
२६ ग
सञ्जय़ उवाच:
सात्यकिः कृतवर्माणं वारय़ित्वा महारथः |
२७ क
सञ्जय़ उवाच:
शरैर्वहुविधै राजन्नाससाद पितामहम् ||
२७ ख
सञ्जय़ उवाच:
स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः |
२८ क
सञ्जय़ उवाच:
ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः ||
२८ ख
सञ्जय़ उवाच:
तस्याय़सीं महाशक्तिं चिक्षेपाथ पितामहः |
२९ क
सञ्जय़ उवाच:
हेमचित्रां महावेगां नागकन्योपमां शुभाम् ||
२९ ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम् |
३० क
सञ्जय़ उवाच:
ध्वंसय़ामास वार्ष्णेय़ो लाघवेन महाय़शाः ||
३० ख
सञ्जय़ उवाच:
अनासाद्य तु वार्ष्णेय़ं शक्तिः परमदारुणा |
३१ क
सञ्जय़ उवाच:
न्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा ||
३१ ख
सञ्जय़ उवाच:
वार्ष्णेय़स्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम् |
३२ क
सञ्जय़ उवाच:
वेगवद्गृह्य चिक्षेप पितामहरथं प्रति ||
३२ ख
सञ्जय़ उवाच:
वार्ष्णेय़भुजवेगेन प्रणुन्ना सा महाहवे |
३३ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ||
३३ ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा द्विधा चिच्छेद भारत |
३४ क
सञ्जय़ उवाच:
क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले ||
३४ ख
सञ्जय़ उवाच:
छित्त्वा तु शक्तिं गाङ्गेय़ः सात्यकिं नवभिः शरैः |
३५ क
सञ्जय़ उवाच:
आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः ||
३५ ख
सञ्जय़ उवाच:
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज |
३६ क
सञ्जय़ उवाच:
परिवव्रू रणे भीष्मं माधवत्राणकारणात् ||
३६ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |
३७ क
सञ्जय़ उवाच:
पाण्डवानां कुरूणां च समरे विजय़ैषिणाम् ||
३७ ख