युधिष्ठिर उवाच:
आलोकदानं नामैतत्कीदृशं भरतर्षभ |
१ क
युधिष्ठिर उवाच:
कथमेतत्समुत्पन्नं फलं चात्र व्रवीहि मे ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
मनोः प्रजापतेर्वादं सुवर्णस्य च भारत ||
२ ख
भीष्म उवाच:
तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः |
३ क
भीष्म उवाच:
वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे ||
३ ख
भीष्म उवाच:
कुलशीलगुणोपेतः स्वाध्याय़े च परं गतः |
४ क
भीष्म उवाच:
वहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः ||
४ ख
भीष्म उवाच:
स कदाचिन्मनुं विप्रो ददर्शोपससर्प च |
५ क
भीष्म उवाच:
कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः ||
५ ख
भीष्म उवाच:
ततस्तौ सिद्धसङ्कल्पौ मेरौ काञ्चनपर्वते |
६ क
भीष्म उवाच:
रमणीय़े शिलापृष्ठे सहितौ संन्यषीदताम् ||
६ ख
भीष्म उवाच:
तत्र तौ कथय़ामास्तां कथा नानाविधाश्रय़ाः |
७ क
भीष्म उवाच:
व्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् ||
७ ख
भीष्म उवाच:
सुवर्णस्त्वव्रवीद्वाक्यं मनुं स्वाय़म्भुवं प्रभुम् |
८ क
भीष्म उवाच:
हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि ||
८ ख
भीष्म उवाच:
सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर |
९ क
भीष्म उवाच:
किमेतत्कथमुत्पन्नं फलय़ोगं च शंस मे ||
९ ख
मनुरु उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१० क
मनुरु उवाच:
शुक्रस्य च वलेश्चैव संवादं वै समागमे ||
१० ख
मनुरु उवाच:
वलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः |
११ क
मनुरु उवाच:
समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ||
११ ख
मनुरु उवाच:
तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः |
१२ क
मनुरु उवाच:
निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः ||
१२ ख
मनुरु उवाच:
कथेय़मभवत्तत्र या त्वय़ा परिकीर्तिता |
१३ क
मनुरु उवाच:
सुमनोधूपदीपानां सम्प्रदाने फलं प्रति ||
१३ ख
मनुरु उवाच:
ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् |
१४ क
मनुरु उवाच:
सुमनोधूपदीपानां किं फलं व्रह्मवित्तम |
१४ ख
मनुरु उवाच:
प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ||
१४ ग
शुक्र उवाच:
तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् |
१५ क
शुक्र उवाच:
एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च ||
१५ ख
शुक्र उवाच:
सोमस्यात्मा च वहुधा सम्भूतः पृथिवीतले |
१६ क
शुक्र उवाच:
अमृतं च विषं चैव याश्चान्यास्तुल्यजातय़ः ||
१६ ख
शुक्र उवाच:
अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च |
१७ क
शुक्र उवाच:
मनो ग्लपय़ते तीव्रं विषं गन्धेन सर्वशः ||
१७ ख
शुक्र उवाच:
अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् |
१८ क
शुक्र उवाच:
ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसम्भवम् ||
१८ ख
शुक्र उवाच:
मनो ह्लादय़ते यस्माच्छ्रिय़ं चापि दधाति ह |
१९ क
शुक्र उवाच:
तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ||
१९ ख
शुक्र उवाच:
देवताभ्यः सुमनसो यो ददाति नरः शुचिः |
२० क
शुक्र उवाच:
तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः ||
२० ख
शुक्र उवाच:
यं यमुद्दिश्य दीय़ेरन्देवं सुमनसः प्रभो |
२१ क
शुक्र उवाच:
मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ||
२१ ख
शुक्र उवाच:
ज्ञेय़ास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् |
२२ क
शुक्र उवाच:
ओषध्यो वहुवीर्याश्च वहुरूपास्तथैव च ||
२२ ख
शुक्र उवाच:
यज्ञिय़ानां च वृक्षाणामय़ज्ञिय़ान्निवोध मे |
२३ क
शुक्र उवाच:
आसुराणि च माल्यानि दैवतेभ्यो हितानि च ||
२३ ख
शुक्र उवाच:
राक्षसानां सुराणां च यक्षाणां च तथा प्रिय़ाः |
२४ क
शुक्र उवाच:
पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः ||
२४ ख
शुक्र उवाच:
वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रय़ाः |
२५ क
शुक्र उवाच:
अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः ||
२५ ख
शुक्र उवाच:
द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः |
२६ क
शुक्र उवाच:
इष्टगन्धानि देवानां पुष्पाणीति विभावय़ेत् ||
२६ ख
शुक्र उवाच:
अकण्टकानां वृक्षाणां श्वेतप्राय़ाश्च वर्णतः |
२७ क
शुक्र उवाच:
तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ||
२७ ख
शुक्र उवाच:
जलजानि च माल्यानि पद्मादीनि च यानि च |
२८ क
शुक्र उवाच:
गन्धर्वनागय़क्षेभ्यस्तानि दद्याद्विचक्षणः ||
२८ ख
शुक्र उवाच:
ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः |
२९ क
शुक्र उवाच:
शत्रूणामभिचारार्थमथर्वसु निदर्शिताः ||
२९ ख
शुक्र उवाच:
तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः |
३० क
शुक्र उवाच:
रक्तभूय़िष्ठवर्णाश्च कृष्णाश्चैवोपहारय़ेत् ||
३० ख
शुक्र उवाच:
मनोहृदय़नन्दिन्यो विमर्दे मधुराश्च याः |
३१ क
शुक्र उवाच:
चारुरूपाः सुमनसो मानुषाणां स्मृता विभो ||
३१ ख
शुक्र उवाच:
न तु श्मशानसम्भूता न देवाय़तनोद्भवाः |
३२ क
शुक्र उवाच:
संनय़ेत्पुष्टिय़ुक्तेषु विवाहेषु रहःसु च ||
३२ ख
शुक्र उवाच:
गिरिसानुरुहाः सौम्या देवानामुपपादय़ेत् |
३३ क
शुक्र उवाच:
प्रोक्षिताभ्युक्षिताः सौम्या यथाय़ोगं यथास्मृति ||
३३ ख
शुक्र उवाच:
गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः |
३४ क
शुक्र उवाच:
नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ||
३४ ख
शुक्र उवाच:
सद्यः प्रीणाति देवान्वै ते प्रीता भावय़न्त्युत |
३५ क
शुक्र उवाच:
सङ्कल्पसिद्धा मर्त्यानामीप्सितैश्च मनोरथैः ||
३५ ख
शुक्र उवाच:
देवाः प्रीणन्ति सततं मानिता मानय़न्ति च |
३६ क
शुक्र उवाच:
अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् ||
३६ ख
शुक्र उवाच:
अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् |
३७ क
शुक्र उवाच:
धूपांश्च विविधान्साधूनसाधूंश्च निवोध मे ||
३७ ख
शुक्र उवाच:
निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रय़ः |
३८ क
शुक्र उवाच:
इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु ||
३८ ख
शुक्र उवाच:
निर्यासाः सल्लकीवर्ज्या देवानां दय़ितास्तु ते |
३९ क
शुक्र उवाच:
गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चय़ः ||
३९ ख
शुक्र उवाच:
अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् |
४० क
शुक्र उवाच:
दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः ||
४० ख
शुक्र उवाच:
अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः |
४१ क
शुक्र उवाच:
फाणितासवसंय़ुक्तैर्मनुष्याणां विधीय़ते ||
४१ ख
शुक्र उवाच:
देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः |
४२ क
शुक्र उवाच:
येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः ||
४२ ख
शुक्र उवाच:
य एवोक्ताः सुमनसां प्रदाने गुणहेतवः |
४३ क
शुक्र उवाच:
धूपेष्वपि परिज्ञेय़ास्त एव प्रीतिवर्धनाः ||
४३ ख
शुक्र उवाच:
दीपदाने प्रवक्ष्यामि फलय़ोगमनुत्तमम् |
४४ क
शुक्र उवाच:
यथा येन यदा चैव प्रदेय़ा यादृशाश्च ते ||
४४ ख
शुक्र उवाच:
ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि वर्ण्यते |
४५ क
शुक्र उवाच:
प्रदानं तेजसां तस्मात्तेजो वर्धय़ते नृणाम् ||
४५ ख
शुक्र उवाच:
अन्धं तमस्तमिस्रं च दक्षिणाय़नमेव च |
४६ क
शुक्र उवाच:
उत्तराय़णमेतस्माज्ज्योतिर्दानं प्रशस्यते ||
४६ ख
शुक्र उवाच:
यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम् |
४७ क
शुक्र उवाच:
तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चय़ः ||
४७ ख
शुक्र उवाच:
देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः |
४८ क
शुक्र उवाच:
तामसा राक्षसाश्चेति तस्माद्दीपः प्रदीय़ते ||
४८ ख
शुक्र उवाच:
आलोकदानाच्चक्षुष्मान्प्रभाय़ुक्तो भवेन्नरः |
४९ क
शुक्र उवाच:
तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशय़ेत् ||
४९ ख
शुक्र उवाच:
दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः |
५० क