युधिष्ठिर उवाच:
श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदाय़िनाम् |
१ क
युधिष्ठिर उवाच:
फलं वलिविधाने च तद्भूय़ो वक्तुमर्हसि ||
१ ख
युधिष्ठिर उवाच:
धूपप्रदानस्य फलं प्रदीपस्य तथैव च |
२ क
युधिष्ठिर उवाच:
वलय़श्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः ||
२ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
३ क
भीष्म उवाच:
नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा ||
३ ख
भीष्म उवाच:
नहुषो हि महाराज राजर्षिः सुमहातपाः |
४ क
भीष्म उवाच:
देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा ||
४ ख
भीष्म उवाच:
तत्रापि प्रय़तो राजन्नहुषस्त्रिदिवे वसन् |
५ क
भीष्म उवाच:
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रिय़ाः ||
५ ख
भीष्म उवाच:
मानुष्यस्तत्र सर्वाः स्म क्रिय़ास्तस्य महात्मनः |
६ क
भीष्म उवाच:
प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः ||
६ ख
भीष्म उवाच:
अग्निकार्याणि समिधः कुशाः सुमनसस्तथा |
७ क
भीष्म उवाच:
वलय़श्चान्नलाजाभिर्धूपनं दीपकर्म च ||
७ ख
भीष्म उवाच:
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः |
८ क
भीष्म उवाच:
जपय़ज्ञान्मनोय़ज्ञांस्त्रिदिवेऽपि चकार सः ||
८ ख
भीष्म उवाच:
दैवतान्यर्चय़ंश्चापि विधिवत्स सुरेश्वरः |
९ क
भीष्म उवाच:
सर्वाण्येव यथान्याय़ं यथापूर्वमरिन्दम ||
९ ख
भीष्म उवाच:
अथेन्द्रस्य भविष्यत्वादहङ्कारस्तमाविशत् |
१० क
भीष्म उवाच:
सर्वाश्चैव क्रिय़ास्तस्य पर्यहीय़न्त भूपते ||
१० ख
भीष्म उवाच:
स ऋषीन्वाहय़ामास वरदानमदान्वितः |
११ क
भीष्म उवाच:
परिहीनक्रिय़श्चापि दुर्वलत्वमुपेय़िवान् ||
११ ख
भीष्म उवाच:
तस्य वाहय़तः कालो मुनिमुख्यांस्तपोधनान् |
१२ क
भीष्म उवाच:
अहङ्काराभिभूतस्य सुमहानत्यवर्तत ||
१२ ख
भीष्म उवाच:
अथ पर्याय़श ऋषीन्वाहनाय़ोपचक्रमे |
१३ क
भीष्म उवाच:
पर्याय़श्चाप्यगस्त्यस्य समपद्यत भारत ||
१३ ख
भीष्म उवाच:
अथागम्य महातेजा भृगुर्व्रह्मविदां वरः |
१४ क
भीष्म उवाच:
अगस्त्यमाश्रमस्थं वै समुपेत्येदमव्रवीत् ||
१४ ख
भीष्म उवाच:
एवं वय़मसत्कारं देवेन्द्रस्यास्य दुर्मतेः |
१५ क
भीष्म उवाच:
नहुषस्य किमर्थं वै मर्षय़ाम महामुने ||
१५ ख
अगस्त्य उवाच:
कथमेष मय़ा शक्यः शप्तुं यस्य महामुने |
१६ क
अगस्त्य उवाच:
वरदेन वरो दत्तो भवतो विदितश्च सः ||
१६ ख
अगस्त्य उवाच:
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति |
१७ क
अगस्त्य उवाच:
इत्यनेन वरो देवाद्याचितो गच्छता दिवम् ||
१७ ख
अगस्त्य उवाच:
एवं न दग्धः स मय़ा भवता च न संशय़ः |
१८ क
अगस्त्य उवाच:
अन्येनाप्यृषिमुख्येन न शप्तो न च पातितः ||
१८ ख
अगस्त्य उवाच:
अमृतं चैव पानाय़ दत्तमस्मै पुरा विभो |
१९ क
अगस्त्य उवाच:
महात्मने तदर्थं च नास्माभिर्विनिपात्यते ||
१९ ख
अगस्त्य उवाच:
प्राय़च्छत वरं देवः प्रजानां दुःखकारकम् |
२० क
अगस्त्य उवाच:
द्विजेष्वधर्मय़ुक्तानि स करोति नराधमः ||
२० ख
अगस्त्य उवाच:
अत्र यत्प्राप्तकालं नस्तद्व्रूहि वदतां वर |
२१ क
अगस्त्य उवाच:
भवांश्चापि यथा व्रूय़ात्कुर्वीमहि तथा वय़म् ||
२१ ख
भृगुरु उवाच:
पितामहनिय़ोगेन भवन्तमहमागतः |
२२ क
भृगुरु उवाच:
प्रतिकर्तुं वलवति नहुषे दर्पमास्थिते ||
२२ ख
भृगुरु उवाच:
अद्य हि त्वा सुदुर्वुद्धी रथे योक्ष्यति देवराट् |
२३ क
भृगुरु उवाच:
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा ||
२३ ख
भृगुरु उवाच:
अद्येन्द्रं स्थापय़िष्यामि पश्यतस्ते शतक्रतुम् |
२४ क
भृगुरु उवाच:
सञ्चाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम् ||
२४ ख
भृगुरु उवाच:
अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षय़िष्यति |
२५ क
भृगुरु उवाच:
दैवोपहतचित्तत्वादात्मनाशाय़ मन्दधीः ||
२५ ख
भृगुरु उवाच:
व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम् |
२६ क
भृगुरु उवाच:
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् ||
२६ ख
भृगुरु उवाच:
तत एनं सुदुर्वुद्धिं धिक्षव्दाभिहतत्विषम् |
२७ क
भृगुरु उवाच:
धरण्यां पातय़िष्यामि प्रेक्षतस्ते महामुने ||
२७ ख
भृगुरु उवाच:
नहुषं पापकर्माणमैश्वर्यवलमोहितम् |
२८ क
भृगुरु उवाच:
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने ||
२८ ख
भृगुरु उवाच:
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः |
२९ क
भृगुरु उवाच:
अगस्त्यः परमप्रीतो वभूव विगतज्वरः ||
२९ ख