सञ्जय़ उवाच:
दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम् |
१ क
सञ्जय़ उवाच:
यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ||
१ ख
सञ्जय़ उवाच:
दुर्योधनो महाराज दुःशासनमभाषत |
२ क
सञ्जय़ उवाच:
एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः ||
२ ख
सञ्जय़ उवाच:
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ |
३ क
सञ्जय़ उवाच:
तस्य कार्यं त्वय़ा वीर रक्षणं सुमहात्मनः ||
३ ख
सञ्जय़ उवाच:
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः |
४ क
सञ्जय़ उवाच:
निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ||
४ ख
सञ्जय़ उवाच:
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् |
५ क
सञ्जय़ उवाच:
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः ||
५ ख
सञ्जय़ उवाच:
स भवान्सर्वसैन्येन परिवार्य पितामहम् |
६ क
सञ्जय़ उवाच:
समरे दुष्करं कर्म कुर्वाणं परिरक्षतु ||
६ ख
सञ्जय़ उवाच:
एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव |
७ क
सञ्जय़ उवाच:
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ||
७ ख
सञ्जय़ उवाच:
ततः शतसहस्रेण हय़ानां सुवलात्मजः |
८ क
सञ्जय़ उवाच:
विमलप्रासहस्तानामृष्टितोमरधारिणाम् ||
८ ख
सञ्जय़ उवाच:
दर्पितानां सुवेगानां वलस्थानां पताकिनाम् |
९ क
सञ्जय़ उवाच:
शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ||
९ ख
सञ्जय़ उवाच:
नकुलं सहदेवं च धर्मराजं च पाण्डवम् |
१० क
सञ्जय़ उवाच:
न्यवारय़न्नरश्रेष्ठं परिवार्य समन्ततः ||
१० ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा शूराणां हय़सादिनाम् |
११ क
सञ्जय़ उवाच:
अय़ुतं प्रेषय़ामास पाण्डवानां निवारणे ||
११ ख
सञ्जय़ उवाच:
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे |
१२ क
सञ्जय़ उवाच:
खुराहता धरा राजंश्चकम्पे च ननाद च ||
१२ ख
सञ्जय़ उवाच:
खुरशव्दश्च सुमहान्वाजिनां शुश्रुवे तदा |
१३ क
सञ्जय़ उवाच:
महावंशवनस्येव दह्यमानस्य पर्वते ||
१३ ख
सञ्जय़ उवाच:
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः |
१४ क
सञ्जय़ उवाच:
दिवाकरपथं प्राप्य छादय़ामास भास्करम् ||
१४ ख
सञ्जय़ उवाच:
वेगवद्भिर्हय़ैस्तैस्तु क्षोभितं पाण्डवं वलम् |
१५ क
सञ्जय़ उवाच:
निपतद्भिर्महावेगैर्हंसैरिव महत्सरः |
१५ ख
सञ्जय़ उवाच:
हेषतां चैव शव्देन न प्राज्ञाय़त किञ्चन ||
१५ ग
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ |
१६ क
सञ्जय़ उवाच:
प्रत्यघ्नंस्तरसा वेगं समरे हय़सादिनाम् ||
१६ ख
सञ्जय़ उवाच:
उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः |
१७ क
सञ्जय़ उवाच:
पौर्णमास्यामम्वुवेगं यथा वेला महोदधेः ||
१७ ख
सञ्जय़ उवाच:
ततस्ते रथिनो राजञ्शरैः संनतपर्वभिः |
१८ क
सञ्जय़ उवाच:
न्यकृन्तन्नुत्तमाङ्गानि काय़ेभ्यो हय़सादिनाम् ||
१८ ख
सञ्जय़ उवाच:
ते निपेतुर्महाराज निहता दृढधन्विभिः |
१९ क
सञ्जय़ उवाच:
नागैरिव महानागा यथा स्युर्गिरिगह्वरे ||
१९ ख
सञ्जय़ उवाच:
तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः |
२० क
सञ्जय़ उवाच:
न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ||
२० ख
सञ्जय़ उवाच:
अत्यासन्ना हय़ारोहा ऋष्टिभिर्भरतर्षभ |
२१ क
सञ्जय़ उवाच:
अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात् ||
२१ ख
सञ्जय़ उवाच:
ससादिनो हय़ा राजंस्तत्र तत्र निषूदिताः |
२२ क
सञ्जय़ उवाच:
पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः ||
२२ ख
सञ्जय़ उवाच:
वध्यमाना हय़ास्ते तु प्राद्रवन्त भय़ार्दिताः |
२३ क
सञ्जय़ उवाच:
यथा सिंहान्समासाद्य मृगाः प्राणपराय़णाः ||
२३ ख
सञ्जय़ उवाच:
पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे |
२४ क
सञ्जय़ उवाच:
दध्मुः शङ्खांश्च भेरीश्च ताडय़ामासुराहवे ||
२४ ख
सञ्जय़ उवाच:
ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम् |
२५ क
सञ्जय़ उवाच:
अव्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः ||
२५ ख
सञ्जय़ उवाच:
एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान् |
२६ क
सञ्जय़ उवाच:
पश्यतां नो महावाहो सेनां द्रावय़ते वली ||
२६ ख
सञ्जय़ उवाच:
तं वारय़ महावाहो वेलेव मकरालय़म् |
२७ क
सञ्जय़ उवाच:
त्वं हि संश्रूय़सेऽत्यर्थमसह्यवलविक्रमः ||
२७ ख
सञ्जय़ उवाच:
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् |
२८ क
सञ्जय़ उवाच:
प्रय़यौ रथवंशेन यत्र राजा युधिष्ठिरः ||
२८ ख
सञ्जय़ उवाच:
तदापतद्वै सहसा शल्यस्य सुमहद्वलम् |
२९ क
सञ्जय़ उवाच:
महौघवेगं समरे वारय़ामास पाण्डवः ||
२९ ख
सञ्जय़ उवाच:
मद्रराजं च समरे धर्मराजो महारथः |
३० क
सञ्जय़ उवाच:
दशभिः साय़कैस्तूर्णमाजघान स्तनान्तरे |
३० ख
सञ्जय़ उवाच:
नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः ||
३० ग
सञ्जय़ उवाच:
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः |
३१ क
सञ्जय़ उवाच:
युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः |
३१ ख
सञ्जय़ उवाच:
माद्रीपुत्रौ च संरव्धौ द्वाभ्यां द्वाभ्यामताडय़त् ||
३१ ग
सञ्जय़ उवाच:
ततो भीमो महावाहुर्दृष्ट्वा राजानमाहवे |
३२ क
सञ्जय़ उवाच:
मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा |
३२ ख
सञ्जय़ उवाच:
अभ्यद्रवत सङ्ग्रामे युधिष्ठिरममित्रजित् ||
३२ ग
सञ्जय़ उवाच:
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् |
३३ क
सञ्जय़ उवाच:
अपरां दिशमास्थाय़ द्योतमाने दिवाकरे ||
३३ ख