chevron_left उद्योग पर्व अध्याय १०१
नारद उवाच:
इय़ं भोगवती नाम पुरी वासुकिपालिता |
१ क
नारद उवाच:
यादृशी देवराजस्य पुरीवर्यामरावती ||
१ ख
नारद उवाच:
एष शेषः स्थितो नागो येनेय़ं धार्यते सदा |
२ क
नारद उवाच:
तपसा लोकमुख्येन प्रभावमहता मही ||
२ ख
नारद उवाच:
श्वेतोच्चय़निभाकारो नानाविधविभूषणः |
३ क
नारद उवाच:
सहस्रं धारय़न्मूर्ध्नां ज्वालाजिह्वो महावलः ||
३ ख
नारद उवाच:
इह नानाविधाकारा नानाविधविभूषणाः |
४ क
नारद उवाच:
सुरसाय़ाः सुता नागा निवसन्ति गतव्यथाः ||
४ ख
नारद उवाच:
मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः |
५ क
नारद उवाच:
सहस्रसङ्ख्या वलिनः सर्वे रौद्राः स्वभावतः ||
५ ख
नारद उवाच:
सहस्रशिरसः केचित्केचित्पञ्चशताननाः |
६ क
नारद उवाच:
शतशीर्षास्तथा केचित्केचित्त्रिशिरसोऽपि च ||
६ ख
नारद उवाच:
द्विपञ्चशिरसः केचित्केचित्सप्तमुखास्तथा |
७ क
नारद उवाच:
महाभोगा महाकाय़ाः पर्वताभोगभोगिनः ||
७ ख
नारद उवाच:
वहूनीह सहस्राणि प्रय़ुतान्यर्वुदानि च |
८ क
नारद उवाच:
नागानामेकवंशानां यथाश्रेष्ठांस्तु मे शृणु ||
८ ख
नारद उवाच:
वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जय़ौ |
९ क
नारद उवाच:
कालीय़ो नहुषश्चैव कम्वलाश्वतरावुभौ ||
९ ख
नारद उवाच:
वाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः |
१० क
नारद उवाच:
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ||
१० ख
नारद उवाच:
आर्यको नन्दकश्चैव तथा कलशपोतकौ |
११ क
नारद उवाच:
कैलासकः पिञ्जरको नागश्चैरावतस्तथा ||
११ ख
नारद उवाच:
सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ |
१२ क
नारद उवाच:
आप्तः कोटनकश्चैव शिखी निष्ठूरिकस्तथा ||
१२ ख
नारद उवाच:
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः |
१३ क
नारद उवाच:
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ||
१३ ख
नारद उवाच:
करवीरः पीठरकः संवृत्तो वृत्त एव च |
१४ क
नारद उवाच:
पिण्डारो विल्वपत्रश्च मूषिकादः शिरीषकः ||
१४ ख
नारद उवाच:
दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः |
१५ क
नारद उवाच:
कौरव्यो धृतराष्ट्रश्च कुमारः कुशकस्तथा ||
१५ ख
नारद उवाच:
विरजा धारणश्चैव सुवाहुर्मुखरो जय़ः |
१६ क
नारद उवाच:
वधिरान्धौ विकुण्डश्च विरसः सुरसस्तथा ||
१६ ख
नारद उवाच:
एते चान्ये च वहवः कश्यपस्यात्मजाः स्मृताः |
१७ क
नारद उवाच:
मातले पश्य यद्यत्र कश्चित्ते रोचते वरः ||
१७ ख
कण्व उवाच:
मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै |
१८ क
कण्व उवाच:
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ||
१८ ख
कण्व उवाच:
स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च |
१९ क
कण्व उवाच:
द्युतिमान्दर्शनीय़श्च कस्यैष कुलनन्दनः ||
१९ ख
कण्व उवाच:
कः पिता जननी चास्य कतमस्यैष भोगिनः |
२० क
कण्व उवाच:
वंशस्य कस्यैष महान्केतुभूत इव स्थितः ||
२० ख
कण्व उवाच:
प्रणिधानेन धैर्येण रूपेण वय़सा च मे |
२१ क
कण्व उवाच:
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ||
२१ ख
कण्व उवाच:
मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात् |
२२ क
कण्व उवाच:
निवेदय़ामास तदा माहात्म्यं जन्म कर्म च ||
२२ ख
कण्व उवाच:
ऐरावतकुले जातः सुमुखो नाम नागराट् |
२३ क
कण्व उवाच:
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च ||
२३ ख
कण्व उवाच:
एतस्य हि पिता नागश्चिकुरो नाम मातले |
२४ क
कण्व उवाच:
नचिराद्वैनतेय़ेन पञ्चत्वमुपपादितः ||
२४ ख
कण्व उवाच:
ततोऽव्रवीत्प्रीतमना मातलिर्नारदं वचः |
२५ क
कण्व उवाच:
एष मे रुचितस्तात जामाता भुजगोत्तमः ||
२५ ख
कण्व उवाच:
क्रिय़तामत्र यत्नो हि प्रीतिमानस्म्यनेन वै |
२६ क
कण्व उवाच:
अस्य नागपतेर्दातुं प्रिय़ां दुहितरं मुने ||
२६ ख