युधिष्ठिर उवाच:
किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत |
१ क
युधिष्ठिर उवाच:
किंसंनाहाः कथंशस्त्रा जनाः स्युः संय़ुगे नृप ||
१ ख
भीष्म उवाच:
यथाचरितमेवात्र शस्त्रपत्रं विधीय़ते |
२ क
भीष्म उवाच:
आचारादेव पुरुषस्तथा कर्मसु वर्तते ||
२ ख
भीष्म उवाच:
गान्धाराः सिन्धुसौवीरा नखरप्रासय़ोधिनः |
३ क
भीष्म उवाच:
आभीरवः सुवलिनस्तद्वलं सर्वपारगम् ||
३ ख
भीष्म उवाच:
सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्युशीनराः |
४ क
भीष्म उवाच:
प्राच्या मातङ्गय़ुद्धेषु कुशलाः शठय़ोधिनः ||
४ ख
भीष्म उवाच:
तथा यवनकाम्वोजा मथुरामभितश्च ये |
५ क
भीष्म उवाच:
एते निय़ुद्धकुशला दाक्षिणात्यासिचर्मिणः ||
५ ख
भीष्म उवाच:
सर्वत्र शूरा जाय़न्ते महासत्त्वा महावलाः |
६ क
भीष्म उवाच:
प्राय़ एष समुद्दिष्टो लक्षणानि तु मे शृणु ||
६ ख
भीष्म उवाच:
सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः |
७ क
भीष्म उवाच:
पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः ||
७ ख
भीष्म उवाच:
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथापरे |
८ क
भीष्म उवाच:
प्रवादिनः सुचण्डाश्च क्रोधिनः किंनरीस्वनाः ||
८ ख
भीष्म उवाच:
मेघस्वनाः क्रुद्धमुखाः केचित्करभनिस्वनाः |
९ क
भीष्म उवाच:
जिह्मनासानुजङ्घाश्च दूरगा दूरपातिनः ||
९ ख
भीष्म उवाच:
विडालकुव्जास्तनवस्तनुकेशास्तनुत्वचः |
१० क
भीष्म उवाच:
शूराश्चपलचित्ताश्च ते भवन्ति दुरासदाः ||
१० ख
भीष्म उवाच:
गोधानिमीलिताः केचिन्मृदुप्रकृतय़ोऽपि च |
११ क
भीष्म उवाच:
तुरङ्गगतिनिर्घोषास्ते नराः पारय़िष्णवः ||
११ ख
भीष्म उवाच:
सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः |
१२ क
भीष्म उवाच:
प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च ||
१२ ख
भीष्म उवाच:
गम्भीराक्षा निःसृताक्षाः पिङ्गला भ्रुकुटीमुखाः |
१३ क
भीष्म उवाच:
नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः ||
१३ ख
भीष्म उवाच:
जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽपि च |
१४ क
भीष्म उवाच:
वक्रवाह्वङ्गुलीसक्ताः कृशा धमनिसन्तताः ||
१४ ख
भीष्म उवाच:
प्रविशन्त्यतिवेगेन सम्पराय़ेऽभ्युपस्थिते |
१५ क
भीष्म उवाच:
वारणा इव संमत्तास्ते भवन्ति दुरासदाः ||
१५ ख
भीष्म उवाच:
दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः |
१६ क
भीष्म उवाच:
उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः ||
१६ ख
भीष्म उवाच:
उद्वृत्ताश्चैव सुग्रीवा विनता विहगा इव |
१७ क
भीष्म उवाच:
पिण्डशीर्षाहिवक्त्राश्च वृषदंशमुखा इव ||
१७ ख
भीष्म उवाच:
उग्रस्वना मन्युमन्तो युद्धेष्वारावसारिणः |
१८ क
भीष्म उवाच:
अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शिनः ||
१८ ख
भीष्म उवाच:
त्यक्तात्मानः सर्व एते अन्त्यजा ह्यनिवर्तिनः |
१९ क
भीष्म उवाच:
पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते ||
१९ ख
भीष्म उवाच:
अधार्मिका भिन्नवृत्ताः साध्वेवैषां पराभवः |
२० क
भीष्म उवाच:
एवमेव प्रकुप्यन्ति राज्ञोऽप्येते ह्यभीक्ष्णशः ||
२० ख