सञ्जय़ उवाच:
विदितं ते महावाहो यथा द्रोणो महारथः |
४६ क
सञ्जय़ उवाच:
ग्रहणे धर्मराजस्य सर्वोपाय़ेन वर्तते ||
४६ ख
सञ्जय़ उवाच:
न च मे गमने कृत्यं तादृक्पार्षत विद्यते |
४७ क
सञ्जय़ उवाच:
यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ||
४७ ख
सञ्जय़ उवाच:
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे |
४८ क
सञ्जय़ उवाच:
प्रय़ास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः |
४८ ख
सञ्जय़ उवाच:
धर्मराजस्य वचने स्थातव्यमविशङ्कय़ा ||
४८ ग
सञ्जय़ उवाच:
सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् |
४९ क
सञ्जय़ उवाच:
एतद्धि सर्वकार्याणां परमं कृत्यमाहवे ||
४९ ख
सञ्जय़ उवाच:
तमव्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् |
५० क
सञ्जय़ उवाच:
ईप्सितेन महावाहो गच्छ पार्थाविचारय़न् ||
५० ख
सञ्जय़ उवाच:
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन |
५१ क
सञ्जय़ उवाच:
निग्रहं धर्मराजस्य प्रकरिष्यति संय़ुगे ||
५१ ख
सञ्जय़ उवाच:
ततो निक्षिप्य राजानं धृष्टद्युम्नाय़ पाण्डवः |
५२ क
सञ्जय़ उवाच:
अभिवाद्य गुरुं ज्येष्ठं प्रय़यौ यत्र फल्गुनः ||
५२ ख
सञ्जय़ उवाच:
परिष्वक्तस्तु कौन्तेय़ो धर्मराजेन भारत |
५३ क
सञ्जय़ उवाच:
आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः ||
५३ ख
सञ्जय़ उवाच:
भीमसेनो महावाहुः कवची शुभकुण्डली |
५४ क
सञ्जय़ उवाच:
साङ्गदः सतनुत्राणः सशरी रथिनां वरः ||
५४ ख
सञ्जय़ उवाच:
तस्य कार्ष्णाय़सं वर्म हेमचित्रं महर्द्धिमत् |
५५ क
सञ्जय़ उवाच:
विवभौ पर्वतश्लिष्टः सविद्युदिव तोय़दः ||
५५ ख
सञ्जय़ उवाच:
पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः |
५६ क
सञ्जय़ उवाच:
कण्ठत्राणेन च वभौ सेन्द्राय़ुध इवाम्वुदः ||
५६ ख
सञ्जय़ उवाच:
प्रय़ाते भीमसेने तु तव सैन्यं युय़ुत्सय़ा |
५७ क
सञ्जय़ उवाच:
पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते ||
५७ ख
सञ्जय़ उवाच:
तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् |
५८ क
सञ्जय़ उवाच:
पुनर्भीमं महावाहुर्धर्मपुत्रोऽभ्यभाषत ||
५८ ख
सञ्जय़ उवाच:
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् |
५९ क
सञ्जय़ उवाच:
पृथिवीं चान्तरिक्षं च विनादय़ति शङ्खराट् ||
५९ ख
सञ्जय़ उवाच:
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि |
६० क
सञ्जय़ उवाच:
कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः ||
६० ख
सञ्जय़ उवाच:
नूनमार्या महत्कुन्ती पापमद्य निदर्शनम् |
६१ क
सञ्जय़ उवाच:
द्रौपदी च सुभद्रा च पश्यन्ति सह वन्धुभिः ||
६१ ख
सञ्जय़ उवाच:
स भीमस्त्वरय़ा युक्तो याहि यत्र धनञ्जय़ः |
६२ क
सञ्जय़ उवाच:
मुह्यन्तीव हि मे सर्वा धनञ्जय़दिदृक्षय़ा |
६२ ख
सञ्जय़ उवाच:
दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात् ||
६२ ग
सञ्जय़ उवाच:
गच्छ गच्छेति च पुनर्भीमसेनमभाषत |
६३ क
सञ्जय़ उवाच:
भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रिय़ङ्करः |
६३ ख
सञ्जय़ उवाच:
आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय़ चासकृत् ||
६३ ग
सञ्जय़ उवाच:
विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः |
६४ क
सञ्जय़ उवाच:
दर्शय़न्घोरमात्मानममित्रान्सहसाभ्ययात् ||
६४ ख
सञ्जय़ उवाच:
तमूहुर्जवना दान्ता विकुर्वाणा हय़ोत्तमाः |
६५ क
सञ्जय़ उवाच:
विशोकेनाभिसंय़त्ता मनोमारुतरंहसः ||
६५ ख
सञ्जय़ उवाच:
आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना |
६६ क
सञ्जय़ उवाच:
सोऽवकर्षन्विकर्षंश्च सेनाग्रं समलोडय़त् ||
६६ ख
सञ्जय़ उवाच:
तं प्रय़ान्तं महावाहुं पाञ्चालाः सहसोमकाः |
६७ क
सञ्जय़ उवाच:
पृष्ठतोऽनुय़युः शूरा मघवन्तमिवामराः ||
६७ ख
सञ्जय़ उवाच:
तं ससेना महाराज सोदर्याः पर्यवारय़न् |
६८ क
सञ्जय़ उवाच:
दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः ||
६८ ख
सञ्जय़ उवाच:
दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा |
६९ क
सञ्जय़ उवाच:
विन्दानुविन्दौ सुमुखो दीर्घवाहुः सुदर्शनः ||
६९ ख
सञ्जय़ उवाच:
वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः |
७० क
सञ्जय़ उवाच:
अभय़ो रौद्रकर्मा च सुवर्मा दुर्विमोचनः ||
७० ख
सञ्जय़ उवाच:
विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः |
७१ क
सञ्जय़ उवाच:
संय़त्ताः समरे शूरा भीमसेनमुपाद्रवन् ||
७१ ख
सञ्जय़ उवाच:
तान्समीक्ष्य तु कौन्तेय़ो भीमसेनः पराक्रमी |
७२ क
सञ्जय़ उवाच:
अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ||
७२ ख
सञ्जय़ उवाच:
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शय़न् |
७३ क
सञ्जय़ उवाच:
वारय़न्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् ||
७३ ख
सञ्जय़ उवाच:
स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत् |
७४ क
सञ्जय़ उवाच:
अग्रतश्च गजानीकं शरवर्षैरवाकिरत् ||
७४ ख
सञ्जय़ उवाच:
सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः |
७५ क
सञ्जय़ उवाच:
दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः ||
७५ ख
सञ्जय़ उवाच:
त्रासिताः शरभस्येव गर्जितेन वने मृगाः |
७६ क
सञ्जय़ उवाच:
प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान् ||
७६ ख
सञ्जय़ उवाच:
पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत् |
७७ क
सञ्जय़ उवाच:
तमवारय़दाचार्यो वेलेवोद्वृत्तमर्णवम् ||
७७ ख
सञ्जय़ उवाच:
ललाटेऽताडय़च्चैनं नाराचेन स्मय़न्निव |
७८ क
सञ्जय़ उवाच:
ऊर्ध्वरश्मिरिवादित्यो विवभौ तत्र पाण्डवः ||
७८ ख
सञ्जय़ उवाच:
स मन्यमानस्त्वाचार्यो ममाय़ं फल्गुनो यथा |
७९ क
सञ्जय़ उवाच:
भीमः करिष्यते पूजामित्युवाच वृकोदरम् ||
७९ ख
सञ्जय़ उवाच:
भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् |
८० क
सञ्जय़ उवाच:
मामनिर्जित्य समरे शत्रुमध्ये महावल ||
८० ख
सञ्जय़ उवाच:
यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम |
८१ क
सञ्जय़ उवाच:
अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वय़ा ||
८१ ख
सञ्जय़ उवाच:
अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः |
८२ क
सञ्जय़ उवाच:
क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् ||
८२ ख
सञ्जय़ उवाच:
तवार्जुनो नानुमते व्रह्मवन्धो रणाजिरम् |
८३ क
सञ्जय़ उवाच:
प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्वलम् ||
८३ ख
सञ्जय़ उवाच:
येन वै परमां पूजां कुर्वता मानितो ह्यसि |
८४ क
सञ्जय़ उवाच:
नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः ||
८४ ख
सञ्जय़ उवाच:
पिता नस्त्वं गुरुर्वन्धुस्तथा पुत्रा हि ते वय़म् |
८५ क
सञ्जय़ उवाच:
इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ||
८५ ख
सञ्जय़ उवाच:
अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते |
८६ क
सञ्जय़ उवाच:
यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह |
८६ ख
सञ्जय़ उवाच:
एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् ||
८६ ग
सञ्जय़ उवाच:
अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः |
८७ क
सञ्जय़ उवाच:
द्रोणाय़ावसृजद्राजन्स रथादवपुप्लुवे ||
८७ ख
सञ्जय़ उवाच:
साश्वसूतध्वजं यानं द्रोणस्यापोथय़त्तदा |
८८ क
सञ्जय़ उवाच:
प्रामृद्नाच्च वहून्योधान्वाय़ुर्वृक्षानिवौजसा ||
८८ ख
सञ्जय़ उवाच:
तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम् |
८९ क
सञ्जय़ उवाच:
अन्यं च रथमास्थाय़ द्रोणः प्रहरतां वरः ||
८९ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज भीमसेनः पराक्रमी |
९० क
सञ्जय़ उवाच:
अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् ||
९० ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे तव पुत्रा महारथाः |
९१ क
सञ्जय़ उवाच:
भीमं भीमवलं युद्धेऽय़ोधय़ंस्तु जय़ैषिणः ||
९१ ख
सञ्जय़ उवाच:
ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् |
९२ क
सञ्जय़ उवाच:
सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ||
९२ ख
सञ्जय़ उवाच:
आपतन्तीं महाशक्तिं तव पुत्रप्रचोदिताम् |
९३ क
सञ्जय़ उवाच:
द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् ||
९३ ख