chevron_left द्रोण पर्व अध्याय १०१
सञ्जय़ उवाच:
अपराह्णे महाराज सङ्ग्रामः समपद्यत |
१ क
सञ्जय़ उवाच:
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ||
१ ख
सञ्जय़ उवाच:
शोणाश्वं रथमास्थाय़ नरवीरः समाहितः |
२ क
सञ्जय़ उवाच:
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय़ मध्यमम् ||
२ ख
सञ्जय़ उवाच:
तव प्रिय़हिते युक्तो महेष्वासो महावलः |
३ क
सञ्जय़ उवाच:
चित्रपुङ्खैः शितैर्वाणैः कलशोत्तमसम्भवः ||
३ ख
सञ्जय़ उवाच:
वरान्वरान्हि योधानां विचिन्वन्निव भारत |
४ क
सञ्जय़ उवाच:
अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् ||
४ ख
सञ्जय़ उवाच:
तमभ्ययाद्वृहत्क्षत्रः केकय़ानां महारथः |
५ क
सञ्जय़ उवाच:
भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः ||
५ ख
सञ्जय़ उवाच:
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं छादय़न्भृशम् |
६ क
सञ्जय़ उवाच:
महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ||
६ ख
सञ्जय़ उवाच:
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् |
७ क
सञ्जय़ उवाच:
प्रेषय़ामास सङ्क्रुद्धः साय़कान्दश सप्त च ||
७ ख
सञ्जय़ उवाच:
तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान् |
८ क
सञ्जय़ उवाच:
एकैकं दशभिर्वाणैर्युधि चिच्छेद हृष्टवत् ||
८ ख
सञ्जय़ उवाच:
तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः |
९ क
सञ्जय़ उवाच:
प्रेषय़ामास विशिखानष्टौ संनतपर्वणः ||
९ ख
सञ्जय़ उवाच:
तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान् |
१० क
सञ्जय़ उवाच:
अवारय़च्छरैरेव तावद्भिर्निशितैर्दृढैः ||
१० ख
सञ्जय़ उवाच:
ततोऽभवन्महाराज तव सैन्यस्य विस्मय़ः |
११ क
सञ्जय़ उवाच:
वृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ||
११ ख
सञ्जय़ उवाच:
ततो द्रोणो महाराज केकय़ं वै विशेषय़न् |
१२ क
सञ्जय़ उवाच:
प्रादुश्चक्रे रणे दिव्यं व्राह्ममस्त्रं महातपाः ||
१२ ख
सञ्जय़ उवाच:
तदस्य राजन्कैकेय़ः प्रत्यवारय़दच्युतः |
१३ क
सञ्जय़ उवाच:
व्राह्मेणैव महावाहुराहवे समुदीरितम् ||
१३ ख
सञ्जय़ उवाच:
प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संय़ुगे |
१४ क
सञ्जय़ उवाच:
विव्याध व्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ||
१४ ख
सञ्जय़ उवाच:
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पय़त् |
१५ क
सञ्जय़ उवाच:
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ||
१५ ख
सञ्जय़ उवाच:
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम |
१६ क
सञ्जय़ उवाच:
तथाभ्यगान्महीं वाणो भित्त्वा कैकेय़माहवे ||
१६ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम् |
१७ क
सञ्जय़ उवाच:
क्रोधेन महताविष्टो व्यावृत्य नय़ने शुभे ||
१७ ख
सञ्जय़ उवाच:
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः |
१८ क
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन वाह्वोरुरसि चार्पय़त् ||
१८ ख
सञ्जय़ उवाच:
द्रोणस्तु वहुधा विद्धो वृहत्क्षत्रेण मारिष |
१९ क
सञ्जय़ उवाच:
असृजद्विशिखांस्तीक्ष्णान्केकय़स्य रथं प्रति ||
१९ ख
सञ्जय़ उवाच:
व्याकुलीकृत्य तं द्रोणो वृहत्क्षत्रं महारथम् |
२० क
सञ्जय़ उवाच:
व्यसृजत्साय़कं तीक्ष्णं केकय़ं प्रति भारत ||
२० ख
सञ्जय़ उवाच:
स गाढविद्धस्तेनाशु महाराज स्तनान्तरे |
२१ क
सञ्जय़ उवाच:
रथात्पुरुषशार्दूलः सम्भिन्नहृदय़ोऽपतत् ||
२१ ख
सञ्जय़ उवाच:
वृहत्क्षत्रे हते राजन्केकय़ानां महारथे |
२२ क
सञ्जय़ उवाच:
शैशुपालिः सुसङ्क्रुद्धो यन्तारमिदमव्रवीत् ||
२२ ख
सञ्जय़ उवाच:
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः |
२३ क
सञ्जय़ उवाच:
विनिघ्नन्केकय़ान्सर्वान्पाञ्चालानां च वाहिनीम् ||
२३ ख
सञ्जय़ उवाच:
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् |
२४ क
सञ्जय़ उवाच:
द्रोणाय़ प्रापय़ामास काम्वोजैर्जवनैर्हय़ैः ||
२४ ख
सञ्जय़ उवाच:
धृष्टकेतुश्च चेदीनामृषभोऽतिवलोदितः |
२५ क
सञ्जय़ उवाच:
सहसा प्रापतद्द्रोणं पतङ्ग इव पावकम् ||
२५ ख
सञ्जय़ उवाच:
सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम् |
२६ क
सञ्जय़ उवाच:
पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ||
२६ ख
सञ्जय़ उवाच:
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह |
२७ क
सञ्जय़ उवाच:
चिच्छेद राज्ञो वलिनो यतमानस्य संय़ुगे ||
२७ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ शैशुपालिर्महारथः |
२८ क
सञ्जय़ उवाच:
विव्याध साय़कैर्द्रोणं पुनः सुनिशितैर्दृढैः ||
२८ ख
सञ्जय़ उवाच:
तस्य द्रोणो हय़ान्हत्वा सारथिं च महावलः |
२९ क
सञ्जय़ उवाच:
अथैनं पञ्चविंशत्या साय़कानां समार्पय़त् ||
२९ ख
सञ्जय़ उवाच:
विरथो विधनुष्कश्च चेदिराजोऽपि संय़ुगे |
३० क
सञ्जय़ उवाच:
गदां चिक्षेप सङ्क्रुद्धो भारद्वाजरथं प्रति ||
३० ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा घोररूपां भय़ावहाम् |
३१ क
सञ्जय़ उवाच:
अश्मसारमय़ीं गुर्वीं तपनीय़विभूषिताम् |
३१ ख
सञ्जय़ उवाच:
शरैरनेकसाहस्रैर्भारद्वाजो न्यपातय़त् ||
३१ ग
सञ्जय़ उवाच:
सा पपात गदा भूमौ भारद्वाजेन सादिता |
३२ क
सञ्जय़ उवाच:
रक्तमाल्याम्वरधरा तारेव नभसस्तलात् ||
३२ ख
सञ्जय़ उवाच:
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः |
३३ क
सञ्जय़ उवाच:
तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम् ||
३३ ख
सञ्जय़ उवाच:
तोमरं तु त्रिभिर्वाणैर्द्रोणश्छित्त्वा महामृधे |
३४ क
सञ्जय़ उवाच:
शक्तिं चिच्छेद सहसा कृतहस्तो महावलः ||
३४ ख
सञ्जय़ उवाच:
ततोऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः |
३५ क
सञ्जय़ उवाच:
प्रेषय़ामास समरे भारद्वाजः प्रतापवान् ||
३५ ख
सञ्जय़ उवाच:
स तस्य कवचं भित्त्वा हृदय़ं चामितौजसः |
३६ क
सञ्जय़ उवाच:
अभ्यगाद्धरणीं वाणो हंसः पद्मसरो यथा ||
३६ ख
सञ्जय़ उवाच:
पतङ्गं हि ग्रसेच्चाषो यथा राजन्वुभुक्षितः |
३७ क
सञ्जय़ उवाच:
तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे ||
३७ ख
सञ्जय़ उवाच:
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् |
३८ क
सञ्जय़ उवाच:
अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ||
३८ ख
सञ्जय़ उवाच:
तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षय़म् |
३९ क
सञ्जय़ उवाच:
महाव्याघ्रो महारण्ये मृगशावं यथा वली ||
३९ ख
सञ्जय़ उवाच:
तेषु प्रक्षीय़माणेषु पाण्डवेय़ेषु भारत |
४० क
सञ्जय़ उवाच:
जरासन्धसुतो वीरः स्वय़ं द्रोणमुपाद्रवत् ||
४० ख
सञ्जय़ उवाच:
स तु द्रोणं महाराज छादय़न्साय़कैः शितैः |
४१ क
सञ्जय़ उवाच:
अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ||
४१ ख
सञ्जय़ उवाच:
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रिय़मर्दनः |
४२ क
सञ्जय़ उवाच:
व्यसृजत्साय़कांस्तूर्णं शतशोऽथ सहस्रशः ||
४२ ख
सञ्जय़ उवाच:
छादय़ित्वा रणे द्रोणो रथस्थं रथिनां वरम् |
४३ क
सञ्जय़ उवाच:
जारासन्धिमथो जघ्ने मिषतां सर्वधन्विनाम् ||
४३ ख
सञ्जय़ उवाच:
यो यः स्म लीय़ते द्रोणं तं तं द्रोणोऽन्तकोपमः |
४४ क
सञ्जय़ उवाच:
आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ||
४४ ख
सञ्जय़ उवाच:
ततो द्रोणो महेष्वासो नाम विश्राव्य संय़ुगे |
४५ क
सञ्जय़ उवाच:
शरैरनेकसाहस्रैः पाण्डवेय़ान्व्यमोहय़त् ||
४५ ख
सञ्जय़ उवाच:
ततो द्रोणाङ्किता वाणाः स्वर्णपुङ्खाः शिलाशिताः |
४६ क
सञ्जय़ उवाच:
नरान्नागान्हय़ांश्चैव निजघ्नुः सर्वतो रणे ||
४६ ख
सञ्जय़ उवाच:
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः |
४७ क
सञ्जय़ उवाच:
समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ||
४७ ख
सञ्जय़ उवाच:
ततो निष्टानको घोरः पाण्डवानामजाय़त |
४८ क
सञ्जय़ उवाच:
द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ||
४८ ख
सञ्जय़ उवाच:
मोहिताः शरवर्षेण भारद्वाजस्य संय़ुगे |
४९ क
सञ्जय़ उवाच:
ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः ||
४९ ख
सञ्जय़ उवाच:
चेदय़श्च महाराज सृञ्जय़ाः सोमकास्तथा |
५० क