chevron_left वन पर्व अध्याय १०१
देवा ऊचुः:
इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः |
१ क
देवा ऊचुः:
ता भाविता भावय़न्ति हव्यकव्यैर्दिवौकसः ||
१ ख
देवा ऊचुः:
लोका ह्येवं वर्तय़न्ति अन्योन्यं समुपाश्रिताः |
२ क
देवा ऊचुः:
त्वत्प्रसादान्निरुद्विग्नास्त्वय़ैव परिरक्षिताः ||
२ ख
देवा ऊचुः:
इदं च समनुप्राप्तं लोकानां भय़मुत्तमम् |
३ क
देवा ऊचुः:
न च जानीम केनेमे रात्रौ वध्यन्ति व्राह्मणाः ||
३ ख
देवा ऊचुः:
क्षीणेषु च व्राह्मणेषु पृथिवी क्षय़मेष्यति |
४ क
देवा ऊचुः:
ततः पृथिव्यां क्षीणाय़ां त्रिदिवं क्षय़मेष्यति ||
४ ख
देवा ऊचुः:
त्वत्प्रसादान्महावाहो लोकाः सर्वे जगत्पते |
५ क
देवा ऊचुः:
विनाशं नाधिगच्छेय़ुस्त्वय़ा वै परिरक्षिताः ||
५ ख
विष्णुरु उवाच:
विदितं मे सुराः सर्वं प्रजानां क्षय़कारणम् |
६ क
विष्णुरु उवाच:
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः ||
६ ख
विष्णुरु उवाच:
कालेय़ इति विख्यातो गणः परमदारुणः |
७ क
विष्णुरु उवाच:
तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रवाधितम् ||
७ ख
विष्णुरु उवाच:
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता |
८ क
विष्णुरु उवाच:
जीवितं परिरक्षन्तः प्रविष्टा वरुणालय़म् ||
८ ख
विष्णुरु उवाच:
ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् |
९ क
विष्णुरु उवाच:
उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह ||
९ ख
विष्णुरु उवाच:
न तु शक्याः क्षय़ं नेतुं समुद्राश्रय़गा हि ते |
१० क
विष्णुरु उवाच:
समुद्रस्य क्षय़े वुद्धिर्भवद्भिः सम्प्रधार्यताम् |
१० ख
विष्णुरु उवाच:
अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे ||
१० ग
विष्णुरु उवाच:
एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम् |
११ क
विष्णुरु उवाच:
परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं यय़ुः ||
११ ख
विष्णुरु उवाच:
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् |
१२ क
विष्णुरु उवाच:
उपास्यमानमृषिभिर्देवैरिव पितामहम् ||
१२ ख
विष्णुरु उवाच:
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् |
१३ क
विष्णुरु उवाच:
आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन् ||
१३ ख
देवा ऊचुः:
नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा |
१४ क
देवा ऊचुः:
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ||
१४ ख
देवा ऊचुः:
क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः |
१५ क
देवा ऊचुः:
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ||
१५ ख
देवा ऊचुः:
तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः |
१६ क
देवा ऊचुः:
त्वामेव नाथमासाद्य निर्वृतिं परमां गताः ||
१६ ख
देवा ऊचुः:
अस्माकं भय़भीतानां नित्यशो भगवान्गतिः |
१७ क
देवा ऊचुः:
ततस्त्वार्ताः प्रय़ाचामस्त्वां वरं वरदो ह्यसि ||
१७ ख