chevron_left द्रोण पर्व अध्याय १००
धृतराष्ट्र उवाच:
किं तस्यां मम सेनाय़ां नासन्केचिन्महारथाः |
१ क
धृतराष्ट्र उवाच:
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारय़न् ||
१ ख
धृतराष्ट्र उवाच:
एको हि समरे कर्म कृतवान्सत्यविक्रमः |
२ क
धृतराष्ट्र उवाच:
शक्रतुल्यवलो युद्धे महेन्द्रो दानवेष्विव ||
२ ख
धृतराष्ट्र उवाच:
अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः |
३ क
धृतराष्ट्र उवाच:
एको वै वहुलाः सेनाः प्रमृद्नन्पुरुषर्षभः ||
३ ख
धृतराष्ट्र उवाच:
कथं च युध्यमानानामपक्रान्तो महात्मनाम् |
४ क
धृतराष्ट्र उवाच:
एको वहूनां शैनेय़स्तन्ममाचक्ष्व सञ्जय़ ||
४ ख
सञ्जय़ उवाच:
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् |
५ क
सञ्जय़ उवाच:
तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् ||
५ ख
सञ्जय़ उवाच:
आह्णिकेषु समूहेषु तव सैन्यस्य मानद |
६ क
सञ्जय़ उवाच:
नास्ति लोके समः कश्चित्समूह इति मे मतिः ||
६ ख
सञ्जय़ उवाच:
तत्र देवाः स्म भाषन्ते चारणाश्च समागताः |
७ क
सञ्जय़ उवाच:
एतदन्ताः समूहा वै भविष्यन्ति महीतले ||
७ ख
सञ्जय़ उवाच:
न चैव तादृशः कश्चिद्व्यूह आसीद्विशां पते |
८ क
सञ्जय़ उवाच:
यादृग्जय़द्रथवधे द्रोणेन विहितोऽभवत् ||
८ ख
सञ्जय़ उवाच:
चण्डवाताभिपन्नानां समुद्राणामिव स्वनः |
९ क
सञ्जय़ उवाच:
रणेऽभवद्वलौघानामन्योन्यमभिधावताम् ||
९ ख
सञ्जय़ उवाच:
पार्थिवानां समेतानां वहून्यासन्नरोत्तम |
१० क
सञ्जय़ उवाच:
त्वद्वले पाण्डवानां च सहस्राणि शतानि च ||
१० ख
सञ्जय़ उवाच:
संरव्धानां प्रवीराणां समरे दृढकर्मणाम् |
११ क
सञ्जय़ उवाच:
तत्रासीत्सुमहाञ्शव्दस्तुमुलो लोमहर्षणः ||
११ ख
सञ्जय़ उवाच:
अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष |
१२ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ||
१२ ख
सञ्जय़ उवाच:
आगच्छत प्रहरत वलवत्परिधावत |
१३ क
सञ्जय़ उवाच:
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ||
१३ ख
सञ्जय़ उवाच:
यथा सुखेन गच्छेतां जय़द्रथवधं प्रति |
१४ क
सञ्जय़ उवाच:
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदय़त् |
१४ ख
सञ्जय़ उवाच:
तय़ोरभावे कुरवः कृतार्थाः स्युर्वय़ं जिताः ||
१४ ग
सञ्जय़ उवाच:
ते यूय़ं सहिता भूत्वा तूर्णमेव वलार्णवम् |
१५ क
सञ्जय़ उवाच:
क्षोभय़ध्वं महावेगाः पवनाः सागरं यथा ||
१५ ख
सञ्जय़ उवाच:
भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः |
१६ क
सञ्जय़ उवाच:
आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वासूनात्मनः प्रिय़ान् ||
१६ ख
सञ्जय़ उवाच:
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः |
१७ क
सञ्जय़ उवाच:
स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम् ||
१७ ख
सञ्जय़ उवाच:
तथैव तावका राजन्प्रार्थय़न्तो महद्यशः |
१८ क
सञ्जय़ उवाच:
आर्यां युद्धे मतिं कृत्वा युद्धाय़ैवोपतस्थिरे ||
१८ ख
सञ्जय़ उवाच:
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभय़े |
१९ क
सञ्जय़ उवाच:
हत्वा सर्वाणि सैन्यानि प्राय़ात्सात्यकिरर्जुनम् ||
१९ ख
सञ्जय़ उवाच:
कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः |
२० क
सञ्जय़ उवाच:
दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः ||
२० ख
सञ्जय़ उवाच:
तथा प्रय़तमानेषु पाण्डवेय़ेषु निर्भय़ः |
२१ क
सञ्जय़ उवाच:
दुर्योधनो महाराज व्यगाहत महद्वलम् ||
२१ ख
सञ्जय़ उवाच:
स संनिपातस्तुमुलस्तेषां तस्य च भारत |
२२ क
सञ्जय़ उवाच:
अभवत्सर्वसैन्यानामभावकरणो महान् ||
२२ ख
धृतराष्ट्र उवाच:
तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वय़म् |
२३ क
धृतराष्ट्र उवाच:
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ||
२३ ख
धृतराष्ट्र उवाच:
एकस्य च वहूनां च संनिपातो महाहवे |
२४ क
धृतराष्ट्र उवाच:
विशेषतो नृपतिना विषमः प्रतिभाति मे ||
२४ ख
धृतराष्ट्र उवाच:
सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः |
२५ क
धृतराष्ट्र उवाच:
एको वहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ||
२५ ख
सञ्जय़ उवाच:
राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत |
२६ क
सञ्जय़ उवाच:
एकस्य च वहूनां च शृणुष्व गदतोऽद्भुतम् ||
२६ ख
सञ्जय़ उवाच:
दुर्योधनेन सहसा पाण्डवी पृतना रणे |
२७ क
सञ्जय़ उवाच:
नलिनी द्विरदेनेव समन्ताद्विप्रलोडिता ||
२७ ख
सञ्जय़ उवाच:
तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव |
२८ क
सञ्जय़ उवाच:
भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन् ||
२८ ख
सञ्जय़ उवाच:
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः |
२९ क
सञ्जय़ उवाच:
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ||
२९ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः |
३० क
सञ्जय़ उवाच:
केकय़ान्दशभिर्विद्ध्वा द्रौपदेय़ांस्त्रिभिस्त्रिभिः ||
३० ख
सञ्जय़ उवाच:
शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे |
३१ क
सञ्जय़ उवाच:
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ||
३१ ख
सञ्जय़ उवाच:
न सन्दधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः |
३२ क
सञ्जय़ उवाच:
अदृश्यत रिपून्निघ्नञ्शिक्षय़ास्त्रवलेन च ||
३२ ख
सञ्जय़ उवाच:
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः |
३३ क
सञ्जय़ उवाच:
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ||
३३ ख
सञ्जय़ उवाच:
विव्याध चैनं वहुभिः सम्यगस्तैः शितैः शरैः |
३४ क
सञ्जय़ उवाच:
वर्माण्याशु समासाद्य ते भग्नाः क्षितिमाविशन् ||
३४ ख
सञ्जय़ उवाच:
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् |
३५ क
सञ्जय़ उवाच:
यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः ||
३५ ख
सञ्जय़ उवाच:
अथ दुर्योधनो राजा दृढमादाय़ कार्मुकम् |
३६ क
सञ्जय़ उवाच:
तिष्ठ तिष्ठेति राजानं व्रुवन्पाण्डवमभ्ययात् ||
३६ ख
सञ्जय़ उवाच:
तं तथा वादिनं राजंस्तव पुत्रं महारथम् |
३७ क
सञ्जय़ उवाच:
प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जय़गृद्धिनः ||
३७ ख
सञ्जय़ उवाच:
तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम् |
३८ क
सञ्जय़ उवाच:
चण्डवातोद्धुतान्मेघान्सजलानचलो यथा ||
३८ ख
सञ्जय़ उवाच:
तत्र राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः |
३९ क
सञ्जय़ उवाच:
रुद्रस्याक्रीडसङ्काशः संहारः सर्वदेहिनाम् ||
३९ ख