वैशम्पाय़न उवाच:
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् |
१ क
वैशम्पाय़न उवाच:
कुरवोऽथ कुरुक्षेत्रं त्रय़मेतदवर्धत ||
१ ख
वैशम्पाय़न उवाच:
ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च |
२ क
वैशम्पाय़न उवाच:
यथर्तुवर्षी पर्जन्यो वहुपुष्पफला द्रुमाः ||
२ ख
वैशम्पाय़न उवाच:
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः |
३ क
वैशम्पाय़न उवाच:
गन्धवन्ति च माल्यानि रसवन्ति फलानि च ||
३ ख
वैशम्पाय़न उवाच:
वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः |
४ क
वैशम्पाय़न उवाच:
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ||
४ ख
वैशम्पाय़न उवाच:
नाभवन्दस्यवः केचिन्नाधर्मरुचय़ो जनाः |
५ क
वैशम्पाय़न उवाच:
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ||
५ ख
वैशम्पाय़न उवाच:
दानक्रिय़ाधर्मशीला यज्ञव्रतपराय़णाः |
६ क
वैशम्पाय़न उवाच:
अन्योन्यप्रीतिसंय़ुक्ता व्यवर्धन्त प्रजास्तदा ||
६ ख
वैशम्पाय़न उवाच:
मानक्रोधविहीनाश्च जना लोभविवर्जिताः |
७ क
वैशम्पाय़न उवाच:
अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ||
७ ख
वैशम्पाय़न उवाच:
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत |
८ क
वैशम्पाय़न उवाच:
द्वारतोरणनिर्यूहैर्युक्तमभ्रचय़ोपमैः |
८ ख
वैशम्पाय़न उवाच:
प्रासादशतसम्वाधं महेन्द्रपुरसंनिभम् ||
८ ग
वैशम्पाय़न उवाच:
नदीषु वनखण्डेषु वापीपल्वलसानुषु |
९ क
वैशम्पाय़न उवाच:
काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ||
९ ख
वैशम्पाय़न उवाच:
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा |
१० क
वैशम्पाय़न उवाच:
विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः |
१० ख
वैशम्पाय़न उवाच:
नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रिय़ः ||
१० ग
वैशम्पाय़न उवाच:
तस्मिञ्जनपदे रम्ये वहवः कुरुभिः कृताः |
११ क
वैशम्पाय़न उवाच:
कूपारामसभावाप्यो व्राह्मणावसथास्तथा |
११ ख
वैशम्पाय़न उवाच:
भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ||
११ ग
वैशम्पाय़न उवाच:
वभूव रमणीय़श्च चैत्ययूपशताङ्कितः |
१२ क
वैशम्पाय़न उवाच:
स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः |
१२ ख
वैशम्पाय़न उवाच:
भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ||
१२ ग
वैशम्पाय़न उवाच:
क्रिय़माणेषु कृत्येषु कुमाराणां महात्मनाम् |
१३ क
वैशम्पाय़न उवाच:
पौरजानपदाः सर्वे वभूवुः सततोत्सवाः ||
१३ ख
वैशम्पाय़न उवाच:
गृहेषु कुरुमुख्यानां पौराणां च नराधिप |
१४ क
वैशम्पाय़न उवाच:
दीय़तां भुज्यतां चेति वाचोऽश्रूय़न्त सर्वशः ||
१४ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः |
१५ क
वैशम्पाय़न उवाच:
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ||
१५ ख
वैशम्पाय़न उवाच:
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंय़ुताः |
१६ क
वैशम्पाय़न उवाच:
श्रमव्याय़ामकुशलाः समपद्यन्त यौवनम् ||
१६ ख
वैशम्पाय़न उवाच:
धनुर्वेदेऽश्वपृष्ठे च गदाय़ुद्धेऽसिचर्मणि |
१७ क
वैशम्पाय़न उवाच:
तथैव गजशिक्षाय़ां नीतिशास्त्रे च पारगाः ||
१७ ख
वैशम्पाय़न उवाच:
इतिहासपुराणेषु नानाशिक्षासु चाभिभो |
१८ क
वैशम्पाय़न उवाच:
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ||
१८ ख
वैशम्पाय़न उवाच:
पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् |
१९ क
वैशम्पाय़न उवाच:
अत्यन्यान्वलवानासीद्धृतराष्ट्रो महीपतिः ||
१९ ख
वैशम्पाय़न उवाच:
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः |
२० क
वैशम्पाय़न उवाच:
धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ||
२० ख
वैशम्पाय़न उवाच:
प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् |
२१ क
वैशम्पाय़न उवाच:
ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ||
२१ ख
वैशम्पाय़न उवाच:
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् |
२२ क
वैशम्पाय़न उवाच:
सर्वधर्मविदां भीष्मः पुराणां गजसाह्वय़म् ||
२२ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत |
२३ क
वैशम्पाय़न उवाच:
करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ||
२३ ख