chevron_left शान्ति पर्व अध्याय १०१
युधिष्ठिर उवाच:
यथा जय़ार्थिनः सेनां नय़न्ति भरतर्षभ |
१ क
युधिष्ठिर उवाच:
ईषद्धर्मं प्रपीड्यापि तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे |
२ क
भीष्म उवाच:
साध्वाचारतय़ा केचित्तथैवौपय़िका अपि |
२ ख
भीष्म उवाच:
उपाय़धर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मय़ोः ||
२ ग
भीष्म उवाच:
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः |
३ क
भीष्म उवाच:
तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् |
३ ख
भीष्म उवाच:
कार्याणां सम्प्रसिद्ध्यर्थं तानुपाय़ान्निवोध मे ||
३ ग
भीष्म उवाच:
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत |
४ क
भीष्म उवाच:
जानन्वक्रां न सेवेत प्रतिवाधेत चागताम् ||
४ ख
भीष्म उवाच:
अमित्रा एव राजानं भेदेनोपचरन्त्युत |
५ क
भीष्म उवाच:
तां राजा निकृतिं जानन्यथामित्रान्प्रवाधते ||
५ ख
भीष्म उवाच:
गजानां पार्श्वचर्माणि गोवृषाजगराणि च |
६ क
भीष्म उवाच:
शल्यकङ्कटलोहानि तनुत्राणि मतानि च ||
६ ख
भीष्म उवाच:
शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः |
७ क
भीष्म उवाच:
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते ||
७ ख
भीष्म उवाच:
ऋष्टय़स्तोमराः खड्गा निशिताश्च परश्वधाः |
८ क
भीष्म उवाच:
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः |
८ ख
भीष्म उवाच:
अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः ||
८ ग
भीष्म उवाच:
चैत्र्यां वा मार्गशीर्ष्यां वा सेनाय़ोगः प्रशस्यते |
९ क
भीष्म उवाच:
पक्वसस्या हि पृथिवी भवत्यम्वुमती तथा ||
९ ख
भीष्म उवाच:
नैवातिशीतो नात्युष्णः कालो भवति भारत |
१० क
भीष्म उवाच:
तस्मात्तदा योजय़ेत परेषां व्यसनेषु वा |
१० ख
भीष्म उवाच:
एतेषु योगाः सेनाय़ाः प्रशस्ताः परवाधने ||
१० ग
भीष्म उवाच:
जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते |
११ क
भीष्म उवाच:
चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः ||
११ ख
भीष्म उवाच:
नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव |
१२ क
भीष्म उवाच:
तस्मात्सर्वासु सेनासु योजय़न्ति जय़ार्थिनः ||
१२ ख
भीष्म उवाच:
आवासस्तोय़वान्दुर्गः पर्याकाशः प्रशस्यते |
१३ क
भीष्म उवाच:
परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत् ||
१३ ख
भीष्म उवाच:
आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम् |
१४ क
भीष्म उवाच:
वहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः ||
१४ ख
भीष्म उवाच:
उपन्यासोऽपसर्पाणां पदातीनां च गूहनम् |
१५ क
भीष्म उवाच:
अथ शत्रुप्रतीघातमापदर्थं पराय़णम् ||
१५ ख
भीष्म उवाच:
सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव |
१६ क
भीष्म उवाच:
अनेन विधिना राजञ्जिगीषेतापि दुर्जय़ान् ||
१६ ख
भीष्म उवाच:
यतो वाय़ुर्यतः सूर्यो यतः शुक्रस्ततो जय़ः |
१७ क
भीष्म उवाच:
पूर्वं पूर्वं ज्याय़ एषां संनिपाते युधिष्ठिर ||
१७ ख
भीष्म उवाच:
अकर्दमामनुदकाममर्यादामलोष्टकाम् |
१८ क
भीष्म उवाच:
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः ||
१८ ख
भीष्म उवाच:
समा निरुदकाकाशा रथभूमिः प्रशस्यते |
१९ क
भीष्म उवाच:
नीचद्रुमा महाकक्षा सोदका हस्तिय़ोधिनाम् ||
१९ ख
भीष्म उवाच:
वहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता |
२० क
भीष्म उवाच:
पदातीनां क्षमा भूमिः पर्वतोपवनानि च ||
२० ख
भीष्म उवाच:
पदातिवहुला सेना दृढा भवति भारत |
२१ क
भीष्म उवाच:
रथाश्ववहुला सेना सुदिनेषु प्रशस्यते ||
२१ ख
भीष्म उवाच:
पदातिनागवहुला प्रावृट्काले प्रशस्यते |
२२ क
भीष्म उवाच:
गुणानेतान्प्रसङ्ख्याय़ देशकालौ प्रय़ोजय़ेत् ||
२२ ख
भीष्म उवाच:
एवं सञ्चिन्त्य यो याति तिथिनक्षत्रपूजितः |
२३ क
भीष्म उवाच:
विजय़ं लभते नित्यं सेनां सम्यक्प्रय़ोजय़न् ||
२३ ख
भीष्म उवाच:
प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातय़ेत् |
२४ क
भीष्म उवाच:
मोक्षे प्रय़ाणे चलने पानभोजनकालय़ोः ||
२४ ख
भीष्म उवाच:
अतिक्षिप्तान्व्यतिक्षिप्तान्विहतान्प्रतनूकृतान् |
२५ क
भीष्म उवाच:
सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान् |
२५ ख
भीष्म उवाच:
वहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः ||
२५ ग
भीष्म उवाच:
पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः |
२६ क
भीष्म उवाच:
परिचर्यावरोद्धारो ये च केचन वल्गिनः ||
२६ ख
भीष्म उवाच:
अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगय़न्ति च |
२७ क
भीष्म उवाच:
समानाशनपानास्ते कार्या द्विगुणवेतनाः ||
२७ ख
भीष्म उवाच:
दशाधिपतय़ः कार्याः शताधिपतय़स्तथा |
२८ क
भीष्म उवाच:
तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् ||
२८ ख
भीष्म उवाच:
यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे |
२९ क
भीष्म उवाच:
यथा जय़ार्थं सङ्ग्रामे न जह्याम परस्परम् ||
२९ ख
भीष्म उवाच:
इहैव ते निवर्तन्तां ये नः केचन भीरवः |
३० क
भीष्म उवाच:
न घातय़ेय़ुः प्रदरं कुर्वाणास्तुमुले सति ||
३० ख
भीष्म उवाच:
आत्मानं च स्वपक्षं च पलाय़न्हन्ति संय़ुगे |
३१ क
भीष्म उवाच:
द्रव्यनाशो वधोऽकीर्तिरय़शश्च पलाय़ने ||
३१ ख
भीष्म उवाच:
अमनोज्ञासुखा वाचः पुरुषस्य पलाय़तः |
३२ क
भीष्म उवाच:
प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वाय़ुधस्य च ||
३२ ख
भीष्म उवाच:
हित्वा पलाय़मानस्य सहाय़ान्प्राणसंशय़े |
३३ क
भीष्म उवाच:
अमित्रैरनुवद्धस्य द्विषतामस्तु नस्तथा ||
३३ ख
भीष्म उवाच:
मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः |
३४ क
भीष्म उवाच:
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह ||
३४ ख
भीष्म उवाच:
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलाय़िनम् |
३५ क
भीष्म उवाच:
जय़िनं सुहृदस्तात वन्दनैर्मङ्गलेन च ||
३५ ख
भीष्म उवाच:
यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः |
३६ क
भीष्म उवाच:
तदसह्यतरं दुःखमहं मन्ये वधादपि ||
३६ ख
भीष्म उवाच:
श्रिय़ं जानीत धर्मस्य मूलं सर्वसुखस्य च |
३७ क
भीष्म उवाच:
सा भीरूणां परान्याति शूरस्तामधिगच्छति ||
३७ ख
भीष्म उवाच:
ते वय़ं स्वर्गमिच्छन्तः सङ्ग्रामे त्यक्तजीविताः |
३८ क
भीष्म उवाच:
जय़न्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम् ||
३८ ख
भीष्म उवाच:
एवं संशप्तशपथाः समभित्यक्तजीविताः |
३९ क
भीष्म उवाच:
अमित्रवाहिनीं वीराः सम्प्रगाहन्त्यभीरवः ||
३९ ख
भीष्म उवाच:
अग्रतः पुरुषानीकमसिचर्मवतां भवेत् |
४० क
भीष्म उवाच:
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा ||
४० ख
भीष्म उवाच:
परेषां प्रतिघातार्थं पदातीनां च गूहनम् |
४१ क
भीष्म उवाच:
अपि ह्यस्मिन्परे गृद्धा भवेय़ुर्ये पुरोगमाः ||
४१ ख
भीष्म उवाच:
ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः |
४२ क
भीष्म उवाच:
ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः ||
४२ ख
भीष्म उवाच:
अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः |
४३ क
भीष्म उवाच:
स्कन्धदर्शनमात्रं तु तिष्ठेय़ुर्वा समीपतः ||
४३ ख
भीष्म उवाच:
संहतान्योधय़ेदल्पान्कामं विस्तारय़ेद्वहून् |
४४ क
भीष्म उवाच:
सूचीमुखमनीकं स्यादल्पानां वहुभिः सह ||
४४ ख
भीष्म उवाच:
सम्प्रय़ुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम् |
४५ क
भीष्म उवाच:
प्रगृह्य वाहून्क्रोशेत भग्ना भग्नाः परा इति ||
४५ ख
भीष्म उवाच:
आगतं नो मित्रवलं प्रहरध्वमभीतवत् |
४६ क
भीष्म उवाच:
शव्दवन्तोऽनुधावेय़ुः कुर्वन्तो भैरवं रवम् ||
४६ ख
भीष्म उवाच:
क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान् |
४७ क
भीष्म उवाच:
भेरीमृदङ्गपणवान्नादय़ेय़ुश्च कुञ्जरान् ||
४७ ख