chevron_left भीष्म पर्व अध्याय १०२
सञ्जय़ उवाच:
ततः पिता तव क्रुद्धो निशितैः साय़कोत्तमैः |
१ क
सञ्जय़ उवाच:
आजघान रणे पार्थान्सहसेनान्समन्ततः ||
१ ख
सञ्जय़ उवाच:
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः |
२ क
सञ्जय़ उवाच:
नकुलं च त्रिभिर्वाणैः सहदेवं च सप्तभिः ||
२ ख
सञ्जय़ उवाच:
युधिष्ठिरं द्वादशभिर्वाह्वोरुरसि चार्पय़त् |
३ क
सञ्जय़ उवाच:
धृष्टद्युम्नं ततो विद्ध्वा विननाद महावलः ||
३ ख
सञ्जय़ उवाच:
तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैः |
४ क
सञ्जय़ उवाच:
धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः |
४ ख
सञ्जय़ उवाच:
युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ||
४ ग
सञ्जय़ उवाच:
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत |
५ क
सञ्जय़ उवाच:
एकैकं पञ्चभिर्वाणैर्यमदण्डोपमैः शितैः ||
५ ख
सञ्जय़ उवाच:
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः |
६ क
सञ्जय़ उवाच:
तोत्त्रैरिव महानागं द्रोणं व्राह्मणपुङ्गवम् ||
६ ख
सञ्जय़ उवाच:
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः |
७ क
सञ्जय़ उवाच:
अभीषाहाः शूरसेनाः शिवय़ोऽथ वसातय़ः |
७ ख
सञ्जय़ उवाच:
सङ्ग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ||
७ ग
सञ्जय़ उवाच:
तथैवान्ये वध्यमानाः पाण्डवेय़ैर्महात्मभिः |
८ क
सञ्जय़ उवाच:
पाण्डवानभ्यवर्तन्त विविधाय़ुधपाणय़ः |
८ ख
सञ्जय़ उवाच:
तथैव पाण्डवा राजन्परिवव्रुः पितामहम् ||
८ ग
सञ्जय़ उवाच:
स समन्तात्परिवृतो रथौघैरपराजितः |
९ क
सञ्जय़ उवाच:
गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ||
९ ख
सञ्जय़ उवाच:
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः |
१० क
सञ्जय़ उवाच:
शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रिय़र्षभान् ||
१० ख
सञ्जय़ उवाच:
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः |
११ क
सञ्जय़ उवाच:
कर्णिनालीकनाराचैश्छादय़ामास तद्वलम् ||
११ ख
सञ्जय़ उवाच:
अपातय़द्ध्वजांश्चैव रथिनश्च शितैः शरैः |
१२ क
सञ्जय़ उवाच:
मुण्डतालवनानीव चकार स रथव्रजान् ||
१२ ख
सञ्जय़ उवाच:
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संय़ुगे |
१३ क
सञ्जय़ उवाच:
अकरोत्स महावाहुः सर्वशस्त्रभृतां वरः ||
१३ ख
सञ्जय़ उवाच:
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः |
१४ क
सञ्जय़ उवाच:
निशम्य सर्वभूतानि समकम्पन्त भारत ||
१४ ख
सञ्जय़ उवाच:
अमोघा ह्यपतन्वाणाः पितुस्ते भरतर्षभ |
१५ क
सञ्जय़ उवाच:
नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ||
१५ ख
सञ्जय़ उवाच:
हतवीरान्रथान्राजन्संय़ुक्ताञ्जवनैर्हय़ैः |
१६ क
सञ्जय़ उवाच:
अपश्याम महाराज ह्रिय़माणान्रणाजिरे ||
१६ ख
सञ्जय़ उवाच:
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश |
१७ क
सञ्जय़ उवाच:
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः |
१७ ख
सञ्जय़ उवाच:
अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ||
१७ ग
सञ्जय़ उवाच:
सङ्ग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् |
१८ क
सञ्जय़ उवाच:
निमग्नाः परलोकाय़ सवाजिरथकुञ्जराः ||
१८ ख
सञ्जय़ उवाच:
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः |
१९ क
सञ्जय़ उवाच:
अपश्याम रथान्राजञ्शतशोऽथ सहस्रशः ||
१९ ख
सञ्जय़ उवाच:
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः |
२० क
सञ्जय़ उवाच:
शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते ||
२० ख
सञ्जय़ उवाच:
गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः |
२१ क
सञ्जय़ उवाच:
अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ||
२१ ख
सञ्जय़ उवाच:
वाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैः |
२२ क
सञ्जय़ उवाच:
तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः |
२२ ख
सञ्जय़ उवाच:
चापैश्च वहुधा छिन्नैः समास्तीर्यत मेदिनी ||
२२ ग
सञ्जय़ उवाच:
हतारोहा गजा राजन्हय़ाश्च हतसादिनः |
२३ क
सञ्जय़ उवाच:
परिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ||
२३ ख
सञ्जय़ उवाच:
यतमानाश्च ते वीरा द्रवमाणान्महारथान् |
२४ क
सञ्जय़ उवाच:
नाशक्नुवन्वारय़ितुं भीष्मवाणप्रपीडितान् ||
२४ ख
सञ्जय़ उवाच:
महेन्द्रसमवीर्येण वध्यमाना महाचमूः |
२५ क
सञ्जय़ उवाच:
अभज्यत महाराज न च द्वौ सह धावतः ||
२५ ख
सञ्जय़ उवाच:
आविद्धरथनागाश्वं पतितध्वजकूवरम् |
२६ क
सञ्जय़ उवाच:
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ||
२६ ख
सञ्जय़ उवाच:
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा |
२७ क
सञ्जय़ उवाच:
प्रिय़ं सखाय़ं चाक्रन्दे सखा दैववलात्कृतः ||
२७ ख
सञ्जय़ उवाच:
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः |
२८ क
सञ्जय़ उवाच:
प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ||
२८ ख
सञ्जय़ उवाच:
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम् |
२९ क
सञ्जय़ उवाच:
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ||
२९ ख
सञ्जय़ उवाच:
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः |
३० क
सञ्जय़ उवाच:
उवाच पार्थं वीभत्सुं निगृह्य रथमुत्तमम् ||
३० ख
सञ्जय़ उवाच:
अय़ं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्तव |
३१ क
सञ्जय़ उवाच:
प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे ||
३१ ख
सञ्जय़ उवाच:
यत्पुरा कथितं वीर त्वय़ा राज्ञां समागमे |
३२ क
सञ्जय़ उवाच:
विराटनगरे पार्थ सञ्जय़स्य समीपतः ||
३२ ख
सञ्जय़ उवाच:
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् |
३३ क
सञ्जय़ उवाच:
सानुवन्धान्हनिष्यामि ये मां योत्स्यन्ति संय़ुगे ||
३३ ख
सञ्जय़ उवाच:
इति तत्कुरु कौन्तेय़ सत्यं वाक्यमरिन्दम |
३४ क
सञ्जय़ उवाच:
क्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ ||
३४ ख
सञ्जय़ उवाच:
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः |
३५ क
सञ्जय़ उवाच:
अकाम इव वीभत्सुरिदं वचनमव्रवीत् ||
३५ ख
सञ्जय़ उवाच:
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् |
३६ क
सञ्जय़ उवाच:
दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ||
३६ ख
सञ्जय़ उवाच:
चोदय़ाश्वान्यतो भीष्मः करिष्ये वचनं तव |
३७ क
सञ्जय़ उवाच:
पातय़िष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ||
३७ ख
सञ्जय़ उवाच:
ततोऽश्वान्रजतप्रख्यांश्चोदय़ामास माधवः |
३८ क
सञ्जय़ उवाच:
यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव ||
३८ ख
सञ्जय़ उवाच:
ततस्तत्पुनरावृत्तं युधिष्ठिरवलं महत् |
३९ क
सञ्जय़ उवाच:
दृष्ट्वा पार्थं महावाहुं भीष्माय़ोद्यन्तमाहवे ||
३९ ख
सञ्जय़ उवाच:
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः |
४० क
सञ्जय़ उवाच:
धनञ्जय़रथं शीघ्रं शरवर्षैरवाकिरत् ||
४० ख
सञ्जय़ उवाच:
क्षणेन स रथस्तस्य सहय़ः सहसारथिः |
४१ क
सञ्जय़ उवाच:
शरवर्षेण महता न प्राज्ञाय़त किञ्चन ||
४१ ख
सञ्जय़ उवाच:
वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय़ सात्वतः |
४२ क
सञ्जय़ उवाच:
चोदय़ामास तानश्वान्वितुन्नान्भीष्मसाय़कैः ||
४२ ख
सञ्जय़ उवाच:
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् |
४३ क
सञ्जय़ उवाच:
पातय़ामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ||
४३ ख
सञ्जय़ उवाच:
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः |
४४ क
सञ्जय़ उवाच:
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ||
४४ ख
सञ्जय़ उवाच:
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् |
४५ क
सञ्जय़ उवाच:
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ||
४५ ख
सञ्जय़ उवाच:
तस्य तत्पूजय़ामास लाघवं शन्तनोः सुतः |
४६ क
सञ्जय़ उवाच:
साधु पार्थ महावाहो साधु कुन्तीसुतेति च ||
४६ ख
सञ्जय़ उवाच:
समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुः |
४७ क
सञ्जय़ उवाच:
मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ||
४७ ख
सञ्जय़ उवाच:
अदर्शय़द्वासुदेवो हय़याने परं वलम् |
४८ क